महाबोधिमन्दिरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
महाबोधिमन्दिरम्
विश्वपरम्परास्थानानि

Mahabodhi Temple
राष्ट्रम् भारतम्भारतम्, भारतीयराष्ट्रियकाङ्गेस्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, iv, vi
अनुबन्धाः १०५६
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००२  (२६तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

महाबोधिः इति ख्यातं बुद्धगयामन्दिरम् इष्टिकया निर्मितं प्राचीनं बौद्धमन्दिरं वर्तते । अत्रत्यं पूर्वतनं मन्दिरं क्रि.पू.तृतीये शतके निर्मितम् । अत्रत्यानि अन्यानि मन्दिराणि पञ्चमे षष्ठे वा शतके निर्मितानि स्युः । बुद्धेन अत्रैव आत्मज्ञानं प्राप्तम् इत्यतः स्थलम् एतत् बौद्धानां प्रसिद्धं पवित्रयात्रास्थलं वर्तते । मन्दिरस्य भूतलप्रदेशः ४५ चतरस्रमीटर्-मितः अस्ति । सूच्यग्रस्तूपाकारयुक्तस्य मन्दिरस्य उपरि लघु चतरस्राङ्गणं द्दश्यते । मन्दिरस्य बहिर्भागेषु बुद्धस्य जीवनगाथा इष्टिकाभिः सुन्दरतया चित्रिता अस्ति । मन्दिरस्य अन्तः उपविष्टवतः बुद्धस्य महती प्रतिमा वर्तते, यत्र च बुद्धः दक्षिणहस्तेन भूमिं स्पृशन् अस्ति । अस्याम् एव स्थितौ बुद्धः आत्मज्ञानं प्राप्तवान् इति भावयन्ति जनाः । एषा प्रतिमा कृष्णशिलया निर्मिता अस्ति । सुवर्णकवचेन अलङ्कृता इयं प्रतिमा केसरवस्त्रेण आवृता अस्ति । मन्दिरस्य आवरणे लघुस्तूपाः बह्व्यः भुद्धमूर्तयः च द्दश्यन्ते, याः च बहुभ्यः शतकेभ्यः पूवं निर्मिताः। महाबोधिमन्दिरस्य पार्श्वे बोधिवृक्षः द्दश्यते । तस्य अधः एव बुद्धः आत्मज्ञानं प्राप्तवान् । तत्पार्श्वे आत्मज्ञानस्य प्राप्तेः अनन्तरं सप्त दिनानि यावत् बुद्धेन अचलध्यानं यत्र कृतं तच्च स्थलं वर्तते । २००२ तमे वर्षे युनेस्कोसंस्थया महाबोधिमन्दिरं जागतिकपारम्परिकस्थलत्वेन निर्दिष्टम् अस्ति ।

मन्दिरसौन्दर्यम्[सम्पादयतु]

