कूर्मपुराणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


कूर्मपुराणम्  
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः, भक्तिः
पृष्ठ ६००० श्लोकाः

कूर्मपुराणम् (Kurmapurana)अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् विष्णुः नारदम् उपदिष्टवान् इति श्रूयते | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति । समुद्रमथनकाले प्रचलित।विषयमथनमेव कूर्मपुराणं।कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चेति | पूर्वभागे ५३ अध्यायाः, उत्तरभागे ४६ अध्यायाः विद्यन्ते ।पूर्वभागे वराह,नरसिंह,वामन,व्यास,कृष्नावतारचर्तं निवेदयति।उत्तरार्धस्तु शिवचरित्रं,तीर्थमहिमां धर्मशास्त्रविषयान् निरूपयति।मूलतः कूर्मपुराणे चतस्रः संहिताः आसन् इति श्रूयते । ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च ।ब्राह्मीसंहितायां ६००० श्लोकाः, भागवतीसंहितायां ४००० श्लोकाः, सौरीसंहितायां २००० श्लोकाः, वैष्णवीसंहितायां ५००० श्लोकाः विद्यनते । अधुना उपलभ्यमानाः श्लोकाः ब्राह्मीसंहितायां विद्यमानाः ।भागवतीसंहिता वर्णाश्रमादिनियमान् ,सौरीसंहिता षट्कमविचारान्,वैष्णवीसंहिता मोक्षविषयान् निरूपयति।

अन्तर्विषयाः[सम्पादयतु]

प्रजापतीनाम् उगमः
वर्णाश्रमधर्मः
पुरुषार्थानां विवरणम्
महाभक्तानां गुणस्वभावव्यवहारादयः
जीवनस्य विभिन्नस्तराः
ब्रह्माण्डस्य हिरण्यगर्भस्य उगमः
कालस्य गणना
ईश्वरस्य महिमा
भुवनानां विवरणम्
ग्रहादीनां विवरणम्
नदीनां विवरणम्
मुक्तिमार्गः

केचन पुराणोक्तयः[सम्पादयतु]

१ अस्मिन् पुराणे पार्वत्याः सहस्रनाम उपलभ्यते | (अध्यायः - १२।६२-१९८)

शिवोमा परमा शक्तिरनन्ता निष्कलामला |
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ||६२||

२ पञ्चदशे अध्याये ब्रह्मा दक्षम् उपदिशति यत् यः विष्णुः सः एव रुद्रः सः ऐव जनार्दनः अस्ति | एवं यः अवगच्छति सः वेदोक्तम् अङ्गीकरोति इत्यतः मुक्तिं लभते इति -

मन्यन्ते ते जगद्योनिं विभिन्नं विष्णुमीश्वरात् ||८८||
मोहादवेद निष्ठत्वात्ते यान्ति नरकं नराः |
वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ||८९||
ऐकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते |
यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ||९०|| पूर्वभागः १।८८-९०

३ कूर्मपुराणस्य उत्तरभागे साङ्खययोगः विवृतः अस्ति -

यथा नदीनदा लोके सागरेणैकतां ययुः |
दद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ||३८||
तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संस्थितिः |
अज्ञानेनावृतं लोके विज्ञानं तेन मुह्यति ||३९||
विज्ञानं निर्मलं सूक्षं निर्विकल्पं तदव्ययम् |
अज्ञानमिततत्सर्वं विज्ञानमिति तन्मतम् ||४०||
एतद्धः कथितं साङ्ख्यं भाषितं ज्ञानमुत्तमम् |
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता |४१|| उत्तरभागः २।२।३८-४१

४ जैनमतस्य प्रथमतीर्थङ्करस्य ऋषभदेवस्य विषयः कूर्मपुराणे तत्र तत्र उल्लेखितः अस्ति -

हिमाह्वयं तु यद्वर्षं नाभेरासईन्महात्मनः |
तस्यर्षभोवत्पुत्रो मेरुदेव्यां महाद्युतिः ||३७||
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः |
सोभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ||३८|| पूर्वभागः १।४१।३७-४१

५ उत्तरभागस्य सप्तमे अध्याये शिवः स्वयम् आत्मनः महिमानं वर्णयति -

योगिनामस्म्यहं शम्भुः स्त्रीणां देवी गिरीन्द्रजा |
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ||४||
रुद्राणां शङ्कर्श्चाहं गरुडः पततामहम् |
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ||५|| २।७।४-७
"http://sa.wikipedia.org/w/index.php?title=कूर्मपुराणम्&oldid=271071" इत्यस्माद् पुनः प्राप्तिः