मध्यप्रदेशराज्यम्
| मध्यप्रदेशराज्यम् | |||
|---|---|---|---|
| — State — | |||
|
|||
| भारतस्य भूपटे मध्यप्रदेशराज्यम् | |||
| Coordinates: 22°25′N 72°32′E / 22.42°N 72.54°ECoordinates: 22°25′N 72°32′E / 22.42°N 72.54°E | |||
| Country | |||
| Established | १ नवम्बर १९५६ | ||
| राजधानि | भोपाल | ||
| Largest city | Indore | ||
| Districts | 50 | ||
| Government | |||
| • Type | Unicameral Legislature (230 seats) | ||
| • Body | Government of Madhya Pradesh | ||
| • Governor | राम नरेश् यादव् | ||
| • Chief Minister | शिवराज सिंहः चौहाण् | ||
| • High Court | Madhya Pradesh High Court Jabalpur | ||
| विस्तीर्णता | |||
| • State | ३०८ Square km ( Square mile) | ||
| क्षेत्रस्तरः | 2nd | ||
| Population (2011) | |||
| • State | ७२ | ||
| • Rank | 6th | ||
| • Urban | २० | ||
| • Rural | ५२ | ||
| IST (UTC+05:30) | |||
| PIN | 45xxxx-48xxxx | ||
| ISD code | 091-7xxx | ||
| ISO 3166 code | IN-MP | ||
| HDI | 0.488 (medium) | ||
| HDI rank | 26th (2005) | ||
| Literacy | 70.60% (2011) | ||
| Sex Ratio | 930 (2011) | ||
| अधिकृता भाषा | हिन्दीभाषा | ||
मध्यप्रदेशराज्यम् (Madhya Pradesh) भारतस्य मध्यखण्डे विद्यमानम् किञ्चन राज्यम् अस्ति । मध्यप्रदेशस्य विस्तीर्णता ३०८,२५२ च.कि परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपालनगरम् अस्ति । २००० तमवर्षस्य नवम्बरमासस्य १ दिनाङ्के मध्यप्रदेशात् छत्तीसगढप्रदेशं पृथक् कृतवन्तः। ततः पूर्वं मध्यप्रदेशराज्यं भारते अतीव बृहदासीत् । इदानीं राजस्थानराज्यं बृहत् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनजनपदे भीम् बेट्का गुहायां मानवाः वसन्तिस्म इति, अत्रत्यानां जनानां विश्वासः। अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति ।
अन्तर्विषयाः |
विभागाः [सम्पादयतु]
मध्यप्रदेशराज्ये ४५ जनपदाः सन्ति । तेषु ८ विभागाः सन्ति । ते क्रमशः उच्यन्ते ।
- भोपाल - भोपाल , र्यासेन्, राज् गर्, सेहोर् तथा विदिशा जनपदाःसन्ति ।
- ग्वालियर् - अशोकनगरम्, धातिया, गुणा, ग्वालियर् तथा शिवपुरि जनपदाः सन्ति।
- इन्दौर् - बार्वानि, बुर्हान् पुर्, धार्, इन्दोर्, झुभावा, खाण्ड्वा, आलिराज् पुर् तथा खार्गोणे जनपदाः सन्ति।
- जबलपुरम् - बालाघाट्ट्, छिन्दवाडा, जबलपुरं कटनी, माण्ड्ला, नरसिङ्गपुरं तथा सिवोनी मण्डलानि सन्ति।
- रेवा - रेवा, सत्ना, सीधी तथा सिंग्रौलि जनपदाः सन्ति।
- सगरन्द् - छत्तर् पुर्, दामोह्, पन्ना, सागर् तथा टिकम् गर् जनपदाः सन्ति।
- उज्जयिनी - देवास्, मंद सौर्, नीमच्, रत्लाम्, शाजापुर् तथा उज्जयिनी जनपदाः सन्ति।
- शहडोल् - शाह् दोल्, अनुप्पुर्, डिण्डोरि तथा उमारिया जनपदाः सन्ति।
भाषा [सम्पादयतु]
’हिन्दीभाषा’ मध्यप्रदेशस्य प्रमुखा भाषा भवति । अस्याः भाषायाः जनपदरूपाणि अत्र प्रचलितानि सन्ति । माल्वाप्रदेशस्य माल्वि, निमार् प्रदेशस्य निमाडि, बुन्देल् खण्ड प्रदेशस्य बुन्देलि , बागेल् खण्ड प्रदेशस्य बागेलि तथा अवधि एतानि हिन्दिभाषायाः रूपान्तराणि भवन्ति । भिलोडि (बिल्), गोण्डि, कोर्कु, काल्टो (निहालि), एताः मध्यप्रदेशस्य आदिवासिनां भाषाः भवन्ति । शतमानद्वयापेक्षया अधिककालं यावत् मराठाः अस्मिन् राज्ये राज्यभारं कृतवन्तः। अतः केषुचित् प्रदेशेषु अद्यापि मराठी भाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल प्रदेशे ’अफ्गानिस्तान्’तथा ’वायव्यपाकिस्तान्’ देशाभ्यां प्रव्रज्यागताः जनाः ’सर्याकि’ तथा ’पाश्तो’ भाषयोः व्यवहारं कुर्वन्ति।
उज्जयिनीनगरस्य वैशिष्ट्यम् [सम्पादयतु]
मध्यप्रदेशस्य उज्जयिन्यां आदिकविः ’कालिदासः’(क्रि.श.३७५ तः ४१५ ) वासंकरोतिस्म इति प्रतीतिरस्ति। पुराणकाले अस्य नगरस्य आवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य आवन्ति, आवन्तिकापुरि, आवन्तिका, कुशस्तली, भागावती, कुमुद्वती, हिरण्यावती, विशाला इत्यादीनि नामानि भवन्ति । अत्रैव कृष्णबलरामौ अधीत सान्दीपनि महर्षेः आश्रमः अस्ति । ’शिप्रानद्याः’ तटे महाकालस्य ईशस्य मन्दिरमस्ति । प्रख्यातेषु भारतेषु विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । अस्मिन् विषये कालिदासः स्वकाव्येषु वर्णिताः आंशाः दृश्यन्ते । दक्षिणाभिखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । प्रतिदीपावल्यां ’दीपोत्सवः’ महता वैभवेन प्रचलति । गरुडपुराणेषु उक्तेषु सप्त ( अयोध्या, मथुरा,काशी, काञ्ची, अवन्तिका, पुरी,द्वारावती )पवित्रतम क्षेत्रेषु अन्यतमं क्षेत्रम् । एप्रिल् मासादारभ्य जून् मासपर्यन्तं ४५ डिग्रि औष्ण्यं भवति । अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति । अक्टोबर् मासादारभ्य जनेवरिमासपर्यन्तम् अत्तमः कालः भवति ।
महाकुम्भमेलकम् [सम्पादयतु]
प्रति द्वादशवर्षेषु एकवारं महाकुम्भमेलकं भवति । अस्मिन् शुभावसरे लक्षादिकाः जनाः देशविदेशतः च आगच्छन्ति । अस्मिन् पवित्रनद्यां स्नानं कृत्वा पुनीताः भावन्ति । नागासाधवः एवम् अघोरी जनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहाः दृश्यन्ते । अस्मिन् नगरे समयनिर्धारणकरण साधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृश ’जन्तर् मन्तर्’ प्रदेशाः भारते देहली, जयपुर्, वाराणसी नगरेषु राराजन्ते । जयपुरदेशस्य राजा ईदृश वीक्षणालयान् निर्मितवान् । खगोलशास्त्रस्य ज्ञानसंपादनाय एवम् अन्तरिक्षस्य, सूर्यकिरणानाम्, चन्द्रबिम्बस्य, नक्षत्राणां चलनादि विषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयोगं कुर्वन्ति ।
साहित्यम् [सम्पादयतु]
सुप्रसिद्ध्ः ज्योतिर्विदः "वराहमिहिरः" उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कवेभ्यः आदरः भावः आश्रयञ्च आसीत् । राजा भोजः स्वयमेव श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्यापि भासते । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशः नकेवलम् एते अन्येपि पण्डिताः धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजन्ते । चन्द्रगुप्तस्य काले ’धन्वन्तरिः’, ’क्षपणकः’(सिद्धसेनः), ’अमरसिंहः’, ’संकुः’, ’वेतालभट्टः’, ’घटकर्परः’, ’कालिदासः’, ’वराहमिहिरः’ तथा ’वररुचिः’ नवरत्नसदृशाः दिग्गजाः विरजन्तेस्म। अधुनिकाः प्रसिद्धाः कवयः ’माखन् लाल्’, ’चतुर्वेदि’, ’शरद् जोशि’, ’गजाननः’, ’माधवः मुक्ति’, ’भोधः’, ’विनोद् कुमारः’ तथा ’शुक्ला’ इत्यादयः सन्ति।
नृत्यम्-सङ्गीतञ्च [सम्पादयतु]
मध्यप्रदेशः आदिवासिनां राज्यम्। पाश्चात्यादि देशीय संस्कृतेः प्रभावरहिताः अस्मिन् देशीयाः। पारम्परिकतया आगतस्वदेशीयसंस्कृतिं जनाः अद्यापि रक्षिताः सन्ति। अस्य प्रदेशस्य उत्सवादिषु गीतनृत्येषु पुरातनकालस्य साम्प्रदायिक स्वरूपं द्रष्टुं शक्यते। ’कर्मा’ मध्यप्रदेशस्य वायव्यभागे विद्यमानानां ’गोण्ड’ जनस्मूहस्य एवम् ’ओरांव्’ समूहस्यच साम्प्रदायिक नृत्यं भवति। इदं नृत्यम् अत्यन्तप्राचीना नृत्यकला इति परिगणितमस्ति। इमं नृत्यम् अधिकतया शरत्कालस्यारम्भे उत वृष्टिकालस्यान्ते तत्र तत्र द्रष्टुं शक्यते।
अरण्यम् [सम्पादयतु]
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम् । अस्मिन्न राज्ये भारतस्य १२.४% प्रतिशतम् अरण्यम् अस्ति। अस्मिन्न राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मि.) अरण्यम् अस्ति । मध्यप्रदेशे मध्ये, पूर्वे, दक्षिणेच गहनारण्यानि विद्यन्ते । उत्तरईशान्यभागयोः विटपवृक्षस्य प्रदेशाः दृश्यन्ते ।
राष्ट्रियोद्यानानि [सम्पादयतु]
अस्मिन्न राज्ये ९ राष्ट्रीय उद्यानानि सन्ति। बान्धवगढराष्ट्रियोद्यानम्, कान्हा, सत्पुरा, सञ्जय्, माधव्, वन् विहार्, माण्ड्ला, पन्ना तथा पेञ्च इति ९ राष्ट्रीय उद्यानानि । एतानि विहाय अन्यानि प्राकृतिकसंरक्षणा केन्द्राणि सन्ति । माण्ड्ला राष्ट्रीय सस्यजीवाश्म रक्षणाय सुप्रसिद्धम् अस्ति ।
खाद्यानि [सम्पादयतु]
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषु खाद्यानि भिद्यन्ते। गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगं कुर्वन्ति । पूर्वदक्षिणभागयोः तण्डुलस्य मत्स्यस्यच खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्- इन्दौर नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगं कुर्वन्ति । सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति । गुजरात् तथा राजस्थान् राज्ययोः खाद्यानां शैली अत्र दृश्यते । ’भुट्टेकि कीस्’, ’गोधूमस्य हुड्’ तथा दध्ना निर्मितं ’चक्की कि शाक्’ खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति ।
खाद्यानाम् आवलिः [सम्पादयतु]
माव भाटि
खोप्रा पाक्
श्रीखण्ड्
माल् पुवा
रोगन् जोश्
भूपाली मुर्ग् रेजाला
पनीर् रेजाला
गोष्ट् कूर्मा
खीमा
बिर्यानि
पिलाफ् (पुलाव्)
शम्मि कबाब्
सीख् कबाब्
बाप्ला रोटिका
पोहा जिलेबि
दाल् बाटि
चूर्मा
सम्बद्धा: विषया:
- राजधानी -- भोपाल
External Links [सम्पादयतु]
- http://www.mp.nic.in/ MP Portal
- http://www.mpgovt.nic.in/ Govt. of MP
- http://www.mptourism.com/ MP Tourism