मध्यप्रदेशराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मध्यप्रदेशराज्यम्
—  राज्यम्  —

मुद्रिका
भारतस्य भूपटे मध्यप्रदेशराज्यम्
Coordinates: 22°25′N 72°32′E / 22.42°N 72.54°E / 22.42; 72.54Coordinates: 22°25′N 72°32′E / 22.42°N 72.54°E / 22.42; 72.54
Country
Established १ 'नवम्बर' १९५६
राजधानी भोपाल
Largest city Indore
Districts 50
सर्वकारः
 • Type Unicameral Legislature (230 seats)
 • Body Government of Madhya Pradesh
 • Governor राम नरेश् यादव्
 • Chief Minister शिवराज सिंह चौहान
 • High Court Madhya Pradesh High Court Jabalpur
विस्तीर्णता
 • राज्यम् ३०८ Square km ( Square mile)
क्षेत्रविस्तारः 2nd
जनसङ्ख्या (2011)
 • राज्यम् ७२
 • रैङ्क् 6th
 • नगरम् २०
 • ग्रामीणम् ५२
IST (UTC+05:30)
PIN 45xxxx-48xxxx
ISD code 091-7xxx
ऐ एस् ओ ३१६६ कोड् IN-MP
HDI 0.488 (medium)
HDI rank 26th (2005)
Literacy 70.60% (2011)
Sex Ratio 930 (2011)
अधिकृता भाषा हिन्दीभाषा


मध्यप्रदेशराज्यं (हिन्दी: मध्य प्रदेश, आङ्ग्ल: Madhya Pradesh) भारतस्‍य मध्‍यखण्‍डे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।

विभागाः[सम्पादयतु]

मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-

  1. भोपालविभागः - भोपालमण्डलं, रायसेनमण्डलं, राजगढमण्डलं, सीहोरमण्डलं, विदिशामण्डलम् इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भूतानि ।
  2. चम्बलविभागः - मुरैनामण्डलं, श्योपुरमण्डलं, भिण्डमण्डलम् इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भूतानि ।
  3. ग्वालियरविभागः - ग्वालियरमण्डलम्, अशोकनगरमण्डलं, दतियामण्डलं, गुनामण्डलं, शिवपुरीमण्डलम् इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भूतानि ।
  4. इन्दौरविभागः - इन्दौरमण्डलम्, अलीराजपुरमण्डलं, बडवानीमण्डलं, बुरहानपुरमण्डलं, धारमण्डलं, झाबुआमण्डलं, खण्डवामण्डलं, खरगौनमण्डलम् इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भूतानि ।
  5. जबलपुरविभागः - जबलपुरमण्डलं, बालाघाटमण्डलं, छिन्दवाडामण्डलं, कटनीमण्डलं, मण्डलामण्डलं, नरसिंहपुरमण्डलं, सिवनीमण्डलम् इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भूतानि ।
  6. नर्मदापुरविभागः - बैतूलमण्डलं, हरदामण्डलं, होशङ्गाबादमण्डलम् इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भूतानि ।
  7. रीवाविभागः - रीवामण्डलं, सतनामण्डलं, सीधीमण्डलं, सिङ्गरौलीमण्डलम् इत्येतानि चत्वारि मण्डलानि रीवाविभागे अन्तर्भूतानि ।
  8. सागरविभागः - सागरमण्डलं, छतरपुरमण्डलं, दमोहमण्डलं, पन्नामण्डलं, टीकमगढमण्डलम् इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भूतानि ।
  9. उज्जैनविभागः - उज्जैनमण्डलं, देवासमण्डलं, मन्दसौरमण्डलं, नीमचमण्डलं, रतलाममण्डलं, शाजापुरमण्डलम् इत्येतानि षण्मण्डलानि उज्जैनविभागे अन्तर्भूतानि ।
  10. शहडोलविभागः - शहडोलमण्डलम्, अनूपपुरमण्डलं, डिण्डोरीमण्डलम्, उमरियामण्डलम् इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भूतानि ।

भाषा[सम्पादयतु]

हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी (भिल), गोण्डी, कोर्कु, कालटो (निहाली) इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति ।

उज्जयिनी-वैशिष्ट्यम्[सम्पादयतु]

मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्त(अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका, द्वारावती)पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासपर्यन्तं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासपर्यन्तम् उत्तमं वातावरणं भवति ।

महाकुम्भोत्सवः[सम्पादयतु]

द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।

साहित्यम्[सम्पादयतु]

सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी, गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति ।

नृत्यं सङ्गीतञ्च[सम्पादयतु]

मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते ।

अरण्यम्[सम्पादयतु]

प्राकृतिकतया सम्पद्भरितं राज्यमिदम् । अस्मिन्नेव राज्ये भारतस्य १२.४% प्रतिशतम् अरण्यम् अस्ति । अस्मिन् राज्ये ३१% (९५,२२१ च.कि.मी. परिमितम्) अरण्यम् अस्ति । मध्यप्रदेशस्य मध्ये, पूर्वे, दक्षिणे च गहनारण्यानि विद्यन्ते । उत्तर-ईशान्यभागयोः विटपवृक्षाः दृश्यन्ते ।

राष्ट्रियोद्यानानि[सम्पादयतु]

अस्मिन् राज्ये ९ राष्ट्रियोद्यानानि सन्ति । बान्धवगढराष्ट्रियोद्यानम्, कान्हा, सत्पुरा, सञ्जय, माधव, वनविहार, माण्डला, पन्ना तथा पेञ्च इति ९ राष्ट्रियोद्यानानि । एतानि विहाय अन्यानि प्राकृतिकसंरक्षणकेन्द्राणि अपि सन्ति । माण्डलाराष्ट्रियोद्यानं सस्यजीवाश्मरक्षणाय सुप्रसिद्धम् अस्ति ।

खाद्यानि[सम्पादयतु]

विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति ।

खाद्यानाम् आवलिः[सम्पादयतु]

मावा बाटि
खोपरा-पाक
श्रीखण्ड
मालपुवा
रोगन् जोश्
भूपाली मुर्ग् रेजाला
पनीर् रेजाला
गोष्टकूर्मा
खीमा
बिर्यानी
पिलाफ् (पुलाव्)
शम्मी कबाब्
सीख कबाब्
बाप्ला रोटिका
पोहा
जलेबी
दाल-बाटी
चूर्मा

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मध्यप्रदेशराज्यम्&oldid=280005" इत्यस्माद् पुनः प्राप्तिः