पद्मपुराणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पद्मपुराणम्  
150px
गीताप्रेस गोरखपुरस्य आवरणपृष्ठम्
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः भक्तिहः
प्रकार वैष्णवग्रन्थः
पृष्ठ ५५,००० श्लोकाः

अन्तर्विषयाः

[सम्पादयतु] स्रोत

पद्मपुराणम् (Padma Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | अस्मिन् पुराणे पञ्च खण्डाः सन्ति - सृष्टिखण्डः, भूमिखण्डः, स्वर्गखण्डः, पातालखण्डः, उत्तरखण्डः च | 'क्रियायोगसार'नामिका भक्तितत्तवनिरूपकः खिलभागः अपि अस्मिन् विद्यते |

[सम्पादयतु] एते विषयाः अस्मिन् पुराणे निरूपिताः सन्ति-

  • श्राद्धतत्त्वमीमांसा
  • चन्द्रवंशनिरूपणम्
  • पुष्करतीर्थमाहात्म्यम्
  • दुर्गाव्रतादिविषयाः
  • स्कन्दस्य जन्मविवाहादिविषयाः
  • पतिव्रतामाहात्म्यम्
  • शाकुन्तलकथा
  • रामकथा
  • राधाजन्माष्टमीपूजाफलम्
  • कार्त्तिकमासे दीपदानस्य फलम्

[सम्पादयतु] अन्तर्विषयाः

[सम्पादयतु] सृष्टिखण्डः

सृष्टिखण्डः भीष्म-पुलस्त्ययोः संवादरूपेण वर्तते | प्रसिद्धयात्रास्थलस्य पुष्करतीर्थस्य माहात्म्यम् अत्र वर्णितम् अस्ति |

[सम्पादयतु] भूमिखण्डः

अस्मिन् खण्डे भूमेः भौगोलिकं विवरणम् अस्ति | पृथोः ययातेः च कथानकं वर्तते | प्राज्ञाः वदन्ति यत् अत्र उपलभ्यमानानि भौगोलिकानि ऎतिहासिकानि च विवरणानि विश्वासयोग्यानि सन्ति इति |

[सम्पादयतु] स्वर्गखण्डः

स्वर्गखण्डे ब्रह्माण्डस्य उगमः विस्तृतरूपेण वर्णितः अस्ति | तीर्थक्षेत्राणां महत्त्वम् अत्र दर्शितम् अस्ति | जम्बूद्वीपस्य भौगोलिकविस्तारः लक्षणानि च स्पष्टतया अत्र निरूपितानि सन्ति |पर्वतनद्यादीनां विवरणम् अत्र प्राप्तुं शक्नुमः | प्राचीनकालीनभारतीयानां विषये अपि इतः वयं ज्ञातुं शक्नुमः |

[सम्पादयतु] पातालखण्डः

पातालखण्डे उग्रश्रवः ऋषिगणम् उद्दिश्य भगवतः विष्णोः अवतारिणः रामस्य कथाम् अवदत् |अस्मिन् भगवतः कृष्णस्य जीवनविषयः अपि उपवर्णितः अस्ति | षोडशाध्यायैः युक्तः अयं पातालखण्डः शिवगीतम् इत्यपि प्रसिद्धः अस्ति |

[सम्पादयतु] उत्तरखण्डः

उत्तरखण्डे शिवपार्वत्योः संवादः दृश्यते | विषयस्तु धर्मस्य मूलतत्त्वानि | अत्र विष्णुसहस्रनाम अपि विभिन्नप्रकारेण दत्तः अस्ति |

[सम्पादयतु] बाह्यसम्पर्कतन्तुः

"http://sa.wikipedia.org/w/index.php?title=पद्मपुराणम्&oldid=170204" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु