मत्स्यपुराणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

अष्टादशसु महापुराणेषु चत्वारि पुराणानि प्राचीनतमानि सन्ति | तानि मत्स्य-ब्रह्माण्ड-वायु-विष्णुपुराणानि | महाप्रलयावसरे भगवान् श्री विष्णुः मत्स्यावतारं ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् | अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् | अस्मिन् पुराणे १५,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते |

[सम्पादयतु] अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति -

अस्मिन् पुराणे सप्तकल्पानां विवरणम् उपलभ्यते | मनुमत्स्ययोः संवादतः अस्य पुराणस्य आरम्भः भवति | नृसिंनवर्णनं, ब्रह्माण्डवर्णनं, देवतानाम् असुराणां च प्रादुर्भावः, मरुद्गणस्य आविर्भावः,पृथुराज्यस्य वर्णनं, वैवस्वतमनोः उत्पत्तिः, व्रतादीनां विवरणं, मन्दिरप्रासादादीनां निर्माणक्रमादयः अत्र वर्णिताः सन्ति | अस्य पुराणस्य प्रथमाध्याये भगवतः मत्स्यावतारविषयः विवृतः अस्ति | कश्चन राजा मनुः कदाचित् तपस्याचरणाय मलयदेशं गतवान् | 'प्रलयावसरे समस्तस्य जीवजगतः सत्त्वबिजस्य रक्षणे समर्थो भव' इत्येतं वरं प्राप्तवान् ब्रह्मणः सकाशात् | कदाचित् पितृतर्पणस्य दानावसरे तेन कश्चन लघुः मत्स्यः करतले दृष्टः | सः तं मत्स्यं जलद्रोण्यां अस्थापयत् | दिनाभ्यन्तरे मत्स्यः आद्रोणीं व्याप्य अतिष्ठत् | ततः मनुः मत्स्यं कूपे अपातयत्, ततः सरोवरे, ततः सागरे तं मत्स्यम् अस्थापयत् | सागरम् अपि अभिव्याप्य स्थितं मत्स्यं दृष्ट्वा आश्चर्यान्वितः मनुः अवदत् - 'भवान् अस्ति साक्षात् महाविष्णुः | अन्यथा इदम् असाध्यम् एव' इति | तदा मत्स्यरूपी भगवान् अवदत् - 'हे राजन् ! भवता युक्तम् उक्तम् | अचिरात् एव जलप्रलयतः भूमिः जले निमग्ना भविष्यति | (एतदेकार्णवं सर्वं करिष्यन्ति जगत् त्रयम् | - मत्स्यपुराणम् २।१०) | तदा वेदनावं भवतः समीपम् आगमिष्यति | समस्तस्य् जीवजगतः सत्त्वबिजस्य रक्ष्णं भवता कर्तव्यम्' इति | अग्रे सर्वं ततैव जातम् |


[सम्पादयतु] स्रोत



फलकम्:Hinduism-stub

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु