पुराणानि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रक्तबीजासुरेण सह योद्धुं प्रस्थिता दुर्गा, मार्कण्डेयपुराणम्

पुरा नवं पुराणमिति व्युत्पत्तिः ।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥

इति पुराणं पञ्चलक्षणयुक्तं स्यादिति प्रतिपादितम् । तत्र प्रतिसर्गो नाम ब्रह्मादीनां सृष्टिः । वंशो नाम देवाऽसुरादिविभेदोत्पत्तिः । कालक्रमेण पुराणेष्वपि इतिहासेष्विव बह्व्यः कथाः प्रविष्टाः । ततश्च पुराणेतिहासौ प्रायस्तुल्यलक्षणलक्षितौ दृश्येते । पुराणानां धार्मिकदृष्ट्या महत्वमधिकम् । वेदविहितानां धर्माणां सरलसुबोधभाषायां वर्णनायैव पुराणानि विरचितानि –

इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥

यदा वेदोक्ता अर्थाः लोकानां बुध्दौ नारोढुं प्रवृत्तारस्तदा वेदोक्तार्थस्य ज्ञानं सुलभं कर्त्तुं पुराणानि विरच्यन्ते स्म । समाजस्य तात्कालिकस्वरुपबोधनायापि पुराणानां महानुपयोगः पुराणेषु प्राचीनभारतस्येतिहासो निहितः । पुराणोक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्त्तुमारब्धम्, अतो विदेशीया अपि विद्वांसः पुराणे धृतादराः प्रतिभान्ति । इतिहासा यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तैः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम् ।

पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोध्दव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः ।

पुराणलक्षणम् [सम्पादयतु]

पुराणानां रचनाकालः[सम्पादयतु]

पुराणानां रचना कदा जातेति प्रश्ने निम्नलिखितविषयाः पूर्वं ध्यातव्याः –

  1. अथर्ववेदे पुराणस्य उल्लेखो दृश्यते –
ऋचः सामानिच्छन्दांसि पुराणं यजुषा सह ।
उच्छिष्टाञ्जज्ञिरे सर्वे दिवि देवा दिवि श्रिताः ॥ (११/७/२४)
  1. गोपथब्राह्मणे पुराणानि स्मर्यन्ते –

एवमिमे सर्वे वेदाः निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वयाख्याताः सपुराणाः सस्वराः । (गोपथप्रपा.२)

  1. शतपथे – ‘सोऽयमिति किञ्चित् पुराणमाचक्षीत ।’ (१३/ ४/३/१३)
  2. बृहदारण्यके- ‘इतिहासः पुराणं विद्या उपनिषदः ।’ (२/४/११)
  3. छान्दोग्ये –ऋग्वेद भगवोऽध्येमि …. इतिहासपुराणं पञ्चमं वेदानां वेदम् ।’
  4. आपस्तम्बधर्मसूत्रे पुराणस्योल्लेख एव न केवलोऽपि तु श्लोक संख्याप्युक्ता – अथ पुराणे श्लोकानुदाहरन्ति, अष्टासीतिसहस्राणीति (२/२२/३५)
  5. शङ्कराचार्यः कुमारिभट्टश्च पुराणान्यद्धृतवन्तौ । बाणभट्टः हर्षचरिते ‘पुराणेषु वायुप्रलपितम्’ इत्याह ।
  6. पुराणेषु कलियुगवर्त्तिनां राज्ञां वर्णनानि दृश्यन्ते । विष्णुपुराणे मौर्यवंशस्य प्रामाणिकं विवरणं लभ्यते । मत्स्यपुराणे आन्ध्रनृपतयः स्मृताः । वायुपुराणे गुप्तनृपतयो वर्णिताः ।
  7. महाभारतकृता पुराणानि स्मृतानि, पदमपुराणे ऋष्यशृङ्गस्य यद् वृत्तं वर्ण्यते तन्महाभारतेऽपि प्राप्यते ।
  8. कौटिल्यकृतमर्थशास्त्रं पुराणानि निर्दिशति, तत्र हि विनेयेभ्यो राजपुत्रेभ्यः पुराणानि उपदेष्टव्यानीति निर्दिष्टम् । अर्थशास्त्रं चेदं चन्द्रगुप्तराज्यकालिकमिति ततः पूर्वं पुराणरचनं सिदध्यति ।
  9. धर्मसूत्रेषु पुराणानि स्मर्यन्ते ।

तदिमानि सर्वाणि तत्त्वानि पुराणानां वैदिककालेऽप्यस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट शतकपूर्वतनकाले पुराणानामस्तित्वमासीदिति कल्पनाऽपि सत्यानुमोहिता । इदं तु सत्यं यत् पुराणस्यादिमं रुपं सम्प्रति नावाप्यते । पुराणं कदाचिदेकत्र समये नारच्यत, समये समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्त्तमानरुपमुपन्नमासीत् ।

पुराणानां नामानि तत्प्रमाणं च[सम्पादयतु]

पुराणानां संख्याविषये मतभेदो नास्ति, सर्ववादिसिध्दं तेषामष्टादशत्वम् ।

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिंगकूस्कानि पुराणानि प्रचक्षते ॥

श्लोकोऽयं पुराणानां नामानि संगृह्णाति ।

  • मद्वयम् –मकारादिपुराणद्वयम् –मत्स्यपुराणम् मार्कण्डेयपुराणञ्च २
  • भद्वयम् –भकारादिपुराणद्वयम् – भविष्यपुराणम् भागवतपुराणञ्च ४
  • ब्रत्रयम् –ब्रादिपुराणत्रयम्- ब्रह्माण्डपुराणम्, ब्रह्मपुराणम्, ब्रह्मवैवर्त्तञ्च ७
  • वचतुष्टयम् –वकारादिपुराणचतुष्टयम् –वामन-वराह- विष्णु –वायुपुराणानि ११

अ – अग्निपुराणम् – १२ ना – नारदपुराणम् – १३ प – पद्मपुराणम् - १४ लि – लिङ्गपुराणम् – १५ ग – गरुडपुराणम् – १६ कू - कूर्मपुराणम् – १७ स्क – स्कन्दपुराणम् -१८

इत्यादयः सन्ति ।एवं एतदन्ये शताधिकपुराणानि सन्ति।

संस्कृतस्य धार्मिकसाहित्ये प्रमुखपात्रं वहति पुराणसाहित्यम् । पुराणम् इत्यस्य प्रमुखतया अर्थद्वयं दृश्यते ।

१. पुरा भवम् – पुरा “ट्युल्” (४.३.२३)

“उद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः” उ.रा. २-२९ । “पुराणमित्येव न साधु सर्वम्” माल. १-२

२. पुरापि नवः रा.भा., शां.भा.
“इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इत्येतस्य वचनस्य अनुसारं वेदेषु उक्तान् कठिनविचारान् सुलभरीत्या जनान् बोधयितुं बहुभिः महर्षिभिः रचिताः ग्रन्थाः एते ।

महापुराणानि[सम्पादयतु]

महापुराणानि अष्टादश । एतानि वेदव्यासमहर्षिणा रचितानि इति प्रतीतिः ।

ब्राह्मं पाद्मं वैष्णवं च शैवं च लैङ्गं च गारुडम् ।
नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
मात्सयं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।
अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥

अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ मत्स्यपुराणम् (५३-७०)

अष्टादशपुराणानां श्लोकसंख्या अत्र निरूप्यते[सम्पादयतु]

१ तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश | १४००० श्लोकाः
२ पुराणं नवसाहस्रं मार्कण्डेयमिहोच्यते | ९००० श्लोकाः
३ तद्भागवतमुच्यते, अष्टादशसहस्राणि | १८००० श्लोकाः
४ चतुर्विंशत्सहस्राणि तथा पञ्चशतानि च |
भविष्यचरितप्रायं भविष्यं तदिहोच्यते | २४५०० श्लोकाः
५ ब्राह्म त्रिदशसाहस्रं पुराणं परिकीर्त्यते | १३००० श्लोकाः
६ तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते | १८००० श्लोकाः
७ तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् | १२२०० श्लोकाः
८ पुराणं दशसाहस्रं वामनं परिकीर्तितम् | १०००० श्लोकाः
९ चतुर्विंशत्सहस्राणि तद् वाराहमिहोच्यते | २४००० श्लोकाः
१० आग्नेयं तच्च षोडशसाहस्रम् | १६००० श्लोकाः
११ चतुर्विंशत्सहस्राणि वायवीयम् | २४००० श्लोकाः
१२ त्रयोविंशतिसाहस्रं वैष्णवं परिकीर्त्यते | २३००० श्लोकाः
१३ पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते | २५००० श्लोकाः
१४ पाद्मं तु पञ्चपञ्चाशत्सहस्राणीह् कथ्यते | ५५००० श्लोकाः
१५ तदेकादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
१६ अष्टादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
१७ कूर्मरूपी जनार्दनः, अष्टादशसहस्राणि | १८००० श्लोकाः
१८ स्कन्दं नाम् पुराणञ्च ह्येकाशीतिर्निगद्यते | ८११०० श्लोकाः

पुराणानां विषयव्याप्तिः[सम्पादयतु]

वेदोपनिषत्सु विद्यमानानि गहनतत्त्वानि कथानां द्वारा बोधनम् इतेतत् पुराणानां प्रमुखं प्रयोजनम् । एतत् अतिरिच्य भारतस्य प्राचीनयुगस्य इतिहासस्य पुनर्निर्माणे अपि एतत् साहित्यं महता प्रमाणेन उपकरोति इत्येतत अवश्यं स्मर्तव्यम् । अष्टादशसु महापुरणेषु एकैकस्मिन् अपि भारतस्य विविधस्थलानां परिचयः, विविधकालस्य च निरूपणं दृश्यते । इतिहासे प्रसिद्धानां राजवंशानां विवरणं, राज्ञां विजयपराभवानां विवरणं च उपलभ्यते । तस्मिन् काले प्रसिद्धानां बहु जनानां प्रस्तावः दृश्यते । शुङ्ग-नन्द-मौर्य-इक्ष्वाकु-पुरूरववंशीयानां चरित्रं दृश्यते । भविष्यत्पुराणे चन्द्रगुप्त-विक्रमादित्य-पाणिनि-पतञ्जलि-कबीरदास-कृष्णचैतन्यादीनां विवरणं लभ्यते । ब्रह्माण्डपुराणे शातवाहन-आन्ध्रवंशस्य राज्ञां विवरणेन सह तस्य कालस्य राजनैतिकपरिस्थितेः उल्लेखाः अपि दृश्यन्ते । तेन सह धार्मिकपरिस्थितिः अपि निर्दिष्टा अस्ति । शैव-वैष्णवसम्प्रदाययोः विभिन्नता, देवालयानां माहात्म्यं, व्रतानां विवरणं, पुण्यक्षेत्राणां महिमा च वर्णिता दृश्यते । स्कान्दपुराणे सहस्राधिकानां पुण्यक्षेत्राणां भौगोलिक-ऎतिहासिकविवरणम् उपलभ्यते । चातुर्वर्ण्यव्यवस्था, देशाचार-कुलाचाराः, नित्यनैमित्तिककर्माणि, संस्काराः, पर्वाचरणं, स्वामि-भृत्यसम्बन्धः, राज-प्रजासम्बन्धः, पितृ-पुत्रसम्बन्धः - इत्यादयः विषयाः अत्र निरूपिताः सन्ति । अग्निपुराणे वास्तुशिल्प-वर्णचित्र-नाट्यकलायाः प्रस्तावः अस्ति । अश्वचिकित्सा-हस्तिचिकित्सा-सर्पदष्टमन्त्रचिकित्सा-बालग्रहचिकित्सा च विवृता अस्ति । नारदपुराणे ज्योतिषस्य निरूपणमस्ति । आयुर्वेदस्य इतिहासनिर्माणे ब्रह्माण्डपुराणं सहकरोति । एवं पुराणानां विषयविस्तारः अस्ति सुमहान् ।

पुराणविभागः[सम्पादयतु]

महापुराणानि द्विधा विभज्यते ।

सात्त्विक-राजस-तामसपुराणानि[सम्पादयतु]

वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ।|
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ।|

विष्णु-नारद-भागवत-गरुड-पद्म-वराहपुराणानि सात्त्विकानि ।

ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च ।
भविष्यं वामनं ब्राह्मं राजसानि निबोधत ।|

ब्रह्माण्ड-ब्रह्मवैवर्त-मार्कण्डेय-भविष्य-वामन-ब्राह्मपुराणानि राजसानि ।

मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
आग्नेय्ञ्च षडेतानि तामसानि निबोधत ।|

मत्स्य-कूर्म-लिङ्ग-शैव-स्कान्दपुराणानि तामसानि ।|

द्वारिकानगरी, हरिवंशः
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ।
तद्वद् अग्नेश्च माहात्म्यं तामसेषु शिवस्य च
संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥

सात्त्विकपुराणेषु हरेः माहात्म्यं, राजसपुराणेषु ब्रह्मणः माहात्म्यं, तामसपुराणेषु शिवस्य माहात्म्यं च वर्णितं दृश्यते । सरस्वत्याः पितॄणां च स्तुतिः यत्र कृतः अस्ति तानि संकीर्णपुराणानि इति मत्स्यपुराणे उल्लेखः दृश्यते ।

ब्रह्म-विष्णु-शिवपुराणानि[सम्पादयतु]

ब्रह्मपुराणानि[सम्पादयतु]

  1. ब्रह्मपुराणम्
  2. ब्रह्माण्ड पुराणम्
  3. ब्रह्मवैवर्त पुराणम्
  4. मार्कण्डेयपुराणम्
  5. भविष्य पुराणम्

विष्णुपुराणानि[सम्पादयतु]

  1. विष्णुपुराणम्
  2. श्रीमद्भागवतपुराणम्
  3. नारदेयपुराणम्
  4. गरुडपुराणम्
  5. पद्मपुराणम्
  6. अग्निपुराणम्

शिवपुराणानि[सम्पादयतु]

  1. शिवपुराणम्
  2. लिंगपुराणम्
  3. स्कन्दपुराणम्
  4. वायुपुराणम्

महापुराणानि[सम्पादयतु]

पुराणस्य नाम श्लोकसंख्या टिप्पणी
अग्निपुराणम् १५,४०० श्लोकाः
भागवतपुराणम् १८,००० श्लोकाः सर्वाधिक-श्रव्यपुराणम्। सर्वेषु पुराणेषु श्रेष्ठतमम् इति कथ्यते[१] भगवतः कृष्णस्य महिमावर्णनं तथा भक्तिकथा भक्ति आन्दोलनः[२]
भविष्य पुराणम् १४,५०० श्लोकाः
ब्रह्मपुराणम् २४,००० श्लोकाः उदाहरणम्
ब्रह्माण्ड पुराणम् १२,००० श्लोकाः ललितसहस्रनामग्रन्थे अस्ति।
ब्रह्मवैवर्त पुराणम् १८,००० श्लोकाः
गरुडपुराणम् १९,००० श्लोकाः
कूर्मपुराणम् १७,००० श्लोकाः
लिंगपुराणम् ११,००० श्लोकाः
मार्कण्डेयपुराणम् ९,००० श्लोकाः देवीमहात्म्यम्, शक्त्याः वर्णनम्
मत्स्यपुराणम् १४,००० श्लोकाः उदाहरणम्
नारदपुराणम् २५,००० श्लोकाः उदाहरणम्
पद्मपुराणम् २४००० श्लोकाः उदाहरणम्
स्कन्दपुराणम् ८१,१०० श्लोकाः दीर्घतमः
वामनपुराणम् १०,००० श्लोकाः
वराहपुराणम् १०,००० श्लोकाः
वायुपुराणम् २४,००० श्लोकाः
विष्णुपुराणम् २३,००० श्लोकाः

सन्दर्भ[सम्पादयतु]

  1. {{#ifeq:|none |Monier-Williams 1899 | [[#CITEREFMonier-Williams1899|Monier-Williams 1899, column 3, under the entry Bhagavata.
  2. {{#ifeq:|none |Hardy 2001 | [[#CITEREFHardy2001|Hardy 2001
"http://sa.wikipedia.org/w/index.php?title=पुराणानि&oldid=258166" इत्यस्माद् पुनः प्राप्तिः