असमराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
असमराज्यम्
—  राज्यम्  —

Seal
भारते असमराज्यम्
असमराज्यस्य मानचित्रम्
Coordinates (दिसपुर): 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77Coordinates: 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77
राष्ट्रम्  भारतम्
उद्घोषणम् सा.श.१९४७तमवर्षस्य अगष्टमासस्य १५तमदिनम् ।
राजधानी दिसपुरम्
मण्डलम् २७
सर्वकारः
 • राज्यपालः जानकीवल्लभः पट्नायिक्
 • मुख्यमन्त्री तरुणः गोगी
विस्तीर्णम्
 • Total  Square km ( Square mile)
विस्तीर्णतास्तरः १६तमः
जनसङ्ख्या (२०११)
 • Total
 • श्रेणी १४तमः
भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ७३.१८% (१५तमः)
भाषाः अस्सामि, कर्बि, बोडो, बेङ्गाली
जालस्थानम् http://assam.gov.in

असमराज्यम् (Assam) ईशान्य भारते विद्यमानं किञ्चन राज्यम् । भारतस्य सीमाप्रदेशे विद्यमानं राज्यम् अस्ति । राज्यस्य विस्तीर्णं ७८,४६६ चदर कि. मि. अस्ति । अस्य राज्यस्य उत्तरे अरुणाचलप्रदेशः, पूर्वे नागाल्याण्ड तथा मणिपुर, दक्षिणे मिजोरमा तथा मेघालयः, पश्चिमे बाङ्ग्लादेशश्च भवन्ति । अस्य राज्यस्य राजधानि "दिसपुर"।

इतिहासः[सम्पादयतु]

प्राचीनभारतीयग्रन्थेषु अस्य प्रदेशस्य नाम “प्रागज्योतिषपुर” इति आसीत् । पूराणानाम् आधारेण “कामरूप” अस्य राज्यस्य राजधानी असीत् इति ज्ञायते । महाभारतस्य कालादारभ्य भास्करवर्मस्य शासनकालपर्यन्तम् एकस्य वंशस्यैव शासनम् आसीदिति । अभिलेखेषु उल्लेखाः दृश्यन्ते ।

  • सा.श. १८२६ तमे संवत्सरे युद्धसमाप्तेरनन्तरं ब्रिटिष् सार्वकारस्य शासनम् आसीत् ।
  • सा.श. १८३२ तमे संवत्सरे कछार प्रदेशस्य मेलनम् ।
  • सा.श. १८३५ तमे संवत्सरे तियाप्रदेशस्य मेलनम् ।
  • सा.श. १८७४ तमे संवत्सरे ब्रिटीष् सार्वकारस्य मुख्यायुक्तस्य अधीने अयं प्रदेशः आगतः ।
  • सा.श. १९०५ तमे संवत्सरे 'बङ्ग' विच्छेदः तथा सैन्याधिकारेः शासनम् आरब्धम् ।
  • सा.श. १९१५ तमे संवत्सरे पुनः मुख्यायुक्तस्य प्रशासनम् आरब्धम्।
  • सा.श. १९२१ तमे संवत्सरे राज्यपालस्य शासनम्।
  • सा.श. १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यप्राप्तिः पाकिस्तानभारतयोः विभजनेन "बहुलसिलहट" प्रदेशस्य पाकिस्ताने मेलनम्।

भूगोलम्[सम्पादयतु]

अयं प्रदेशः त्रिधा विभक्तः अस्ति । "ब्रह्मपुत्रविशालप्रदेशः", "मिकिर तथा उत्तरकछारस्य पर्वतप्रदेशः", "कछारविशालप्रदेशश्च" भवन्ति । ब्रह्मपुत्रविशालप्रदेशः- अस्य प्रदेशस्य अपह्वरः न्यूनमस्तीतिकारणेन ब्रह्मपुत्रेणावृतोऽस्ति। ब्रह्मपुत्रा एनं प्रदेशं विभजति । मिकिर तथा उत्तरकछारस्य पर्वतप्रदेशः- अयं प्रदेशः पर्वतारण्येन व्यापृतम् अस्ति । अयं प्रदेशः दक्षिणभागे विद्यते । कछारविशालप्रदेशः- अयं समतलप्रदेशः भवति । कृषिनिमित्तम् उपयुक्तः सारवत्त्प्रदेशः भवति । राज्यस्य दक्षिणभागे अयं प्रदेशः विद्यते ।

शिक्षणम्[सम्पादयतु]

असमराज्ये ‍(६) षड् वर्षादारभ्य (१२) द्वादशवर्षपर्यन्तं माध्यमिकाध्ययनस्य अनिवार्याता अस्ति । निःशुल्केन अध्ययनार्थं सार्वकारपक्षतः व्यवस्था कल्पिता अस्ति । अध्ययन दृष्ट्या राज्यस्य ८० अपेक्षया अधिकेषु केन्द्रेषु विभिन्नाः योजनाः कल्पिताः सन्ति । राज्ये नैके विश्वविद्यालयाः सन्ति । असम कृषिविश्विविद्यालयः, असम विश्व।विद्यालयः, डिब्रुगढ़ विश्‍‍वविद्यालयः, गुवाहाटी विश्वःविद्यालयः, भारतीय प्रौद्योगिकी संस्थानम् , गुवाहाटी, राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्वयविद्यालयः), तेजपुर विश्वविद्यालयश्च अस्य राज्यस्य प्रतिष्टिताः विश्वविद्यालयाः।

