हम्पी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हम्पी
विश्वपरम्परास्थानानि

हम्पी
राष्ट्रम् भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः (i)(iii)(iv)
अनुबन्धाः 241
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1986  (10th सत्रम्)
भयग्रस्तानि 1999–2006
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

कर्णाटकस्य बळ्ळारीमण्डले विद्यमानं पम्पाक्षेत्रम् (हम्पी) होसपेटे (०८३९४) विजयनगरसाम्राज्यस्य राजधानी । ज्ञानस्य पीठं, सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् ।

हम्पी विरूपाक्षदेवालयः

श्री विद्यारण्येन स्थापितं विजयनगरसाम्राज्यं कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत् । पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षकम् एतत् स्थानं तुङ्गभद्रानदीतीरे अस्ति ।

हम्पीति शब्दस्य स्मरणेन प्राचीनस्य वैभवोपेतस्य विजयनगरसाम्राज्यस्य सुन्दरकल्पना मनसि भवति । पम्पाक्षेत्रं पूर्वं विजयनगरमिति ख्यातम् विजयनगरसाम्राज्यस्य राजधानी आसीत् । तुङ्गभद्रानदीतीरे स्थितम् एतत् स्थानं कर्णाटकेतिहासे एव महत्त्वपूर्णं स्थानम् आवहति । इदानीमपि हम्पीक्षेत्रं विशिष्टमेव अस्ति ।

अत्र स्थितानां मातङ्गमौल्यवन्तहेमकूटपर्वतानां पौराणिकः आधारः अस्ति । शिलाशासनानुसारम् एतत् पम्पाक्षेत्रम् । अस्य होसपट्टण, विरूपाक्षपुर, हस्तिनापति,हम्पे, कुञ्जरकोण, विद्यानगर इत्यादिनामानि सन्ति ।

विजयनगरे अनेकराजवंशीयाः प्रशासनं कृतवन्तः । तैः निर्मितानि भवनानि देवालयाः विग्रहाः सर्वे २० चतुरस्र. कि.मीटरप्रदेशे व्याप्तानि सन्ति सप्तप्रावाराः पूर्वमासन् । शतशः देवालयाः राज्ञां निवासाः भवनानि नृत्यागाराः गोपुराणि सौधाः च अत्र आसन् । विरूपाक्षबजार् इति विपण्याः नाम आसीत् ।

दोड्डरस्तेप्रदेशे २४० पादमितः दीर्घः, १०३ पादविस्तृतः रत्नस्वर्णमौक्तिकानां वाणीज्यव्यवहाराः प्रचलन्ति स्म । देशविदेशीयाः वणिजः अत्र अगच्छन्ति स्म । विदेशीयाः अत्रत्यं वाणिज्यादिकं दृष्ट्वा स्वयात्राकथनेषु लिखितवन्तः सन्ति ।

विरूपाक्षमन्दिरम्[सम्पादयतु]

श्रीविरूपाक्षदेवालयः अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । १७० पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति । पूर्वं धार्मिकाध्यात्मिकविषये अत्र व्यासरायस्वामिनः व्यासकूटः, पुरन्दरकनकदासादिदासवरेण्यैः युक्तः दासकूटः च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति।

विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् तुङ्ग्भद्रानदीतीरे सुन्दरप्राङ्गणे अस्ति । तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । हम्पीप्रदेशे इदानीम् अत्यन्तं दर्शनीयं नाम विरूपाक्षमन्दिरम् । अत्र पम्पापतिः श्री विरूपाक्षः आराध्यः अस्ति । मन्दिरस्य गोपुरम् अतीवोन्नतं तन्नाम १६५ पादपरिमितम् अस्ति । देवालयस्य आवरणम् १३०x३२० चतुरस्रपादपरिमितम् अस्ति ।

विरूपाक्षमन्दिरावरणे पम्पावत्याः गणपतेः च लघु मन्दिराणि सन्ति । देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति । देवालयस्य पुरतः राजमार्गः विस्तृतः अस्ति । पार्श्वे एकं सुन्दरं तटाकम् अस्ति । समीपे तुङ्गभद्रानदी प्रवहति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया विजयविठ्ठलमन्दिरं हजारराममन्दिरं यन्त्रोद्धारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।

कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्यं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति ।

विठलमन्दिरे गोपुराणि संयुक्तस्तम्भाः शिलास्तम्भाः च अपूर्वाः सन्ति । शिलास्तम्भेषु सङ्गीतध्वनिः निस्सरति । पार्श्वे एकः रथः शिलानिर्मितः अस्ति चक्राणि अपि शिलामयानि सन्ति । विश्वप्रसिद्धम् अद्वितीयमिदम् ।

महानवमीदिब्ब इति किञ्चित् विशालम् मुक्तसभाङ्गणम् अस्ति । ८०x८०x२२ पादघनाकारकम् एतत् । अत्र शिलासु अतीवसुन्दरचित्राणि सन्ति । मृगयाचित्राणि नृत्यभङ्ग्यः पौराणिकचित्राणि दर्शनीयानि सन्ति । नवरात्रिसमये अत्र विविधा कार्यक्रमाः भवन्ति स्म । कमलमहल् एकम् सुन्दरं शिल्पमस्ति । हिन्दुमुस्लिम् शैलियुक्तम् एतत् द्विस्तरीयं च शिल्पमेतत् । गजशाला, राज्ञीनां स्नानगृहाणि, हजाररामदेवालयः, तुलाभारमण्डपः, सर्षपगणपतिः ३२ पादपरिमितः, चणकगणपतिः १८ पादपरिमितः, दण्डनायकनिवासाः इत्यादि दर्शकानाम् आश्चर्यं जनयन्ति । अत्र समीपे तुङ्गभद्रातीरे पुरन्दरदासमण्डपः अतीव सुन्दरः शिलामण्डपः अस्ति । समीपे एव कमलापूरे वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । हम्पीप्रदेशे कन्नडविश्वविद्यालयः स्थापितः अस्ति ।

होसपेटेनगरसमीपे दर्शनीयः तुङ्गभद्राजलाशयः अस्ति । अत्र सूर्यास्तदर्शनम् अतीव सन्तोषाय भवति । सुन्दरम् उद्यानं सङ्गीतोत्सांसि अत्र रचितानि सन्ति । जलाशये नौकाविहारः अपि साध्यः अस्ति । हम्पीक्षेत्रे शिला एव सर्वं कथयति इति विशेषज्ञाः वदन्ति ।

मार्गः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

समीपविमाननिस्थानानि बळ्ळारी हुब्बळ्ळी बेळगावी बेङ्गळूरु

धूमशकटमार्गः[सम्पादयतु]

गुन्तकल्- हुबळ्ळीमर्गे होसपेटेनिस्थानम् अस्ति । ततः २० कि.मी ।

वाहनमार्गः[सम्पादयतु]

होसपेटेनगरपर्यन्तं सर्वतः सम्पर्कः अस्ति । बेङ्गळूरुतः ३४० कि.मी । हुब्बळ्ळीतः १५० कि.मी । वसतेः कृते होसपेटे नगरे उपाहारवसतिगृहाणि सन्ति ।


Scenery[सम्पादयतु]

मातङ्गपर्वतात् स्वीकृतं हम्पीक्षेत्रस्य हृदयङ्गमं दृश्यम्

बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=हम्पी&oldid=271392" इत्यस्माद् पुनः प्राप्तिः