मुरैनामण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुरैनामण्डलम्
Morena District
—  मुरैना जिला  —
मुरैनामण्डलम्
मुरैनामण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ
विस्तारः ४,९८९ च. कि. मी.
जनसङ्ख्या (२०११) १९,६५,९७०
भारतीयमानसमयः (IST) (UTC+५:३०)
साक्षरता ७१.०३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४२%
जालस्थानम् http://morena.nic.in/

मुरैनामण्डलम् (हिन्दी: मुरैना जिला, आङ्ग्ल: Morena district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मुरैना इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

मुरैनामण्डलस्य विस्तारः ४,९८९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भिण्डमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं मुरैनामण्डलस्य जनसङ्ख्या १९,६५,९७० अस्ति । अत्र १०,६८,४७० पुरुषाः, ८,९७,५५३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४० अस्ति । अत्र साक्षरता ७१.०३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले गोधूमस्य कृषिः भवति । सर्षपः अपि तत्र अत्यधिकपरिमाणेन उत्पाद्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

कुतवारग्रामः[सम्पादयतु]

कुतवारग्रामः इति कुन्तलपुरग्रामस्य अपरं नाम अस्ति । इदं स्थलं महाभारतकालीनम् अस्ति । अत्र विशाला चम्बलद्रोणिः अस्ति । चम्बलद्रोण्याः समीपे इदं स्थलं स्थितमस्ति ।

मीतावलि[सम्पादयतु]

’मीतावलि’ इति इदं स्थलं रमणीयमस्ति । अस्मिन् स्थले पर्वतोपरि चतुःषष्ठियोगिनीनां मन्दिरम् अस्ति । इदं मन्दिरं १०० फीट उच्चतायां स्थितमस्ति । सिहोनिया, पदावली, राष्ट्रीय चम्बल अभ्यारण, पहाडगढ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://morena.nic.in/
http://www.census2011.co.in/census/district/286-morena.html

"http://sa.wikipedia.org/w/index.php?title=मुरैनामण्डलम्&oldid=274369" इत्यस्माद् पुनः प्राप्तिः