महाबोधिमन्दिरं मुख्यमन्दिरम् इत्यपि नाम्ना प्रसिद्धम् अस्ति । मन्दिरमेतत् नृपतिना अशोकेन निर्मितः स्तूपेन समनः अस्ति । अस्मिन् मन्दिरे भगवतः बुद्धस्य उन्नता पद्मासनोपविष्टा मूर्तिः प्रतिष्टापिता । इयं मूर्तिः तत्रैव स्थापिता अस्ति यत्र सिद्धार्थः निर्वाणं प्राप्य बुद्धः अभवत् । मन्दिरस्य चतृषु दिशासु चित्रोत्कीर्णशिलाफलकानि सन्ति । एतानि एव बोधगयायां प्राप्ताः प्राचीनावशेषाः । अस्य मन्दिरस्य नैरुत्यदिशायां प्राकृतिकद्यश्यवैभयुक्तम् उद्यानम् अस्ति । अत्र नैके बौद्धभिक्षवः आगत्य ध्यानमग्नाः भवन्ति । मन्दिरप्रशासनस्मितेः अनुमतिं प्राप्य सामान्यजनाः अत्र प्रवेशं प्राप्नुवन्ति । अस्मिन् मन्दिरे सप्तस्थानानि पवित्ररूपेण अङ्किताः यत्र भगवान् बुद्धः सिद्धिं प्राप्य सप्तदिनानि व्यतीतवान् । जतककथासु उल्लिखितः बोधिवृक्षः अत्रैव मन्दिरस्य पुरतः अस्ति यस्याधः सिद्धार्थः सिद्धिमवाप्नोत् । अयं कश्चित् पिप्पलवृक्षः यः मुख्यमन्दिरस्य पुरतः अस्ति । वर्तमानः वृक्षः मूलवृक्षस्य पञ्जमी वंशश्रेणी अस्ति । मन्दिरसमूहानां घण्टानादः विशिष्टं शान्तिं जनयति । मुख्यमन्दिरस्य पृष्टभागे रक्तशिलानिर्मिता ७पादपरिमिता बुद्धमूर्तिः अस्ति । अस्याः मूर्तेः चतृसु दिशासु विभिन्नवर्णानां पताकाः लग्नाः । अनेन मूर्तिः विशिष्टरीत्या आकर्षति । एवं वदन्ति स्थलीयाः यत् क्रिस्तपूर्वतृतीयशतके एव साम्राट् अशोकः वज्रखचितसिंहासनम् अत्रैव स्थापितवान् । एतत् केन्द्रं पृथिव्याः नाभिः इति वदन्ति । अस्य पुरतः एव विशाले प्रस्तरे बुद्धस्य विशालं पदचिह्नम् अङ्कितम् अस्ति । एतत् पदचिह्नमेव धर्मचक्रस्य प्रतीकम् इति मन्यन्ते भक्तगणः । बुद्धः ज्ञानप्राप्तेः पश्चात् अस्य वृक्षस्य पुरतः एव स्थित्वा दर्शनं दत्तवान् । बुद्धावस्थायाः अपि अस्य मूर्तिः अत्र निर्मितास्ति । अस्य मूर्तेः अनिमेशलोचनः इति कथ्यते । मुख्यमन्दिरस्य ईशान्यदिशायाम् अनिमेशचित्यं निर्मितम् अस्ति । मुख्यमन्दिरस्य उत्तरभागः चङ्कामाना इति नाम्ना प्रसिद्धः । अस्मिन् एव स्थाने बुद्ध ज्ञानप्राप्तेः पश्चात् तृतियसपाहं व्यतीतवान् । अत्र कृष्णशिलया कमलपुष्पं निर्मितं यत् बुद्धस्य प्रतीकः इति विश्वस्यते । महाबोधीमन्दिरस्य वायव्यभागे चालविहीनः कश्चित् भग्नावशेषः अस्ति यस्य रत्नाघाता इति नाम भवति । अस्मिन् एव स्थले बुद्धः ज्ञानप्राप्तेः पश्चात् चतुर्थसप्ताहं व्यतीतवान् । गहनध्यने मग्नस्य बुद्धस्य शारीरात् प्रकाशकिरणानि निसृतानि । तैः विभिन्नदिशाप्रविष्टकिरणैः पताकानां विभिन्नवर्णाः उत्पन्नाः इति काचित् किंवदन्ती अस्ति । मुख्यमन्दिरस्य उत्तरद्वारात् अनतिदूरे विद्यमानस्य अजपालन्यग्रोधवृक्षस्य अधः ज्ञानप्राप्तेः पश्चात् बुद्धः पञ्चमसप्ताहं व्यतीतान् इति जानाः वदन्ति । षष्टसम्पाहं बुद्धः महाबोधिमन्दिरस्य दक्षिणदिशिस्थितस्य मूचालिण्डा इति सरसः निकटे व्यतीतवान् । एतत् सरः परितः उन्नतवृक्षाः सन्ति । अस्य सरसः मध्ये उरगस्य फणाछायायां स्थितस्य भगवतः बुद्धस्य विग्रहः प्रतिष्ठापितः। कदाचित्बुद्धस्य ध्यानमग्नस्य चण्डवातागमनस्य लक्ष्यम् अपि नासीत् । यदा बुद्धः मुसलधारावृष्ट्या उत्सितः तदा सर्पराजः मूचलिण्डः स्वस्य निवासाद्बहिरागत्य फणां प्रसार्य बुद्धस्य रक्षाणम् अकरोत् इति स्थलीयजनाः कथां वदन्ति । मन्दिरस्य आग्नेयदिशि राजयतना इति वृक्षः अस्ति । अस्य वृक्षस्य अधः एव बुद्धः ज्ञानप्राप्तेः पश्चात् सप्तमसप्ताहं व्यतीतवान् इति जनविश्वासः । अत्र एव बुद्धः ब्रह्मदेशीयै वणिजौ सन्दृष्टवान् । एतौ वणिजै बुद्धे आश्रयं प्रार्थितवन्तौ । एतावेव बुद्धं शरणं गच्छामि इति प्रथमम् उक्तवन्तौ । पश्चात् इयं प्रार्थनां बौद्धलोके विश्रुता अभवत् ।

