भारतस्य पर्वतीयरेल्-मार्गाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भारतस्य पर्वतीयधूमशकटमार्गाः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भारतस्य पर्वतीयधूमशकटमार्गाः ।
विश्वपरम्परास्थानानि

दार्जिलिङ्गहिमालयरेल्यानम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम् ।
मानदण्डः
अनुबन्धाः ९४४
क्षेत्रम् एषिया

पेसिफिक्

निर्देशाङ्कः ii, iv
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९९९  (२३तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्
दुर्जयलिङ्गहिमालयरेल्वेनिस्थानकम्

भारतस्य पर्वतप्रान्तस्य धूमशकटयानानां लोहशलाकामार्गाः आङ्ग्लप्रशासनकाले १९-२०तम शतकयोः मध्ये आरब्धाः इति अभिलेखाः मिलन्ति । तत्र अन्यचतुर्णां मार्गानां विषये अपि उल्लिखितम् । एतेषु पञ्चमार्गेषु दार्जिलिङ्ग् हिमालयपर्वतमार्गः (क्रि.श. १८८१) कालकाशिमलामार्गः (क्रि.श.१८९८), काङ्ग्राकन्दरमार्गः (क्रि.श. १९२४) एते हिमालस्य पर्वतशृङ्खलायां गिरिकन्दरप्रदेशेषु व्याप्ताः । अन्यमार्गद्वयं भारतस्य दक्षिणभागे पश्चिमपर्वतप्रान्ते अस्ति । तौ दक्षिणभारतस्य नीलगिरिधूमशकटमार्गः, महाराष्ट्रराज्यस्य मथेरान्पर्वतप्रान्तस्य धूमशकटयानमार्गः च । दार्जिलिङ्ग् हिमालयस्य मार्गः, नीलगिरिपर्वतमार्गः, काल्काशिमलामार्गः च विश्वसंस्थयाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगेन (युनेस्को) विश्वपरम्परास्थानानि इति संसूचितम् अपि च भारतस्य पर्वतीयाः धूमशकटमार्गाः इति सम्बोधितानि ।


[१][२][३]भारतस्य पञ्चरेल्वेमार्गाः,[४]

एते पञ्चमार्गाः अपि इदानीमपि कलावन्तः सन्ति । एते सर्वे मार्गाः अपि पर्वतमूलतः शिखरपर्यन्तं सम्पर्कं कल्पयन्ति । एतेषु मार्गेषु गमनावसरे गिरिकन्दराणां नैसर्गिकसौन्दर्यस्य च दर्शनम् आह्लादं जनयति । तेषां निर्माणस्य निश्चितभूप्रदेशस्य आधारेण आङ्ग्लशासनावधौ तन्त्रज्ञानाभिवृद्धेः मौल्यानां परर्परविनिमयस्य उदाहरणानि इति परिगणितम् ।

[१][२][३]

इतिहासः[सम्पादयतु]

भारतस्य अन्यपर्वतप्रान्तेषु हिमालये च सम्पर्कं प्राप्तुम् आङ्ग्लप्रशासनकाले दर्शितास्याः विलम्बनितासक्तेः फलरूपेण पर्वतेषु धूमशकटयनसञ्चारस्य लोहशलाकामार्गाः निर्मिताः । क्रि.श. १८४४तमवर्षस्य भारतस्य

[५]

वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । [२][६][७]
मनमोहकपर्वतभूप्रदेशेषु सञ्चारार्थं सर्वप्रथमप्रयत्नः दार्जिलिङ्ग् हिमालययोः धूमशकटमार्गनिर्माणेन क्रि.श. १८७८तमे वर्षे सफलः अभवत् । पश्चात् तदानीन्तस्य पूर्वबङ्गालस्य रेल्वेविभागस्य फ्राक्लिन् प्रेस्टेज़् इति कश्चित् लिगुरितः दार्जिलिङ्ग् पर्यन्तं पर्वतप्रदेस्य शकटयानमार्गस्य मानचित्रं स्वीकृत्य रेल्मार्गनिर्माणस्य प्रकल्पम् आरब्धवान् । क्रि.श. १८८१तमवर्षे दार्जिलिङ्ग् पर्यन्तं लोहमार्गः निर्मितः एव ।[२][६] अग्रिमः प्रकल्पः दक्षिणभारतस्य नीलगिरिपर्वतप्रदेशस्य रेल्मार्गनिर्माणम् । अनेन सम्बद्धं प्रस्तावं क्रि.श. १८५४तमवर्षे प्रेषितवन् । अस्य निर्माणकार्यं क्रि.श. १८९४तमवर्षे आरब्धं किन्तु क्रि.शा. १९०८तमवर्षपर्यन्तमपि न समाप्तं यतः पर्वतस्य भूप्रदेशः अभेद्यः आसीत् । बहुदूरस्य पर्वतप्रदेशस्य परस्परं सम्पर्कं कल्पयितुं ९६कि.मी. दूरस्य काकाशिमलाधूमशकटयानस्य सम्पर्कनिर्माणं क्रि.श. १८९८तमवर्षे आरब्धम् । एतत् क्रि.श. १९०३तमवर्षे आङ्ग्लवैसरायेन लार्ड् कर्जन् इत्यनेन उद्घाटितम् । मेथेरान् मुम्बैनगरतः १०८कि.मी.दूरे विद्यमानं गिरिधाम । चित्रसदृशेषु काङ्ग्राकन्दरेषु क्रि.श. १९२९तमे वर्षे लोहशलाकामार्गः निर्मितः ।
[१][२][३] पर्वतभूप्रदेशेषु दक्षः परिणामात्मकः धूमशकटमार्गः स्वदेशीतन्त्रविज्ञानेन निर्मितः । अयं दुःस्साध्यः एव कर्मणः उदाहरणम् अतः युनेस्को द्वारा एते रेल्मार्गाः विश्वपरम्परावल्यां प्रवेशिताः । [१] दार्जिलिङ्ग् हिमालयमार्गः क्रि.श. १९९९तमे वर्षे प्रथमवारम् अभिज्ञातः । नीलगिरिमार्गः क्रि.श. २००५तमे वर्षे पुनः विस्तारितः अभवत् । अपि च क्रि.श. २००८तमवर्षे कालकाशिल्मामार्गस्य अपि विस्तरणं कृतम् । .[१][७]
भारतस्य पञ्चपर्वतमार्गाः एवं सन्ति ।
  • दार्जिलिङ्ग् हिमालयस्य धूमशकटलोहमार्गः - ८८ कि.मी. दैर्घ्यम् ।
  • नीलगिरेः धूमशकटलोहमार्गः - ४६ कि.मी. दैर्घ्यम् ।
  • कालकाशिम्लायोः धूमशकटलोहमार्गः - ९५.६६ कि.मी. दैर्घ्यम् ।
  • मेथेरान्पर्वतस्य धूमशकटलोहमार्गः - २० कि.मी. दैर्घ्यम् ।
  • काङ्ग्राकन्दरस्य धूमशकटलोहमार्गः - १६४ कि.मी. दैर्घ्यम् ।

दार्जिलिङ्गहिमालयमार्गः[सम्पादयतु]

क्रीडायानम् इति विशेषणम् अस्ति अस्य धूमशकटयानस्य । अयं मार्गः २मी.न्यारोगेज़् लोहमार्गः । भारतस्य बङ्गालराज्यस्य सिलिगुरितः दार्जिलिङ्ग् पर्यन्तस्य ८८की.मी. मार्गम् एतत् यानं सञ्चरति । अस्य निर्वहणं भारतीयरेल्वेविभागः करोति । भारते अद्यपर्यन्तम् अपि अतिशयरूपेन परिगणितः अयं मार्गः ब्रिटिश् सर्वकारेण निर्मितः । दार्जिलिङ्ग् किञ्चित् प्रमुखं ग्रीष्मकालीनगिरिधाम आसीत् । अपि च चायपत्रप्ररोहणस्य समृद्धकेन्द्रम् आसीत् । घूम् इति निस्थानके अस्य औन्नत्यं २३००मी. अस्ति । एतदेव अत्युन्नतं स्थानम् इति निर्दिष्टम् ।.[८][९]

उल्लेखाः[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ "Mountain Railways of India". World Heritage:UNESCO. Retrieved 2010-02-19. 
  2. २.० २.१ २.२ २.३ २.४ Kohli, M.S. (2004). Mountains of India: Tourism, Adventure, Pilgrimage. Indus Publishing. pp. 97–106. ISBN 8173871353. http://books.google.co.in/books?id=GIs4zv17HHwC&pg=PA97&dq=mountain+railways+of+india&cd=5#v=onepage&q=mountain%20railways%20of%20india&f=false. Retrieved 2010-02-20. 
  3. ३.० ३.१ ३.२ "Luxury Trains of India". Retrieved 2010-02-20. 
  4. Abram, David (2003). Rough guide to India. Rough Guides. p. 479. ISBN 1843530899. http://books.google.co.in/books?id=kAMik_6LbwUC&pg=PA479&dq=mountain+railways+of+india&lr=&cd=73#v=onepage&q=mountain%20railways%20of%20india&f=false. Retrieved 2010-02-20. 
  5. "Steam in History". The Indian Railways fan Club (IRFCA). Retrieved 2010-04-03. 
  6. ६.० ६.१ "Mountain Railways of India – Chugging and romancing the hills". Retrieved 2010-02-20. 
  7. ७.० ७.१ Srinivasan, Rupa; Manish Tiwari and Sandeep Silas (2006). Our Indian Railway: themes in India's Railway history. Foundation Books. pp. xxxiv-xxxv. ISBN 8175963301. http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false. Retrieved 2010-02-21. 
  8. Whittle, Paul; Terry Martin. "A Brief History of the DHR". History and A Trip Up the Line. Darjeeling Himalayan Railway Society. Retrieved 2007-02-24. 
  9. "History of Darjeeling Himalayan Railway". Retrieved 2010-04-03.