छत्रपतिशिवाजीटर्मिनस्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
छत्रपतिशिवाजीटर्मिनस्
विश्वपरम्परास्थानानि

छत्रपतिशिवाजीरेल्वेनिस्थानकम्
राष्ट्रम् पक्षः च भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः ९४५
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः ii, iv
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००४  (२८तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

छत्रपतिशिवाजीटर्मिनस् भारतस्य वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् भारतस्य किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।

इतिहासः[सम्पादयतु]

अस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । भारतस्य स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे शिवसेनायाः अभ्यर्थनानुसारं नम्नापि भारतीकरणस्य सर्वकारीयनीत्यनुगुण अस्य निस्थानकस्य नाम परिवर्त्य, मराठाशूरवीरशासकस्य छात्रपतिशिवाजीवर्यस्य नाम महाराष्ट्रस्य राज्यसर्वकारः अकरोत् । क्रि.श. २००४तमवर्षस्य जुलै मासस्य द्वितीये दिने एतत् युनेस्कोसंस्थया विश्वपरम्परास्थानम् इति उद्घुष्टम् ।

भौतिकविशेषता[सम्पादयतु]

अस्य निस्थानकस्य भवनं विक्टोरियन् गोथिक् शैल्या निर्मितम् अपि तत्र तत्र भरतीयपरम्परागतयाः स्थापत्यकलायाः अपि केचनंशाः अनुसृताः । अस्य अन्तर्भागे काष्टनिर्मितचित्रकलाः, लोहैः पीतललोहेन च अलङ्कृताः जालन्द्राः, चिटिकागवाक्षाः, वृहत्सोपानमार्गालङ्कारः,इत्यादयः मुम्बैकलामहाविद्यालयस्य छात्राणां कुशलकर्मयोगदानम् अस्ति । एतत् निस्थानकं विशिष्टोन्नतं संरचनया, एकविंशतिशतकस्य स्थापत्यकलायाः विचित्रैः च विश्रुतः अस्ति । मुम्बै उपनगरीयरेल्वेयानानि येषां स्थानीययानम् इति कथयन्ति तानि सर्वाणि एतस्मात् निस्थानकात् एव निस्सरन्ति । महानगरस्य जनजीवनस्य सुविधायै अस्य योगदानं महत् अस्ति । इतः उपनगरीयनिस्थानकानां, नौकानिस्थानकस्य अन्यलघुनिस्थानकानां च सम्पर्कः अपि रेल्यनैः कृतः ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]