धर्मः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वेदकाले एव धर्मशब्दः विविधेषु अर्थेषु प्रयुक्तो दृश्यते । परन्तु स्थूलरुपेण प्रायः मानवानां विशिष्टानि कर्तव्यानि महत्त्वपूर्णानि दायित्वानि अथवा आचारणस्य सुनिश्चितानि नियमजातानि इत्येतादृशम् अर्थं धर्मशब्दः प्राधान्येन सूचयति इति वक्तुं शक्यते । सुविदितमेवैतद् विदुषां यद् श्रुतिषु ऋषिभिः प्रकटितं मन्तव्यम् एव कल्पसूत्र-स्मृति-पुराणादिग्रन्थेषु शास्त्रकारैः सभाष्यं विवेचितम् अस्ति ।

  • धर्मशब्दः 'धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते 'धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरुपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणां नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । पाश्चात्त्यानां रिलिजन्’ अथवा मुस्लीमानां 'मजहब' इति द्वौ अपि शब्दौ यथा कामपि केवलाम् उपासनापद्धतिं निर्दिशति तथा धर्मः कामपि केवलां विशिष्टाम् उपासनापद्धतिं वा विशिष्टं कर्मकाण्डं वा न द्योतयति, तथापि उभयोः अन्तर्भावः धर्मसंकल्पनायाम् अस्त्येव । धर्मम् उद्दिश्य निर्दिष्टे धारणा तथा कल्याणम् इत्युभे अपि संकल्पने बहु आयामसमन्विते स्तः । एवं धर्मः मानवस्य ऐहिकं आमुष्मिकं च कल्याणं विदधाति तथा व्यष्टेः विकासपुर्ः सरं समष्टेः कल्याणं साधयति । तथैव व्यष्टिः, समष्टिः, सृष्टिः, एवं परमेष्ठी इत्येषां मध्ये मिथः सम्बन्धं विशदयितुम् एकात्मदृष्टिं ददाति धर्मः । एवं बहुविध-कार्यकलापानां समुच्चयः नाम धर्मः इति स्पष्टं भवति । यथा हस्तिनः रुपं गतेषु अन्धेषु येन पादः,शुण्डा, कर्णः इत्यादिषु यः अवयवः स्पृष्टः तदाकारः एव हस्ती इति तेन उद्घोषितम् । पश्चात् दृष्टिवता केनापि स्पष्टीकृतं यद् एते सर्वे तस्य हस्तिनः केवलं विविधाः अवयवाः येषां साहाय्येन स विभिन्नानि कार्याणि सम्पादयति इति । तथैव सर्वसमावेशकः अस्माकम् एष धर्मः सृष्टेः कल्याणार्थं नानाविधानि कर्तव्यानि विदधाति इत्यवगन्तव्यम् ।

तत्र प्रथमं धर्मस्य उद्देशः तद्विषये च प्रमाणानां विचारं कृत्वा धर्मेण उपदिष्टानां विविधानां गुणानां विश्लेषणं कृत्वा को निष्कर्षः निष्पद्यते तदा द्रक्ष्यामः ।

  1. धर्मसारम्

विशेषधर्माः[सम्पादयतु]

  1. समाहधर्मः
  2. राजधर्मः

धर्मस्य उद्देशः[सम्पादयतु]

अथ धर्मस्य किं लक्ष्यं, धर्माद् वा किं प्राप्तव्यम् इति जिज्ञासायां निम्नवचनं समुपतिष्ठते –

यतोभ्युदयनिः श्रेयससिद्धिः स धर्मः इति वैशेषिकसूत्रम् । श्रीमद्- भगवतेऽपि उक्तम्-
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः ।
उभयत्र सुखोदर्कः इह चैव परत्र च ॥१२-२५९-४,५ ॥

एवम् ऐहिकः समुत्कर्षः तथा पारलौकिकं च कल्याणम् इति उभयविधं लक्ष्यं निर्दिष्टं शास्त्रकारैः । सामान्यतः प्रचलितेयं धारणा यत् केवलं परलोकस्य एव चिन्तां करोति धर्मः । परन्तु तन्न यथार्थम् । 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ इति उपदिशता मनुना अपि प्रथमं परिवारसम्बन्धीनि समाज सम्बन्धीनि च कर्तव्यानि यथाविधि निर्वह्य तदनन्तरं मोक्षविचारः अनुमतः । मोक्षविचारस्तु व्यक्तिनिष्ठकल्याणस्य विषयः । यावत्कालपर्यन्तं समाजस्य ऋणम् यथावत् न अपाक्रियते तावत्कालपर्यन्तं केवलं स्वस्यैव कल्याणसाधनं कथं श्रेयस्करं स्यात् ।

