पञ्जाबराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पञ्जाबराज्यम्
ਪੰਜਾਬ
—  State of India  —
भारतस्य भूपटे पञ्जाबराज्यम्

ध्वजः

मुद्रिका
Nickname(s): Land of Five Rivers, punj=five; abb=water
पञ्जाबराज्यस्य भूपटः
Clockwise from top: Harmandir Sahib, Quila Mubarak, Gandhi Bhavan, Wagah Border, Jallianwala Bagh Memorial
Coordinates (chandigarh): 30°47′N 76°47′E / 30.79°N 76.78°E / 30.79; 76.78Coordinates: 30°47′N 76°47′E / 30.79°N 76.78°E / 30.79; 76.78
Country भारतम्
Established ११-१-१९६६
Largest city Ludhiana
Districts 22
सर्वकारः
 • Governor शिवराजः पाटील्
 • Chief Minister प्रकाश सिंहः बादल् (SAD)
 • Legislature Unicameral (117 seats)
 • Parliamentary constituency 13
 • High Court Punjab and Haryana High Court
विस्तीर्णता
 • संहतिः ५०,३६२ Square km (१९,४४४.९ Square mile)
क्षेत्रविस्तारः 19th
जनसङ्ख्या (2011)
 • संहतिः २,७७,०४,२३६
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-PB
HDI increase 0.679 (medium)
HDI rank 9th (2005)
Literacy 76.68%
अधिकृता भाषा पञ्जाबीभाषा
जालस्थानम् [http://www.punjabgovt.gov.in]


पंजाब (ਪੰਜਾਬ) (Punjab) भारतस्‍य किञ्चन राज्यम् । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले काश्मीरं, पेशावरं, हरियाणा, हिमाचलप्रदेशः च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् । पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।

चंडीगढ़ (ਚੰਡੀਗੜ੍ਹ) पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः सिक् जनानां पवित्रदेवालयः स्वर्णमन्दिरं सरोवराणां नगरम् अमृतसरः प्राचीनदुर्गयुक्तं भरिण्डानगरं शिल्पकलानामागरः कपूरथलम्, उद्याननगरमिति ख्यातं र्पाटयालानगरम्, राजधानी चण्डीगडः उद्यमनगरं लूधियाना इत्यादिनि मुख्यानि सन्ति ।

कार्बुसियर् पत्तनम्[सम्पादयतु]

एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । भारतपाकिस्तानयोः विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः भारतसर्वकारेण चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री जवहरलाल महोदयः क्रिस्ताब्दे १९५३ तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल् सेक्तर्युक्तम् । हरिद्विभागः अत्याधुनिकः । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मी. अस्ति । मुख्यतः त्रीणिनगराणि, २७ ग्रामाः नगरक्षेत्रे मिलितानि सन्ति । वायव्ये सिवालिक् पर्वतावली अस्ति । अस्य नगरस्य पेयजलसमस्यां परिहर्तुं नूतनप्रकल्पेन सुखानम् इति विशालं सरः निर्मितः। भारते कृतेषु कृत जलाशयेषु एषः जलाशयः अप्यकेः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति । फलपुष्पानां विषये आसक्तानां चण्डीगडनगरमेव नन्दनवनमिव निर्मितम् अस्ति । अलङ्कारिकपुष्पाणां वस्तुसङ्ग्रहालयः इति एतत् नगरं सम्बोधयन्ति । एवं सप्तविभागेषु व्याप्तम् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि न द्रष्टुं मिलति । उद्यानानि डा. झकिर् हुसेन्, रोजगार्डन्, इत्यादीनि शान्तिकुञ्जानि सन्ति । विविधस्तरेषु वाटिकाः निर्मिताः । टोपिनीवाटिकाः इति नाम्ना तन्त्रीजालैः निर्मिताः प्राणिनामाकृतयः स्थापिताः । आम्रोद्यानम् उत्तमं प्रेक्षणीयं स्थलमस्ति । पार्श्वे राक् गार्डन् म्यूज़ियं कलासङ्ग्रहालयः च सन्ति । सप्ताहे सोमवासरः विरामदिनम् । जवाहरलालनेहरु चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यत्कालीनं विश्वासपात्रं नवीनं नगरं इति वर्णितवान् । नवीनशिल्पस्य एतत् नगरं विश्वस्य परम्परानगरम् इति उद्घुष्टम् ।

राकगार्डन्[सम्पादयतु]

अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । भारते एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.१९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.१९७६ तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति । विमानमार्गः - दिल्लीतः विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी. दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं देहलीतः प्रस्थास्यति । शिम्ला,मनाली, धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।

अमृतसरस्य स्वर्णमन्दिरम्[सम्पादयतु]

स्वर्णमन्दिरम्

विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । भारतदेशे स्थितेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् । एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.१५७७ तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः सिख्खमतस्य पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् सिख्खमतस्य वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । सिख्खमतीयानां स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। अमृतसरनगरे लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.१८०५ -१८०९ तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं देहलीतः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –देहलीतः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, देहली इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।

जलियन् वालाबाग् हत्याकाण्डस्थानम्[सम्पादयतु]

Martyrs well at Jallianwala Bagh.jpg

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।

अन्‍यनगराणि[सम्पादयतु]

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पञ्जाबराज्यम्&oldid=283156" इत्यस्माद् पुनः प्राप्तिः