कालिदासः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Kālidāsa
जननम् 4th century AD
मरणम् 5th century AD[उद्धरणं वाञ्छितम्]
Gupta Empire, possibly in Ujjain or Sri Lanka
वृत्तिः Playwright and poet
राष्ट्रीयता Indian
परम्परा Indian
प्रकारः Sanskrit drama, Classical literature
विषयाः Epic poetry, Hindu Puranas
प्रमुखकृतयः Abhijñānaśākuntalam, Raghuvaṃśa, Meghadūta, Vikramōrvaśīyam, Kumārasambhava
पतिः/पत्नी Said to have been married to a princess; her name was Vidyotma.


साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत् –

जम्बूफलानि पक्वानि
पतन्ति विमले जले ।
कपिकम्पितशाखाभ्यः
गुळुगुग्गुळु गुग्गुळु ॥ इति ॥

एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥

भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

रघुवंशं कुमारसंभवम् इति द्वे महाकाव्ये मेघसन्देशः ऋतुसंहारः इति द्वे खण्डकाव्ये मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तळं चेति त्रीणि नाटकानि श्यामळादण्डकं श्रुतबोधः अनेकमुक्तकश्लोकाः इति च सन्ति कालिदासस्य कर्तृत्वेन प्रसिध्दाः । तथापि कुमारसम्भवं मेघसन्देशं अभिज्ञानशाकुन्तलं च सहृदयहृदये विषिष्टं स्थानम् आवहति वैदेशिकेष्वपि कालिदासप्रतिष्ठा सुप्रतिष्ठिता इति सम्माननम् अस्ति अभिज्ञानशाकुन्तलस्य । जर्मन् कविः श्रीयुतगेथे वदति –

वासन्तं कुसुमं फलं च युगपदग्रीष्मं च सर्वं च यत्
यच्चान्यन्मनसो रमायनमतः सन्दर्पणं मोहनम् ।
एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलोकयोः
ऐश्वर्यं यदि वाञ्छसि प्रियसखे शाकुन्तमं सेव्यताम् ॥ इति ॥

इन्ट्यन् षेक्स्पियर् कालिदासः इति केनाप्युक्तम् श्रुत्वा मम गुरुः वदति स्म – न तथा वक्तव्यं षेक्स्पियर् पाश्चात्यकालिदासः इत्येव वक्तव्यमिति । तावत् कालिदासस्य महत्वम् अस्त्येव ॥

कालिदासकवेः सर्वासां कृतीनाम् आन्तरिकं तत्त्वम् एकमेव । तत्तु एष एव यः पूज्यपूजाव्यतिक्रमो पापाय इति श्रुतिसारांशः । रघुवंशे दिलीपस्य कामधेनुविषयकः पूज्यपूजाव्यतिक्रमः आरम्भे एव । अन्ततो गत्वा अग्निवर्णस्य पुज्यराजधर्माचारादि व्यतिक्रमश्च । कुमारस्अम्भवे शिववाक्यपूजां न कृतवती सती योगविसृष्टदेहा पार्वतीरुपेण जाता । तपः कृत्वा दासरुपेण शिवं प्राप्यापि विवाहविषये विधिक्रमं अनुसृतवती इति जगज्जननी च अभवत् । कामः तु पूज्यपूजां न कृतवान् इति दग्धश्च । मेघसन्देशे पूजाकर्तव्यतः प्रमत्तः यक्षः कान्ताविरहगुरुणा दुःखेन पीडितः अभवत् । अभिज्ञानशाकुन्तले पूज्यतातकण्वस्य स्मरणां विना आचारमर्यादाम् उल्लङ्घ्य् दुष्यन्तस्वीकारेणा शकुन्तलया कष्टमनुभोक्तव्यम् आपतितम् । अपि च अतिथेः पूज्यदुर्वाससः पूजाम् अकृत्वा शापपात्रम् अभवत् सा । तस्य परिणाम एव शाकुन्तलं नाटकम् । एवं कालिदासकृतिषु सर्वत्र एतत् द्रष्टुं शक्यते एव ॥ कालिदासः सरलया आत्मार्थयुक्तया गिरा एव कार्यं साक्षाद्वदति स्म । अक्षरप्रासश्लेषादिकप्राप्तेः पाण्डित्यप्रकटनस्य च लाञ्छनापि तत्र द्रष्टुं न शक्यते । स्वतस्सिध्दभावना सूक्ष्मस्वभाववर्णनाचातुर्य्ं प्रकऋतिप्रेम अनिवार्यसन्दर्भेषु अलङ्कारादिप्रयोगः इत्यादि कालिदासस्य इतरभिन्नं वैशिष्ट्यं भवति । उपमालङ्कारप्रयोगे कालिदाससमानः अन्यः न इति कृत्वा उपमा कालिदासस्य इति उक्तिः अपि जाता । दीपशिखा कालिदासः इति सहृदयमण्डलं कालिदासम् आह्वयति चेत् तस्य कारणम् इन्दुमतिस्वयंवरस्य उपमा एका खलु ॥ एवं चिन्तयति चेत् कालिदासवर्णनायाः निमित्तमं सहस्रजिहवाः अपर्याप्ताः भवन्ति । येन प्रयोगेण शब्दः सार्थकः सफलः च भवति सः प्रयोगः कविकुलगुरुसार्वभौमः कालिदासः इति ननु ॥