एकाम्बरेश्वरस्य देवालयः

अत्र भारतीयशास्त्रकाराणां विचारविधौ सन्तुलनं दृष्टिपथम् आयाति । न ते एकान्ततः प्रवृत्तिमार्गस्य प्रशंसकाः, न वा निवृत्तिमार्गस्य । प्रथमं प्रवृत्तिमार्गेण यथाविधि सुखानि उपभुज्य तथा समाजोत्कर्षार्थम् आत्मानं विनियोज्य पश्चात् परिणते वयसि अवयवेषु शिथिलीभूतेषु केवलंद् परमार्थचिन्तने ध्यानं केन्द्रिकर्तव्यम् इति समीचीनः पन्थाः । समाजस्य धारणा अनया प्रक्रियया सुचारुतया सम्पद्येत इत्यत्र न संशयः । व्यष्टिः समष्टिः इत्युभयोः कल्याणं साधयितुम् एव चतुर्णां वर्णानां चतुर्णां आश्रमाणां तथा चतुर्विधपुरुषार्थानांविधानं कृतं शास्त्रकारैः । वैदिकधर्मे उपदिष्टम् आश्रमाणां सोपानपरम्परया क्रमशः संन्यासग्रहणं जैन-बौद्ध-मतानुयायिनां नैव अभीष्ट्म्म् । उभौ अपि बाल्ये वयसि अपि वैराग्यमार्गम् उपदिशतः । वैधिकधर्मः यद्यपि सामान्यतः आश्रमाणां सोपानपरंपराम् उपदिशति तथापि असामान्यचरितस्य कृते तु बाल्ये वयस्यपि संन्यासम् अनुमोदते । श्रीमद्- आद्यशंकराचार्याः एव तत्र प्रमाणम् । परन्तु अपवादोऽयम् । सामान्यतः प्रवृत्तिनिवृत्तिमार्गयोः समन्वयः एव वैदिकधर्मस्य अभीष्टः । इहलोके भौतिकसुखेषु रममाणेन अपि परमात्मप्राप्तिरुपम् अन्तिमम् उद्दिष्ट्ं नैव विस्मर्तव्यम् । तेन सुखं भुञ्जानः अपि केवलं स्वस्यैव सुखस्य विचारम् अकृत्वा जनेषु अवस्थितं जनार्दनमपि कर्तव्यबुद्ध्या सेवेत इत्यासीत् मनीषा शास्त्र-काराणाम् । तदेव उक्तम् ईशा|ईशावास्योपनिषदि 'तेन त्यक्तेन भुञ्जीथाः’ इति ।

  • धर्मविषये प्रामाण्यविचारः

अथ धर्मं याथार्थ्येन अवगन्तुं प्रामाण्यविचारः आवश्यको भवति । तत्र निम्नवचनानि प्रामुख्येन समीक्षाम् अर्हन्ति –

  • चोदनालक्षणोऽर्थो धर्मः । जैमिनिसूत्र
  • वेदोऽखिलं धर्ममूलं स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च । मनु २-६

  • धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । मनु २-१३

एतेभ्यः सर्वेभ्यः वचनेभ्यः धर्माधर्मविनिर्णये कानि प्रमाणानि अनुसर्तव्यानि इत्यस्मिन् विषये मार्गदर्शनम् उपलभ्यते ।

शब्दप्रामाण्यम्[सम्पादयतु]

तत्र प्रथमं प्रमाणं भवति श्रुतिः नाम संहिता-ब्राह्मण आरण्यक –उपनिषदात्मको ग्रन्थसंभारः । धर्मस्य आधारभूतं श्रेष्ठं प्रमाणं वेदाः इति भारतीयशास्त्रकाराः मन्यन्ते । तत्पश्चात् वेदार्थं विशदयन्त्यः क्वचित् प्रसङ्गे तात्कालिकविशिष्टपरिस्थित्यां वेदाविरोधि मार्गान्तरं सूचयन्त्यः धर्मशास्त्रनाम्ना विश्रुताः स्मृतयः भवन्ति द्वितीयं प्रमाणम् ।

Renuka temple 2.JPG

आचारप्रामाण्यम्[सम्पादयतु]

सदाचारः भवति तृतीयं प्रमाणम् । ये सज्जनाः वेदानुयायिनः धर्मपरायणाः च ते यद् आचरणं कुर्वन्ति तद् विगतसंदेहधिया अनुसरणयोग्यम् इत्यत्र न कापि संशीतिः । सामान्यः मनुष्यः न श्रुतिस्मृत्योः अध्ययने समर्थः । सम्यक् ज्ञानाभावात् तेन किं कार्यम् । तत्रोक्तं सत्प्रवृत्तानाम् आचरणम् एव प्रमाणं मत्वा निः शंकम् अनुसर्तव्यम् । 'महाजनो येन गतः स पन्थाः’ इति सुभाषितं तु प्रसिद्धमेव । श्रीमद्-भगवद्गीतायामपि उक्तम् –‘यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति । तत्र मनुनापि उक्तम्- विद्वद्भिः सेवितः सद्भिः नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ मनु २-१

श्रीयन्त्रम्

अन्तःकरणप्रामाण्यम्[सम्पादयतु]

चतुर्थं प्रमाणं भवति 'आत्मनः तुष्टिः’ । अथा जीवने उत्पद्यमानस्य प्रत्येकस्य प्रश्नस्य समाधानं वेदे नैव अपेक्षितव्यम् । न वा महाजनः तस्य आचारः वा प्रत्येकस्मिन् समये मार्गदर्शनार्थम् उपलब्धौ भवितुम् शक्येते । एतादृशे अवसरे किं कार्यम् । तत्रोच्यते –यदि अस्माकं मनः धर्माचरणे संस्कारितं प्रशिक्षितं च तथैव न कदापि अधर्माचरणेन कलुषितं तर्हि संदेहसमये स्वस्य स्वाभाविकी प्रवृत्तिः एव प्रमाणीभवितुम् अर्हति । तत्र दृष्टान्तः एकः स्मरणसरणिम् आयाति । कालिदासविरचिते अभिज्ञानशाकुन्तलनाम्नि नाटके दुष्यन्तः शकुन्तलायाः लावण्यं वीक्ष्य तां प्रति आकृष्टो भवति । स चिन्तयति, एवं कालिदासः तच्चिन्तनस्य यथार्थतां नियमेन प्रमाणयति –

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥

दुष्यन्तः चिन्तयति- मम मनः श्रेष्ठसंस्कारैः संस्कारितम् अस्ति । यदि अहं शकुन्तलां प्रति आकृष्टोऽस्मि तर्हि कण्वाश्रमे स्थिता अपि सा निश्चितमेव क्षत्रियेण विवाहयोग्या अस्ति । तत्र न शङ्का कार्या । अन्यथा मम शुद्धान्तः करणं न तस्याः अभिलाषं कुर्यात् इति । द्रष्टव्यः खलु तस्य एष आत्मविश्वासः ।निष्पापं चरितं विशुद्धं च अन्तः करणम् इति द्वे वस्तुनी एतादृशे व्यवहारे समर्थे स्याताम् इति स्पष्टमेव ।

बुद्धिप्रामाण्यम्[सम्पादयतु]

तत्रोक्तं मनुना

प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ मनु १२-१०५ ॥

प्रत्यक्षम् अनुमानं च इति बुद्धिनिष्ठं प्रमाणद्वयम् । यद्यपि प्रायः धर्मविषये शास्त्रप्रामाण्यस्य माहात्म्यं प्रगीतं वर्तते तथापि प्रत्यक्षप्रमाणस्य महत्त्वम् अपि अनुमोदितं तिष्ठति । श्रीमद्-भगवद्गीतायाः भाष्ये पूज्यपादाः श्रीमद् आद्यशंकराचार्याः ब्रुवन्ति, 'नहि श्रुतिशतमपि वह्निः अनुष्णोऽप्रकाशो वेति ब्रुवत् प्रामाण्यमुपैति’ इति । अत्र इदमपि स्पष्टतया मनसि निधेयं यद् अस्माकं शास्त्रकाराः अन्धत्वेन शब्दप्रामाण्यं नैव उपदिशन्ति । युक्तिवादस्य बुद्धिप्रमाण्यस्य उपदेयता तैः निःशंकं स्वीक्रियते ।

धर्मस्य द्विविधं रुपं –परिवर्तनशीलं शाश्वतं च[सम्पादयतु]

सामान्यजनाः प्रायः धर्माचरणं नाम पूजापाठः उपोषणानि स्पृश्यास्पृश्यविचारः, तीर्थयात्रा, कुलाचाराः, यज्ञोपवीतं, शिखातिलकधारणम् इत्यादयः व्यवहाराः इति मन्यन्ते । यत्सत्यम् एतादृशाः आचाराः जीवने किमपि अनुशासनं निर्मातुं, सामान्यानां जीवने धर्मप्रवणतां प्रोत्साहयितुं, कर्मण्यतां च संरक्षितुं कर्मकाण्डरुपेण उपदिष्टाः भवन्ति । सर्वाणि इमानि कार्यजातानि धर्मस्य अथवा तत्तत्संप्रदायानां बाह्याङ्गानि इत्यवगन्तव्यम् । वस्तुतः धर्मेण उपदिष्टानि वचनानि प्रामुख्येन द्विप्रकारकाणि भवितुम् अर्हन्ति –परिवर्तन शीलानि तथा अपरिवर्तनशीलानि अथवा शाश्वतानि ।

धर्मस्य परिवर्तनशीलं स्वरुपम्[सम्पादयतु]

ये प्रधानतः तात्कालिकपरिस्थित्यनुसारम् उपदिष्टाः आचाराः ते कालानुरुपं परिवर्तनम् अपेक्षन्ते । यद् यद् नाम समाजधारणार्थम् आवश्यकं तत् तद् धर्मरुपेण स्वीकर्तुं न कोऽपि प्रत्यवायः विद्यते । परिस्थितिः तु नित्यपरिवर्तनशीला । अतः यस्मिन् समये यन्नाम मानवकल्याणकरं प्रतीयते तदेव धर्मस्वरुपं प्राप्नोति । दक्षिणापथे कटिवस्त्रं विहाय सर्वाणि वस्त्राणि उत्तार्थ भगवतः पूजा अनुष्ठीयते । उत्तरापथे हिमालये तु सर्वाणि वस्त्राणि परिधाय एव पूजा समाचर्यते । एवं धर्मस्य रुपमपि 'प्रत्येकस्मै’ तथा 'प्रत्येकस्मिन्’ स्थाने समानं नैव तिष्ठति । शिशिर-ऋतौ उष्णताप्रदायीनि वस्त्राणि परिधीयन्ते उष्णपेयानि च पीयन्ते । तथैव ग्रीष्म-ऋतौ सूक्ष्माणि वस्त्राणि तथा शीतपेयानि संसेव्यन्ते । यतः तदेव मानवस्वास्थ्याय उपकारकं वर्तते । उक्तं च- अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः । अथवा-

प्रात्रकर्मविशेषेण देशकालौ ह्यवेक्ष्य च ।
स एव धर्मः सोऽधर्मः धर्मो ह्यावस्थिकः स्मृतः ॥

सामान्यतः यः धर्मः इति गण्यते स एव पात्र-कर्म –देश-कालादीनां विचारे कृते अधर्मः भवितुम् अर्हति । यथा सामान्यतः सत्यभाषणं धर्मः । परन्तु गोपृष्ठतः अनुधावतः गोघातकस्य यवनस्य 'कुत्र गता गौः’ इति प्रश्नस्य सत्यम् अवलम्ब्य प्रदत्तम् उत्तरम् अधर्मपदवाच्यं स्यात् । आचारविषयेऽपि एतद् दृष्टिपथम् आयाति यत् स्थलकालानुसारं विभिन्नप्रदेशेषु विशिष्टाः आचाराः अनु-ष्ठीयन्ते । तथैव यस्मिन् देशे यः आचारः पारंपर्यक्रमागतः स सदाचारपदवीं प्राप्नोति । वङ्गप्रदेशे सनातनधर्मानुयायिनः प्रखरधर्मनिष्ठाः ब्राह्मणाः अपि मांसाशिनः सन्ति । मनुस्तु स्पष्टमेव आह-

न मांसभक्षणे दोषः न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ ५-५६ ॥

धर्मस्य शाश्वतं स्वरुपं नाम सामान्यधर्माः[सम्पादयतु]

परमार्थतः धर्मस्य यथार्थस्वरुपम् उन्नतं कमपि विचारं निर्दिशति । तत्र मानवप्रवृत्तीनाम् उन्नयनम् अभीष्टं वर्तते । एतादृशाः नियमाः वैशिष्ट्यनिरपेक्षं सर्वेषां सामान्यजनानां कृते उपदिष्टाः सन्ति । अतः ते सामान्यधर्माः इति नाम्ना विश्रुताः । एतानि एव भारतीयानां शाश्वतानि धर्मतत्त्वानि यानि जीवनमूल्यानि इति प्रथितानि ।