टिबेट्टीयः मठः[सम्पादयतु]

महाबोधिमन्दिरस्य पश्चिमदिशि अनतिदूरे स्थितः जिकिबोधगया अनुपमः विशिष्टः क्रि.श.१९३४तमे वर्षे निर्मितः प्राचीनमठः । गयाबोधगययोः मार्गे निरञ्जनानद्याः तटे निर्मितः बर्मीविहारमठः क्रिश. १९३६तमे वर्षे निर्मितः । अस्मिन् बौद्धविहारे प्रार्थनायाः प्रकोष्टद्वयम् अस्ति । बुद्धस्य कश्चन बृहद्विग्रहः अस्ति । अस्य पार्श्वे एव थायी मन्दिरम् अस्ति । अस्य विहारस्य चालः सुवर्णलोहेन चित्राङ्कितः अस्ति । अनेन स्य विहारस्य स्वर्णविहारः इत्यपि कथयन्ति । अस्य विहारस्य निर्माणं थाय्लेण्ड् राजपरिवाजनाः बौद्धमतारम्भस्य २५००वर्षसम्पूरणस्य स्मारणार्थं कृतवन्तः । महबोधिमन्दिरस्य ११.५कि.मी.दूरे विद्यमानस्य इण्डोसन् निप्पन् जपानि मन्दिरस्य निर्माणः क्रि.स. १९७२-७३वर्षयोः अभवत् । अस्य मन्दिरस्य निर्माणस्य शैली काष्टनिर्मितजपानीयमन्दिरस्य इव अस्ति । अस्मिन् मन्दिरे बुद्धस्य जीवनघटनावल्यः चित्रशिल्पमाध्यमेन दर्शिताः । महाबोधिमन्दिरतः पञ्चकिलोमीटर् दूरे विद्यमानस्य चीनामन्दिरस्य निर्माणं क्रि.श. १९४५तमे वर्षे अभवत् । अस्मिन् मन्दिरे स्वर्णनिर्मितः बुद्धविग्रहः अस्ति । अस्य मन्दिरस् जीर्णोद्धारः क्रि.शा. १९९७तमवर्षे अभवत् । जपानीयमन्दिरस्य उत्तरदिशि भूटनी विहारः अस्ति । अस्य विहारस्य भित्तिषु उत्कीर्णकलायाः सुन्द्ररविन्यासः अस्ति । अत्र नूतनतमं नाम वियटनामीयं मन्दिरम् अस्ति । एतन्मन्दिरं महाबोधिमन्दिरस्य उत्तरे ५निमेषाणां चलनेन मिलति । अस्य विहारस्य निर्माणं क्रि.श. २००२तमवर्षे अभवत् । अस्मिन् बौद्धविहारे भगवतः बुद्धस्य शान्त्यवतारः अवलोकितेश्वरस्य प्रतिमा स्थापिता । एतान् विहारन् अतिरिच्य अत्र कानिचन स्मारकानि अपि सन्ति । भारतस्य सर्वाधिकोन्नता बुद्धमूर्तिः ६पदपरिमित कमलपुष्पशिल्पे उपविष्टबुद्धस्य ८०पादपरिमितोन्नतः विग्रहः ।

राजगीरः[सम्पादयतु]

बोधगयापर्यटकैः अवश्य राजगीरप्रदेशः दर्शनीयः । अत्र गृध्रकूटपर्वतमस्तके कश्चित् विश्वशन्तिस्तूपः अत्याकर्षकः अस्ति । पर्वताग्रं गन्तुं रज्जुदोलिकानां व्यवस्था अस्ति । अस्य शान्तिस्तूपस्य निकटं वेणुवनम् अस्ति यत्र कदाचित् । राजगीरप्रदेशे प्रसिद्धा सप्तपर्णी गुहा अस्ति यत्र भागवान् बुद्धः निर्वाणं प्राप्य प्रथ । गुहा राजगीरस्य दक्षिणे उष्णोदककूपतः १०००सोपानानाम् अरोहणेन प्राप्यते । उपरि आरोहणं कर्तुम् एकमात्रं वाहनम् आश्वशकटं यस्य तत्र टमटम इति नाम भवति । शताधिकरूप्यकाणां शुल्कं दत्वा अर्धदिनं यावत् प्रयाणं क्रियते ।

नालन्‍दा[सम्पादयतु]

नलन्दा तु रजगीरतः १३कि.मी. दूरे अस्ति । अत्र प्राचीनकाले नलन्दा इति विश्वप्रसिद्धः विश्वविद्यालयः आसीत् । अधुन अत्र तस्य विश्वविद्यालयस्य भग्नावशेषाः सन्ति । बिहारसर्वकारेण सद्यः काले एव अन्ताराष्ट्रियविश्वविद्यालयम् अत्र स्थापयितुं निश्चितः । अत्र कश्चित् वस्तुसङ्ग्रहालयः अपि अस्ति । अस्मिन् अत्र उत्खननावसरे लब्धाः प्राचीनावशेषाः संस्थापिताः । नलन्दातः ५कि.मी दूरे प्रसिद्धं जैनतीर्थस्थानं पावपुरी अस्ति । एतत् स्थानं महावीरेन सम्बद्धम् अस्ति । अतः अत्र महावीरस्य भव्यदेवालयः अस्ति । नलन्दाप्रदेशस्य निकटे एव बिहारशरीफः अस्ति । मध्यकाले अस्य नम ओदन्तपुरी आसीत् । वर्तमाने एतत्स्थानं महमदीयायां तीर्थस्थानम् इति प्रसिद्धम् । अत्र तेषां कश्चित् मस्जिदः अस्ति । बिहारशरीफप्रदेशे पर्यटनार्थम् आगच्छन्ति तै मनीरामस्य अखाडा अपि दर्शनीया अस्ति । स्थानीयानां विश्वासः यत् अत्र शुद्धहृदयेन यदि प्रार्थ्यते तर्हि तस्य मनोकामनाः सिद्ध्यन्ति ।

मार्गदर्शनम्[सम्पादयतु]

गयां, राजगीरं, नलन्दां, पावापुरीं, बिहारशरीफं गन्तुः धूमशकटयानमेव उचितम् । एतेषां स्थानानां प्रवासार्थं भारतसर्वकारः।भारतसर्वकारस्य रेल्वेविभागेन बौद्धपरिक्रमा इति नाम्ना रेल् यानस्य व्यवस्था कल्पिता । एतदतिरिच्य श्रमजीवि एक्सप्रेस्, पटानराजगीर इण्टर् सिटी एक्स्प्रेस्, पटनाराजगीर् पेसेञ्जर् इत्यादीनि रेल् यानानि अत्र सञ्चरन्ति । भूमार्गेण लोकयाने अपि तानि तीर्थस्थानानि गन्तुं शक्यते । वायुमार्गस्यापि सौकर्यम् अस्ति । नवदेहलीविमाननिस्थानकतः

उल्लेखाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=महाबोधिमन्दिरम्&oldid=234160" इत्यस्माद् पुनः प्राप्तिः