महाकविः कालिदासः संस्कृतसाहित्यस्य ध्रुवनक्षत्रं, विश्वसाहित्यस्य गौरीशिखरः, विश्ववाङ्मये सर्वोत्कृष्टः कविरिति प्रथितः । कविकुलगुरुः, कविचक्रवर्ती इत्यादिरीत्या प्रख्याति प्राप्तोऽपि कालिदासः कस्मिन् समये प्रदेशे च जन्म प्राप्तवान् इति अद्यापि विवादग्रस्त एव विद्यते । अस्य जीवनविषये लिखितप्रमाणाभावेन निश्चितरूपेण किमपि वक्तुं न शक्यम् ।

कवेः देशः[सम्पादयतु]

कालिदासस्य जीवनवृत्तिविषये अनेकाः लोकविश्रुतयः अनेके वादाः च सन्ति । केचित् एनं विक्रमादित्यस्य सभायां कविः इति मन्यन्ते । केचित् गुप्तकालीननरेशाणाम् आश्रयं प्राप्तवानिति कथयन्ति । धारानगरे भोजराजस्य सभायां कविरत्नपदभूषितः अभूत् इति कथाकोविदाः कथयन्ति। जनश्रुत्यनुसारं बाल्यकाले सः अतीव मूर्खः आसीत् । विद्याधरया सह तस्य विवाहः अभवत् । मूर्खः पतिः इति ज्ञात्वा विद्याधरा तं कालीदेव्याः आलयं नीत्वा यावत् सा भवते विद्यां न उपदिशति तावत् भवता ततः बहिः न आगन्तव्यम् इति आदिशत् । ततः पत्न्याः कथनानुसारेण तथैव आचरितः कालिदासः कालीदेव्याः वरप्रसादेन विद्वान् अभवत् इति । इयं कथा कालिदासस्य प्रतिभया कविताचातुर्येण च जाता तथ्या तु न इति विदुषां मतिः । यतः जानकीहरणस्य कर्ता राजाकुमारदासः च सप्तमे शतके आस्ताम् इति विद्वांसः निश्चितवन्तः । अतः अयं तस्मिन् काले नासीत् इति वक्तुं शक्यते । इतोऽपि कालिदासस्य कविताचातुर्यं निर्दिश्यमानाः अनेकाः कथाः सन्ति ।
1.उत्तररामचरितस्य कर्ता भवभूतिः स्वयं नाटकं विलिख्य कालिदासस्य अभिप्रायं प्रष्टुं गतः आसीत् । समग्रं नाटकं परिशील्य पठित्वा च कालिदासः नाटकस्य प्रथमाङ्के विद्यमाने –

किमपि किमपि मन्दं मन्दमासत्तियोगा-
दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतेकैकदोष्णो-
रविदितगतयामा रात्रिरेवं व्यरंसीत् ॥

श्लोकेऽस्मिन् 'रात्रिरेवं' इत्यत्र रात्रिरेव इत्येव सूक्तमिति परिष्कारम् अकरोत् । भवभूतिना लिखिते श्लोके एवं रसमयार्थः यथा द्योत्येत तथा परिष्कारं कृतवानिति अत्र कालिदासस्य काव्यप्रतिभां सहृदयाः श्लाघितवन्तः चेदपि भवभूतिकालिदासौ समकालीनौ आस्ताम् इत्येतं विषयं ऐतिहासिकाः नाङ्गीकुर्वन्ति ।
२. अपरा काचित् कथा एवं श्रूयते यत् कदाचित् सरस्वती देवी कालिदासभवभूत्योः कवितागुणतारतम्यं परीक्षितुं तुलायां द्वयोः स्थाल्योः उभौ अपि स्थापितवती इति । तदा भवभूतेः स्थाल्याः भारः न्यूनः अभवदिति सरस्वती स्वस्य कर्णे धृतं कल्हारमुकुलमकरन्दं तत्र योजितवती इति । तस्मात् द्वे स्थाल्यौ अपि समाने जाते इति श्रूयते । कालिदासस्य कविताचातुर्यं परिश्लाघ्यमानानि अनेकानि उपाख्यानानि 'भोजप्रबम्ध'इत्यस्यां कृतौ परिदृश्यते । परन्तु तानि सर्वाणि प्रमाणभूतानि इति वदितुं न शक्यते ।
३. विक्रमसंवत्सरस्थापकस्य विक्रमादित्यस्य आस्थाने नवरत्नेषु अयमपि अन्यतमः इति परम्परागतः अपरः विश्वासः । यथा –

धन्वन्तरि-क्षपणकामरसिंह-शङ्कुवैतालभट्ट-घटकर्परकालिदासाः ।
ख्याती वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥

श्लोकेऽस्मिन् नवरत्नानां कवीनां नामानि निर्दिष्टानि परं एते सर्वेऽपि समकालीनाः न । कालिदासः विक्रमस्य आस्थाने आसीत् इत्यंशः अङ्गीकृतः चेदपि अस्य श्लोकस्य आधारेण तत्कालं प्रमाणीकर्तुं न साध्यम् ।
इत्थं प्रचलिताभिः किंवदन्तीभिः ऐतिहासिकव्यक्तीनाम् उल्लेखितकथाभिः वा कालिदासस्य चरित्रं वेदितुं न शक्यते । ताः रम्याः कथाः सन्ति तस्याः कालिदासस्य जनप्रियतां केवलं ज्ञातुं साध्यम्।
अथ महाकविरयं कदा कं देशं स्वजन्मना अलञ्चकार इत्येतस्मिन् विषये समेषां गवेषकाणाम् एकः एव निष्कर्षः अद्यावधि समुपलभ्यते यत् पुरातनाः कवयः स्वनिर्वचनं नैव कुर्वन्ति स्म इति । पाठकानां सामाजिकानां गवेषकाणां च प्रश्नः भवति बलवान् येन प्रेरिताः ते एतादृशान् ऐतिहासिकान् विषयान् कौतूहलेन गवेषयन्ति । गवेषणायाः सिद्धान्ताः प्रकाराणि च विभिन्नानि दृश्यन्ते । अस्य जीवनविषये बह्व्यः दन्तकथाः, ऐतिहासिककथाः च सन्ति । मेघदूते अन्यासु कृतिषु सः पुनःपुनः उज्जयिन्याः सौन्दर्यं वर्णितवान् अतः सः तत्रैव बहुकालम् उषितवान् स्यात् । काश्मीरे प्रवर्धमानस्य केसरपुष्पं सः केवलं वर्णितवान् इत्यतः काश्मीरीयः स्यादिति केषाञ्चित् अभिप्रायः । तेन मेघदूते निर्दिष्टः रामगिरिः विदर्भे अस्ति । तत्रत्यानि असनवसनादिविषयान् सः वर्णयति इत्यतः विदर्भीयः स्यादिति, न समीचीनं निर्णयं लभते । मालवं विस्तरेण वर्णितवान् इत्यतः सः मालवीयः अस्तीति पुनश्च केषाञ्चित् अभिप्रायः । रघुवंशमहाकाव्ये तेन वर्णितं रघोः दिग्विजयं सूक्ष्मतया परिशीलयामश्चेत् भारते तस्य अपरिचितः प्रदेशः नास्तीति स्पष्टं ज्ञायते । यथा असमप्रदेशम् अवर्णयत् तथैव मनोहरशैल्या केरलमपि अवर्णयत् । हिमालयमिव समुद्रतीरमपि सुन्दरम् अवर्णयत् । अतः सः राष्ट्रकविः, उज्जयिनी तस्य स्थिरस्थानम्, समग्रभारतं तस्य चरस्थानम्, अतः समग्रभारतमेव तस्य प्रदेशः इत्यपि वक्तुं शक्यते । एतदीयमातापित्रोः नामनी अद्यापि नोपलभ्येते न वा अयमेव सम्यक्तया निर्णयो जातः यदयं कुत्रत्यः इति । अस्य काव्यनाटकेषु आसमुद्रं भूस्थानानि वर्णितानि सन्ति । अस्य देशः काश्मीर इति, बङ्गाल इति, गालव इति च विभिन्नाः वा वादाः मण्डिताः बुधैः । यद्यपि कालिदासत्रयीति समालोचकपरम्परया अवबुध्यते तथापि संस्कृतसाहितीपरिचितानां मनःसु सः अन्यतमः कालिदासः । यदियं काव्यत्रयं नाटकत्रयं च जगन्मोहयति । आवर्जयति च हठात् पाश्चात्त्यविदुषामपि मनांसि ।

कालिदासस्य व्यक्तित्वं पाण्डित्यञ्च[सम्पादयतु]

नूनमयं शैवः इति हेतोः मेघदूतकृतम् उज्जयिनीस्थमहाकालवर्णनं तत्रत्याः भौगोलिकीस्थितेः तत्सम्बद्धं चित्रणं निरीक्ष्य बहवः विद्वांसः अयम् उज्जयिनी निवासी इति विश्वसन्ति । इत्थं परिचयशून्योऽपि सर्वपरिचितः महाकविरयं सर्वासु दिक्षु स्वकीयम् अवदातां कीर्तिपताकाम् उद्धृत्य पाञ्चभौतिकेन सम्प्रति अनुपलब्धः अपि काव्यवैभवेन विदुषां हृदि यावच्चन्द्रार्कौ स्थास्यति एव । आध्यात्मिकतायाः ज्ञानं यथा तस्य कृतौ आमूलाग्रं दृश्यते तथा लौकिकमपि तत्र तत्र प्रसृतम् । प्रजासु राज्ञां कर्तव्यं, यशस्विराजकीयतत्वानि, समाजिकसौहार्दतायाः आवश्यकता इत्यादीनि आकर्षकरीत्या चित्रितानि । सङ्गीतचित्रनृत्यादिकलाः जीवनं सुन्दरमयं कुर्वन्ति इति कालिदासः हृद्यशैल्या चित्रितवान् । क्रि.श. चतुर्थे पञ्चमे शतके च प्रचलितां संस्कृतिं, जीवनदृष्टिं, कलां, तत्वज्ञानं, समजव्यवस्थां च कविरयं सुन्दरसरलसुमधुरशैल्या स्वकाव्येषु अवर्णयत् । कालिदासस्य काव्येषु वयं भारतसंस्कृतिदर्शनं पश्यामः ।
तेन चित्रिताः नायकाः प्रेमपाशे संलग्नाः चेदपि सभ्यतायाः सीमां न अतिक्रामन्ते स्म । नायकाः दाक्षिण्यपराः, धर्मनिष्ठाः आसन् इति कवेः चित्रणं तस्य मनोधर्मं सूचयति । कालिदासः बालेषु नितरां स्निह्यति स्म इति बहुत्र व्यक्तः भवति । मित्राणि परिवाराः, भृत्याः, अतिथि-अभ्यागताः, तपस्विनः इत्यादिभिः नायकैः आचर्यमाणया रीत्या कवेः कुटुम्बदृष्टिं सामाजिकदृष्टिं ज्ञातुं शक्नुमः । तस्य नाटके आदौ क्रियमाणानि तेन लिखितानि सम्भाषणानि तस्य विद्वद्विनयं व्यनक्ति । अभिज्ञानशाकुन्तलस्य अन्तिमभागे परमेश्वरेण पुनर्जन्मराहित्या मुक्तिः दीयताम् इति तेन कृता प्रार्थना कालिदासः तृप्तिकरं परिपूर्णं जीवनं कृत्वा भगवति मुक्तिमपेक्ष्यमाणः अस्तीति अवगम्यते ।

कालिदासस्य स्थितिकालः[सम्पादयतु]

आभारतीया भारतीया वा कविवरमिमं नवीनतमं प्राचीनतमं वा कल्पयन्तु नाम, किन्तु अस्य कृतिभिः एतस्य स्थायि यशः न मनागपि ह्रीयते । अस्य कालविषये तु प्राधान्येन । १ तत्र प्रथमं क्रिस्ताब्दतः पूर्वं प्रथमशताब्द्याम् । 2. द्वितीयं क्रिस्ताब्दतः पश्चात् पञ्चमशताब्द्याम् । 3 तृतीयं क्रिस्ताब्दतः पश्चात् षष्ठशताब्द्याम् । प्रथममतस्य समर्थकाः प्रायः सर्वेऽपि विद्वांसः सन्ति । तेषां कथनमिदम् अस्ति यत् कालिदासः राज्ञः विक्रमादित्यस्य आस्थाने नवविद्वन्मणिषु आसीत् अन्यतमः । यथा - मालविकाग्निमित्रस्य कथांशेन परिज्ञायते यत् कालिदासः शुङ्गवंशस्य अभिज्ञः इति । कालिदासस्य काव्यरचनाप्रणाली सुतरां स्वाभाविकी सत्यपि महाभाष्यम् अनुकरोति । प्रवृत्तिरियं क्रिस्तीयशताब्दितः त्रिंशद्वर्षपूर्वतः प्रचलन्ती क्रिस्तीयवत्सरस्य प्रारम्भिकं कालं यावत् परिलक्ष्यते ।
२द्वितीयमतस्य समर्थकाः पाश्चात्त्याः भारतीयाः गवेषकाः अपि सन्ति । एतेषां मतमिदं यत् गुप्तकालः भारतीयसाहित्यस्य स्वर्णयुगमासीत् । द्वितीयचन्द्रगुप्तः विक्रमादित्य इति सम्मानितोपाधिं धारयति स्म । अनेनैव शकाः पराजिताः । अश्वघोषस्य अपि पर्याप्तः प्रभावः कालिदासस्य काव्येषु वर्तते । अतोऽयं गुप्तकालिक इति ।
3. तृतीयस्य प्रवर्तकः फर्गुसनमहोदयः आसीत् । एतस्य कथनम् अस्ति यत् ५४४ क्रिस्ताब्दे विक्रमादित्यपदलाञ्छनेन केनापि राज्ञा हूणाः विजिता । मतमिदं मैक्समुलरः अपि स्वीकरोति । डा. हार्नलीमहोदयः कथयति यत् महाकवेः कालिदासस्य आश्रयदाता यशोधर्मानृपतिः षष्ठ शताब्द्याम् आसीत् । अनेन कविना तस्य यात्रावर्णनव्याजेन रघोः दिग्विजययात्रा वर्णिता इति ।

रचनाशैली[सम्पादयतु]

रससिद्धस्य अस्य कवीश्वरस्य महिमा तदीयकाव्यैः एव ज्ञायते । तस्य काव्यस्य परिशीलनेन वेदशास्त्रपुराणेषु तस्य अगाधं पाण्डित्यम् आसीत् इति ज्ञायते । कल्पनाचातुर्यं पदानां माधुर्यं, पात्रसंविधाननैपुण्यं, रसोल्लासः, ललितानि मनोहराणि वचनानि इत्यादिभिः सुगुणैः अस्य कवेः काव्यानि सर्वजनादरणीयानि । कालिदासः भारतीयसंस्कृतेः प्रतिनिधिः कविरिति सुधीभिः पुरस्कृतः । अस्य रचनाः चतुर्वर्गपुरुषार्थानां प्रदानसाधनस्वरूपाः इत्यपि स्वीकृतं सरसान्तःकरणैः संख्यावद्भिः । अयं महाकविः वैदर्भीरीतेः सम्राट्, प्रसादगुणपरिपूर्णैः, अनुपमोपमाप्रयोगप्रजापतिः प्रकृतिचित्रणचित्रकारः, व्यञ्जनाव्यञ्जितशास्त्रकलेवरः, अभिनवकल्पनाकुशलः, अन्यतमः काव्यशिल्पी विराजते - सभाभास्वरो भास्करः, वाणीवरदवत्सः, भूमातुर्मौलिमुकुटहीरकः, धन्योऽयं कविमूर्धन्यः, स्वकीयकुलकेतनः, सर्वतन्त्रस्वतन्त्रः, सकलशास्त्रासारनिश्यन्दः, काव्यकोशविकासविभाकरः, वैदर्भीरीतिसभाजनसभ्यः, प्रसादगुणालम्बनः, उपमासीमन्तिनी-सीमन्तसिन्धूरदानसरसः, कविताकामिनीविलासः, काव्यरचनाविक्रमादित्यः, श्रीविक्रमादित्य कविकादम्बकदम्बसमाराधितपादपद्मः, मुकुटालङ्करणारहितोऽपि सार्वभौमः, कविकुलगुरुः, कविचक्रवर्ती, प्रकृतिनटीनिर्वचनचतुरः विद्योत्तमाद्योतितान्तःकरणः, समर्चितकालिकाचरणः, व्यासवाल्मीकिप्रभृतीनाम् अवरजः, विश्वविश्रुतकीर्तिः आसीत् महाकविः कालिदासो नाम ।

कृतयः[सम्पादयतु]

कालिदासनाम्ना बहवः ग्रन्थाः श्रूयन्ते । तेषु अपि काश्चन प्रसिद्धाः रचनाः अत्र कथ्यन्ते - रघुवंशमहाकाव्यं, कुमारसम्भवमहाकाव्यं, मेघदूतकाव्यम्, ऋतुसंहारं चेति खण्डकाव्यद्वयं, मालविकाग्निमित्रं, विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलं चेति त्रीणि नाटकानि ।

एतदतिरिक्तानि नामानि[सम्पादयतु]

कुन्तलेश्वरदैत्यकाव्यं, राक्षसकाव्यं, दुर्घटकाव्यं, वृन्दानकाव्यं, विद्वद्विनोदकाव्यं, श्रुतबोधः, पुण्यबाणविलासः, नवरत्नमाला, ज्योतिर्विदाभरणं, च ।

स्तोत्राणि[सम्पादयतु]

कालीस्तोत्रं, गङ्गाष्टकं, चण्डिकादण्डकं, श्यामलादण्डकं, मकरन्दस्तवः, अम्बास्तवः, लक्ष्मीस्तवः, लघुस्तवः, कल्याणस्तवः, शृङ्गारतिलकप्रभृतीनि च ।

महाकवेः कालिदासस्य विद्वत्तायाः व्यक्तित्वस्य विषये च तस्य ग्रन्थाः एव निरूपयन्ति । तस्य त्रिषु नाटकेषु च आदौ शिवस्तुतिः विद्यते । कुमारस्कन्दस्य जननं वर्णयित्वा किञ्चित् काव्यमेव अलिखत् । रघुवंशस्य आरम्भे पार्वतीपरमेश्वरं च सम्प्रार्थितवान् । अभिज्ञानशाकुन्तलस्य अन्तिमभागे नीललोहितः मुक्तिं मे ददातु इति शिवं प्रार्थयामास । एतैः कारणैः कालिदासः शिवभक्तः इति स्पष्टं भवति । परम् अन्यत्र सः ब्रह्माणं विष्णुं च अस्तौत् । एतत् अस्य सौहार्दपूर्णव्यक्तित्वस्य निदर्शनम् । तस्य कृतिषु वैदिकयज्ञयागादिनाम् उच्चस्थानम् अस्ति । उपनिषदां तत्वानि जीवनदृष्टेः आधारभूतानि इति परिदृश्यते ।

रघुवंशमहाकाव्यम्[सम्पादयतु]

रघुवंशं १९सर्गात्मकं महाकाव्यम् । अत्र रघोः वंशस्य कथा निबद्धा । रघुः अत्यन्तं पराक्रमी दानशूरः च आसीत् । तस्य वंशीयानां गुणवर्णनम् अस्मिन् काव्ये अस्तीति कविरयं रघुवंशम् इति नामधेयमकरोत् । प्रधानतया दिलीपः, रघुः, अजः, रामः, कुशः, अतिथिः इत्यादीनां श्रेष्ठराजानां वर्णनमस्ति । दिलीपः सत्यसन्धः धर्मनिष्ठश्च रघुः पराक्रमी दानशीलश्च, अजः कोमलहृदयी प्रेममयश्च, श्रीरामः सर्वोत्तमः इत्थम् एते चत्वारः अपि धर्मार्थकाममोक्षाणां प्रतीकाः सन्ति । काव्येऽस्मिन् रघुदिग्विजयः, अजविलापः, सीतापरित्यागः इत्यादयः भागाः चित्ताकर्षकाः सन्ति । दशसु सर्गेषु रामायणस्य सारसर्वस्वं न्यरूपयत् महाकविः । अजविलापं सर्गं यावत् अवर्णयत् । प्रत्येकं सर्गेऽपि आकर्षकः कश्चन अंशः विद्यते । कथाभागः वर्णनं च परस्परं सम्मिल्य काव्यस्यास्य अन्यादृशं सौन्दर्यम् अवर्धयत् । रसानां परिपक्वता तन्मयत्वं जनयति । नवरत्नविराजितः मुक्ताहारः इव काव्यं सर्वविधसौन्दर्ययुक्तं सत् सहृदयानां प्रीतिपात्रम् आवहति । कालिदासेन अन्यानि काव्यानि नाटकानि ग्रथितानि चेदपि संस्कृतग्रन्थकाराः तं रघुकविः इति प्राशंसन् । तस्मात् अस्य काव्यस्य उत्कृष्टता अवगम्यते । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता । तदुत्तरं रामवंश्यानां तत्तन्नृपाणां चरितानि उपन्यस्तानि । अन्तिमः सर्गो गर्भान्धस्याग्निवर्णस्य अभिषेकेण समाप्यते – तपस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः । निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥ कालिदासः अग्निवर्णपरवर्तिनां राज्ञामपि वर्णानं चिकीर्षति स्म । परमसौ कालेन कवलीकृतः। अन्ये पुनः कालिदासेन परतोऽपि रघुवंशस्य सर्गाः लिखिताः परन्तु ते न प्राप्यन्ते इत्याहुः । बहवः तु कालिदास-अग्निवर्णसमकालिकतया ग्रन्थस्य तत्पर्यन्तां समर्थयन्ते । रघुवंशः येषां राज्ञां वर्णनानि सन्ति, येषां रामायणवर्णितनृपैः सह भेदः आपतति, परन्तु वायुपुराणवर्णितरामवंशावल्या सह रघुवंशवर्णितरामवंशावली भूयसा सामञ्जस्यं धारयति ।

कुमारसम्भवम्[सम्पादयतु]

कुमारसम्भवं किञ्चन महाकाव्यम् । शिवपार्वत्योः प्रेम्णः वर्णनपुरस्सरं देवसेनापतेः स्कन्धस्य कुमारस्य जननवर्णनयुक्तम् अपूर्वम् इदं महाकाव्यम् । इदमपि महाकाव्यं १७सर्गात्मकम् । परं पूर्वं २२ सर्गाः स्युः इति केषाञ्चित् विदुषाम् अभिप्रायः । सृष्टिकर्तुः ब्रह्मदेवस्य वरप्रसादेन तारकासुरः प्रबलो भूत्वा सकलान् अमरान् पीडयामास । तस्मात् ब्रह्मणः सूचनानुसारं शिवपार्वत्योः विवाहं अकारयन् देवाः । तयोः पुत्रेण कुमारेण तारकासुरः निहतः । अयं कथाभागः अत्र कविना सुमधुरसरसशैल्या वर्णितः । रामायणगतं अधो लिखितं पद्यं पठित्वैव कालिदासेन स्वकाव्यस्य नामकरणं कृतं स्यादिति विद्वांसः तर्कयन्ति । एष ते राम गङ्गायाः विस्तारोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ (बालकाण्डे 37/32) काव्यारम्भे कविः नगाधिराजः हिमालयः पृथिव्याः मानदण्ड इव स्थितः इति मनोहररूपेण अवर्णयत् । काव्येऽस्मिन् रतिविलासः, वसन्तवर्णनं, पार्वत्याः तपसः वर्णनञ्च अपूर्वमस्ति । महाकाव्येऽस्मिन् कवेः प्रतिभा परां काष्ठां प्राप्नोत् । काव्यस्यास्य भाषा, काव्यचारुत्वम्, उन्नतसंस्कृतेः परिसरं, सुन्दरोपमाननिदर्शादयः काव्यस्य सौन्दर्यम् अवर्धयन् । कुमारसम्भवकाव्ये तपसि तत्परा हिमनगसुता पार्वती ब्रह्मचारिवेषधारिणः शिवस्य सम्भाषणं श्रुत्वा ततः गन्तुम् इष्टवती तदा अनल्पकल्पनामूर्तिः कविः कालिदासः सर्वथाऽभिनवां मर्मस्पर्शिनीं च उपमां प्रस्तौति - मार्गाचलव्यतिकराऽऽकुलितेव सिन्धुः । शिलाधिराजतनया न ययौ न तस्थौ ॥ अत्र मार्गाचलव्यतिकरेण आकुलिता नदी इव शिलाधितनया अस्ति । एतस्याः शारीरिकी मानसिकी च समीचीना स्थितिः पद्यांशेन अनेन सम्यक् परिलक्ष्यते ।

नाटकानि[सम्पादयतु]

  • मालविकाग्निमित्रम्-एतत् राज्ञः अग्निमित्रस्य कथा अस्ति। सः मालविका नाम सेविकाम् अकामयत्। एतं विषयं ज्ञात्वा स्वराज्ञी अक्रुध्यत् | मालविकाम् आसेधयत् च। परन्तु मालविका राजपुत्री आसीत्। तस्याः जन्म ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकाम् परिणीतवान्।
  • अभिज्ञानशाकुन्तल-नाटकम् विश्वप्रसिद्धम्। इदं नाटकं पठित्वा प्रसिद्ध्ः जर्मन्-कविः गोएट् अत्यन्तं विमुग्धः परमानन्दितश्च अभवत्। अस्य नाटकस्य अनुवादाः विश्वस्य अनेकासु भाषासु उपलभ्यन्ते।
  • विक्रमोर्वशीयम् अप्सरा उर्वशी महाराजः पुरुरवस् परस्परम् इष्टवन्तौ। परं तया स्वर्गे उषितव्यम्। तत्र नाटके दोषं कृत्वा इन्द्रः तां शाप्तवान् "त्वं, भूलोके मर्त्यरूपे स्वकान्तेन सह जीविष्यसि। परं यदा सः आवयोः सूनुं पश्यति तदा त्वं स्वर्गं पुनरागमिष्यसि" इति। कालानन्तरम् शापात् विमुक्तौ पुरुरवस् उर्वशी च सुखेन जीवितवन्तौ।

पद्यम्[सम्पादयतु]

कुमारसंभवम् मेघदूतम् रघुवंशम् ऋतुसंहारम् च कालिदासस्य विशेषकाव्याणि सन्ति|

  • मेघदूतं संस्कृत-साहित्ये प्रख्यातं दूतकाव्यम्‌ । तत् सन्देश-काव्यम् इत्यपि परिचितम् ।
  • कुमारसंभवम् नाम महाकाव्यमं महाकविना कालिदासेन विरचितम्। अस्मिन् प्रकृतेः शोभा सुशब्दैः वर्णिता। अस्मिन् सप्तदश सर्गाः सन्ति। अस्मिन् काव्ये स्कन्दस्य जन्म वर्णितम्।
  • रघुवंशम्-रघुवंशम्' महाकविना कालिदासेन विरचितमेकं महाकाव्यमस्ति। महाकाव्येऽस्मिन् राज्ञः रघोः वंशस्य पूर्णं वर्णनमस्ति। सूर्य-प्रभवस्यास्य वंशस्य मनु-दिलीप-अज-दशरथ-रामादीनां सर्वेषां नृपाणां विस्तृतं वर्णनमस्ति।

उद्धरणानि[सम्पादयतु]

वागर्थाविव सम्पृक्तौ वागर्थः प्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥

-रघुवंशम्

दत्तम्[सम्पादयतु]

उपमालङ्कार-प्रयोगे कालिदासस्य श्रेष्ठत्वं सर्वत्र विश्रुतम् । अतः कथ्यते - "उपमा कालिदासस्य" ।

कालिदासस्य भवभूतिना सह तुलना[सम्पादयतु]

कालिदास: भवभूति:
शृङ्गारसप्रधानं वर्णनम् वीरकरुणरसप्रधानं वर्णनम्
नाटके विदूषक: अस्ति विदूषक: न अस्ति
प्रयोगप्रधानं नाटकम् काव्यप्रधानं नाटकम्
दुष्यन्तं पश्यन्ती शकुन्तला, राजा रविवर्मा

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कालिदासः&oldid=278871" इत्यस्माद् पुनः प्राप्तिः