तत्र प्रथमं तावत् मनुः दशलक्षणात्मकं धर्मम् उपन्यस्यति । तद्यथा –

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥६-९२॥

मनोः अनेन दशलक्षणात्मकेन धर्मेण समानः एव उपदेशः जैनसम्प्रदायेऽपि प्राप्यते । जैनमतानुसारं दश धर्माः भवन्ति –

खंती मद्दव् अज्जव लाघव तव संजयो अकिंचणदा ।
ताइ होइ बम्हचेरं सच्चं चागो य दस धम्मा । । मूलाचार ७५२ ॥

क्षमा, मार्दवम्, आर्जवम्, नम्रता, तपः संयमः, अकिंचनत्वम्, ब्रह्मचर्यम्, सत्यम्, त्यागः इति भवन्ति एते द्श धर्माः ।

अस्माकं शास्त्रकाराः अपि मानवाः एव । अतः 'पिण्डे पिण्डे मतिर्भिन्ना’ इति न्यायेन ते ते शास्त्रकाराः कांश्चन गुणविशेषान् स्वप्रकृत्यनुसारं परिस्थित्याः वा विशेषतां विचिन्त्य महत्त्वसंयुतां कृत्वा निर्दिशन्ति । अत्र प्रथमं तत्र् तत्र निर्दिष्टानि वचनानि उदधृत्य पश्चात् तेषां गुणानां विश्लेषणात्मकं विवेचनं करिष्यामः । तत्र एकः शास्त्रकारः अष्टविधं धर्मं ब्रवीति । तद्यथा –

इज्याध्ययनदानानि धृतिः सत्यं क्षमा दया ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥
पुनः अपरः शास्त्रकारः षड्विधं धर्मं प्रस्तौति ।

तद्यथा –

पात्रे दानं मतिः कृष्णे मातपितत्रोश्च पूजनम् ।
श्रद्धा बलिर्गवां ग्रासः षड्विधं धर्मलक्षणम् ॥

कामन्दकस्तु ब्रूते-

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वर्णिनां लिङ्गिनाः चैव सामान्यो धर्म उच्यते ॥

तत्र याज्ञवल्क्यः आह- सत्यं दमस्तपः शौचं संतोषो हीः क्षमार्जवम् । ज्ञानं शमो दया ध्यानमेष धर्मः सनातनः ॥ श्रीमद-भगवते उक्तम् – अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ तत्र विष्णुधर्मसूत्रे उक्तम् – क्षमा सत्यं दमः शौचं दानमिन्द्रियनिग्रहः । अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् । अनभ्यसूया च तथा धर्मसामान्यमुच्यते ॥ तत्र मनुः पुनरपि धर्मसारम् इति कृत्वा पञ्च् धर्मान् निर्दिशति – अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥१०-६३ बौद्धधर्मस्य पञ्चशीलानि भवन्ति –अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं तथा मदत्यागः इति । सर्वे एतादृशाः गुणाः भगवता श्रीकृष्णेन श्रीमदभगवद्गीतायां दैवी-संपद्-नाम्ना उपवर्णिताः । तद्यथा – अभयं सत्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६-१ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६-२ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६-३ तथैव त्रयोदशे अध्याये ज्ञानलक्षणं वर्णयन् भगवान् श्रीकृष्णः आह – अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३-७ इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुः खदोषानुदर्शनम् ॥१३-८ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३-९ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३-१० अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३-११