काझिरङ्गाराष्ट्रियोद्यानम्[सम्पादयतु]

असमराज्यस्य मध्यभागे विराजमाना गुवहाटी तस्य राजधानी अस्ति । तस्य ईशान्यभागे ब्रह्मपुत्रनदःतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रियम् उद्यानमस्ति । ब्रह्मपुत्रनदतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रीयम् उद्यानमस्ति ब्रह्मपुत्रनदस्य प्रपाते ९०० चतुरस्रकि.मी प्रदेशे व्याप्तविफुलैः वृक्षै तरुलताभिः फलवृक्षैः प्राणिभिः पूर्णम् अस्ति । पूर्वमेतत् अज्ञातस्थलमासीत् । सा.श.१९०८ तमे वर्षे एतत् राष्ट्रियोद्यानवनमिति घोषितवन्तः । सा.श. १९५० तमे वर्षे वन्यप्राणिरक्षणकेन्द्रमिति परिवर्तितं राष्ट्रियोद्यानम् अभवत् । अत्र गन्तुं साहासिभिः एव साध्यमस्ति । अहोंसाम्राज्यस्य प्राचीना राजधानीं जोरहात् प्रदेशम् आगत्यानन्तरं वनप्रदेशे गन्तव्यम् । निबिडे वने एषा प्रपातभूमिः अस्ति । गजारोहणं कृत्वा एलिफेण्टा शाद्वलमध्ये गन्तव्यं भवति । मार्गे अरण्याधिकारिणः मार्गदर्शनं कुर्वन्ति । एकत्र एकश्रृङ्गी खड्गमृगाः १८५५ सङ्ख्यधिकाः निवसन्ति । १२०० सङ्ख्यधिकाः गजाः व्याघ्राः १४०० सङ्ख्यधिकाः वनमहिषाः सन्ति । विविधाः अजगराः, मानिटर् लिजर्डप्राणिनः पक्षिसङ्कुलानि अत्र सन्ति । प्राणिसङ्कुलस्य ७५ प्रतिशतं प्राणिनः अत्र निवसन्ति इति पक्षितज्ञानाम् अभिप्रायः ।

विमानमार्गः[सम्पादयतु]

गुवहाटीविमाननिस्थानतः २१७ कि.मी जोरहात् स्थानतः ९६ कि.मी दूरे भवति । कोलकाता जोरहाट् शिबसागरकणिरङ्गमार्गः । काजिरङ्गप्रदेशे वसतिं कर्तुम् अवकाशः अस्ति । प्रयाणार्थं गजाः लघुवाहनानि लोकयानानि सन्ति । फेब्रवरीमासतः मेमासपर्यन्तं प्रवासस्य सुकालः भवति ।

शिबसागरम्[सम्पादयतु]

एतत् असमराज्यस्य उत्तरभागे स्थितं मण्डलम् । पूर्वम् अत्र ६०० वर्षपर्यन्तं अदोसाम्राज्यस्य राजधानी आसीत् । शिवाय अर्पितमिति कारणेन अस्य शिवसागरम् इति नाम आगतम् । अत्र २०० वर्षपूर्वतः विख्यातं शिबसागरं सरः ५२ हेक्तर् परिमितं विस्तृतम् अस्ति । अत्र जलस्तरः ग्रामस्य जलस्तरतः उपरि अस्ति । अत्र नगरे शिवदोल देवालयः (सा.श.१७३४काले), विष्णुदोल् देवीदोल् देवालयौ च सन्ति । शिवहोल् भारतदेशे एव अत्युन्नत (१०४ मीटर्) अस्ति । अस्य परिधिः १९५ पादमित अस्ति । अस्य विस्तारः हेक्तर् मितमस्ति । मार्गः – जोहराततः ५५ कि.मी.

मजूलिद्वीपः[सम्पादयतु]

मजूद्वीपः असमराज्ये ब्रह्मपुत्रनदेन निर्मितः विश्वस्य अतिबृहद्द्वीपः । अहो वंशीयानां प्रशासनकाले एषः प्रदेशः अतीव समृध्दः आसीत् । प्रपञ्चस्य जीववैविध्यम् अत्र दृष्टुं शक्यते । अत्र पक्षिणः प्राणिनः च विशिष्टाः कीटाः च सन्ति । विश्वसंस्थया अयं प्रदेशः विश्वपरम्परास्थानम् इति उद्घुष्टम् । अत्र बहवः वैष्णवमतानुयायिनः सन्ति । अत्र गन्तुं विमानधूमशकटवाहनसम्पर्कः अस्ति । समीपे दोहारत् इति नगरम् अस्ति ।

मण्डलानि[सम्पादयतु]

असमराज्ये २७ मण्डलानि सन्ति।

   

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=असमराज्यम्&oldid=267205" इत्यस्माद् पुनः प्राप्तिः