भीमबेट्का-शिलाश्रयाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भीमबेट्कायाः शिलाश्रयाः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भीमबेट्कायाः शिलाश्रयाः
विश्वपरम्परास्थानानि

छत्रपतिशिवाजीरेल्वेनिस्थानकम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः ९२५
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः iii, v
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००३  (२७तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

भीमबेट्का (भीमबैठका) भारतस्य मध्यप्रदेराज्यस्य रायसेनमण्डले स्थितः पुरातनकास्य आवासः । अयम् आदिमानवैः निर्मितचित्रैः शैलाश्रयैः च प्रसिद्धः । एतानि चित्राणि शिलायुगतः मध्ययुगपर्यन्तकालस्य इति इतिहासकाराणां विश्वासः । प्राचीनकालस्य भित्तयः, लघुस्तूपानि, पाशाणनिर्मितगृहाणि, शुङ्गराजवंशस्य, गुप्तवंशस्य कालीनाः आभिलेखाः, परमारराजवंशीयकालस्य मन्दिरावशेषाः च अस्मिन् शिलाश्रये सन्ति । भीमबेट्काक्षेत्रं भोपालमण्डलस्य भारतीयपुरातत्त्वसर्वेक्षणविभागेन सामान्यशकस्य१९९०तमवर्षे एतत् राष्ट्रियमहत्स्थानम् इति उद्घुष्टम् । तत् पश्चात् सा.श. २००३तमवर्षे युनेस्कोद्वारा एतत् स्थानं विश्वपरम्परास्थानम् इति उद्घुष्टम् । महाभारतस्य भीमेन सह सम्बद्धं स्थानम् आसीत् अतः तस्य नाम्नि आह्वयन्ति । एताः गुहाः मध्यभारतस्य पठारस्य दक्षिणकोणे स्थिते विन्ध्याचलस्य शिखरसीमान्ते सन्ति ।[१];अस्य दक्षिणे सतपुडायाः पर्वताश्रेण्याः आरम्भः ।[२]अस्य संशोधनवर्षम् सा.श.१९५७-१९५८वर्षयोः डा. विष्णु श्रीधर वाकणकर्]] कृतवान् ।

शिलाकलाः[सम्पादयतु]

शैलचित्रम्

भीमभेट्कायाः शिलाश्रये ७५० गुहगृहाणि सन्ति । तेषां भित्तयः विचित्रचित्रैः सज्जिताः । पूर्वशिलायुगात् मध्यैतिहासिककालपर्यन्तः एताः गुहाः मानवानां गतिविधीनां केन्द्रः आसीत् । । बहूमूल्या ऐतिहासिकसम्पत्तिः भारतसर्वकारस्य पुरातत्त्वसर्वेक्षणविभागस्य सम्पालने अस्ति । भिमबेट्काक्षेत्रस्य प्रवेशे एव शिलोच्चये लिखिताः कश्चन अंशाः दृग्गोचराः भवन्ति । अत्र विद्यमानानि चित्राणि समूहिकनृत्यस्य, मृगयायाः, पशुपक्षीणां, युद्धस्य, रेखाङ्कितमानवाकृतीनां, प्राचीनकालस्य मानवजीवनस्य च विषये बोधयन्ति । चित्राणि खनिजमूलस्य पाटलवर्णेन, रक्तवर्णेन, श्वेतवर्णेन, पीतवर्णेण, हरिद्वर्णेन च चित्राणि रचितानि । शिलाश्रयाणाम् अन्तः चालस्य सानुप्रदेशः उत्कीर्णम् अञ्जलिचिह्नम् एकलक्षवर्षप्राचीनम् । एतासु कृतिषु मानवजीवनस्य घटनाः चित्रितानि सन्ति । एतत् सहस्राधिकवर्षाणां जीवनदर्शनम् । अत्र रचितानि चित्राणि मुख्यतया नृत्यानां, साङ्गीतानां, मृगयायनाम्, अश्वारोहणस्य, गजारोहणस्य, आभूषणानां, मधुसङ्ग्रहस्य, च सन्ति । एतदतिरिच्य व्याघ्राः, सिंहाः, वराहाः, हस्तिनः, श्वानाः,मकराः च अत्र वर्णवैविध्येन चित्रिताः । अत्र भित्तषु धार्मिकसङ्केताः चित्रिताः ये पूर्वैतिहासिककाले प्रसिद्धाः आसन् । एव भीमबेट्कायाः प्राचीनमानवस्य संज्ञात्मकः विकासः विश्वस्य अन्यस्थलानाम् अपेक्षया सहस्राधिकवर्षेभ्यः पूर्वमेव अभवत् । अनेन एतत् स्थानं मानवजीवनविकासस्य आरम्भिकं स्थानम् इति विश्वासः ।

निकटवर्तिपुरातात्त्विकं स्थानम्[सम्पादयतु]

भीमबेट्कायाः शैलचित्रम्

भिमभेटकायाः शिलाश्रयसदृशः शैलचित्रं रायगाढमण्डलस्य सिङ्घनपुरस्य समिपे कबरा इति पर्वतप्रदेशस्य गुहासु अपि सन्ति । [३], होशङ्गाबादप्रदेशस्य समीपम् आदमगढ् इति स्थाने छतरपुरमण्डलस्य बिजावरस्य समीपस्थेषु पर्वतेषु च रायसेनमण्डलस्य बरेली उपमण्डलस्य पाटनी इति ग्रामे मृगेन्द्रनाथस्य गुहाशिलाचित्राणि, च भोपालतः रायसेनगमनस्य मार्गपर्श्वे पर्वतेषु अपि लब्धानि । सद्यः एव होशङ्गाबादस्य समीपे कस्मिंश्चित् महाशिलाखनौ अपि शिलाचित्राणि अन्विष्टानि । भिमबेट्कायाः ५कि.मी.दूरे पेङ्गावन इति स्थाने ३५शिलाश्रयाः अन्विष्टाः । अत्र रचितानि शिलाचित्राणि अतिविरलशैल्याः सन्ति । एतेषां सर्वेषां चित्राणां प्राचीनता प्रायः १००००तः ३५००० वर्षप्राचीनानि ।[४]

उल्लेखाः[सम्पादयतु]

  1. "भीमभेट्कायाः गुहाः" (एचटीएम) (in हिन्दी). अतुल्यभारतम्. pp. ०१. Retrieved सा.श. २००९तमवर्षस्य जुलै १८. 
  2. "भीमबेट्कायाः पर्वतगुहाः" (पीएचपी). विषयवस्तुप्रबन्धदसस्य राष्ट्रियप्रवेशद्वारम् (in हिन्दी). भारतसर्वकारः. pp. ०१. Retrieved सा.श. २००९तमवर्षास्य जुलै१८. 
  3. "हुसैनबाद इति प्रदेशे सार्धद्विसहस्रवर्षप्राचीनसभ्यतायाः अवशेषाः सन्ति ।" (एचटीएमएल) (in हिन्दी). याहू जागरण. p. ०१. Retrieved सा.श.२००९तमवर्षस्य जुलै १८. 
  4. सुब्रमणियण्, पा.ना. "भोपालस्य परिसरे आदिमानवानां पदचिह्नम्" (एचटीएम). मल्लारः (in हिन्दी). वर्ल्ड प्रेस्. pp. ०१. Retrieved सा.श.२००९जुलैमासस्य १८. 

बाह्नानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=भीमबेट्का-शिलाश्रयाः&oldid=271451" इत्यस्माद् पुनः प्राप्तिः