अत्र आक्षेपोऽयं समुत्थाप्यते यद् एते प्रायः अधिकांशाः गुणाः प्रत्येकस्मिन् एव धर्मे सम्प्रदाये वा उपदिष्टाः सन्ति । 'सत्यं वद' इति तत्त्वं यथा हिन्दुधर्मे तथा अन्येषु धर्मेषु सम्प्रदायेषु वा प्रतिपादितम् अस्त्येव । तत्र का नाम हिन्दुधर्मस्य विशेषता, इति । तत्रोच्यते- अस्माकमेव एकाधिकारः एतेषु गुणेषु इति वयं न मन्यामहे । वस्तुतः मानवमात्रस्य कल्याणाय एते गुणाः आवश्यका एव । अतः अस्माभिः समानतया विदेशेषु अपि लोकानां कल्याणं काङ्क्षताम् अन्यधर्मावलम्बिनाम् अपि मनसि गुणानाम् एतेषाम् उपादेयता प्रादुर्भवितुम् अर्हति । तत्र नास्ति अस्माकं पक्षे काऽपि विप्रतिपत्तिः । एकस्यैव परमात्मनः सर्वे अंशाः इत्यस्ति हिन्दूनां सिद्धान्तः । स सुपुष्टः तिष्ठति । मानवानां मूलभूता एकात्मता एव अनेन सिध्यति । किन्तु अत्र अपरमपि एकं विश्लेषणं विचक्षणानां विदुषां ध्यानम् अर्हति । अस्माकं भारतराष्ट्रं प्राचीनतमम् । भारतीयैः सम्पूर्णे विश्वेऽस्मिन् भ्रमद्भिः प्राचीनसमये वन्याम् अर्धवन्यां वा अवस्थां भजमानान् तत्तत्प्रदेशेषु निवसतः जनान् स्वसांस्कृतिकमूल्यानि पाठितानि इति इतिहासस्य साक्षित्वेन लोकविश्रुतम् । अतः मौलिकरुपेण तानि मूल्यानि हिन्दुनामेव इति वक्तुं शक्यते । उदाहरणस्वरुपं भारतीयानाम् अहिंसासिद्धान्तः एव 'एकस्मिन् कपोले यदि कश्चन चपेटाघातं कुर्यात् तर्हि द्वितीयः कपोलः तस्य पुरतः उपस्थापयितव्यः ’ इति वक्तुं खिस्तं प्रेरयामास इति कोऽपि प्रत्याख्यातुं न पारयेत् । परन्तु अहो दुर्दैवं मानवजातेः यद् मूलतः असहिष्णुप्रवृत्तिभिः अन्यधर्मावलम्बिभिः एते सद्गुणाः विकृतित्वं प्रापिताः । तैः नैतिकमूल्यानां व्यवहारार्थं द्वौ निकषौ उपयुज्येते । एकः स्वबान्धवानां कृते, अपरः विधर्मीयाणां कृते । तदनुसारं मुसलमानाः अन्यधर्मावलम्बिभ्यः 'काफर' इति संज्ञां प्रदाय तेषां सर्वस्वलुण्ठनं, नानाप्रकारैः अत्याचारैः पीडनं पुण्यकारकं मन्यन्ते । तथैव खिस्तानुयायिनः अपि अन्यमतानुयायिनाम् उद्धारकामनया एव तान् स्वमते प्रवेशयितुं प्रलोभनच्छलकपटादीनां प्रयोगम् आक्षेपार्हं न मन्यन्ते । भारतीयाः मानवेषु एतादृशं भेदभावं नानुमोदन्ते ।कस्यापि उपासनापद्धतेः अनुयायिनः स्वमतानुसारेणा व्यवहरन्तः स्वर्गस्य अधिकारिणः भवितुम् अर्हन्ति इति मन्यन्ते । तत्र खिस्तमतानुयायिनः मुस्लीमाः वा स्वमतं नानुमन्वानः नरकं व्रजन्ति इति विश्वसन्ति इति न विस्मर्तव्यम् ।

Krishna declaring the end of Mahabharata War by blowing the Conch Shell.jpg

धर्मान्तर्गतानां गुणानां वर्गीकरणम्[सम्पादयतु]

अगणितधर्मग्रन्थेभ्यः निदर्शनस्वरुपं कतिपयान् चित्वा तेषु निर्दिष्टानां गुणानां यदि एका सूचिः क्रियेत् तर्हि स्थूलरुपेण ४५ गुणाः उपलभ्यन्ते । तत्र केचन विधिस्वरुपाः, केचन निषेधात्मकाः, केचन पुनः कर्मकाण्डस्वरुपाः इत्येवंविधं वर्गीकरणं कर्तुं शक्यते । विधिस्वरुपेषु गुणेषु अपि केचन परैः सह संबद्धाः, तथा केचन स्वस्यैव संस्कारार्थं कल्पिताः दृश्यन्ते । तदनुसारं ते अत्र उपन्यस्यन्ते ।

विधिस्वरुपाः –परैः सह सम्बद्धाः[सम्पादयतु]

क्षमा, दया, दानं, त्यागः (परोपकारः), मार्दवम् (आर्जवम्), आत्मौपम्यबुद्धिः, भूतप्रियहितेहा, समता (समदृष्टिः, समचित्तत्वम् इष्टानिष्टोपपत्तिषु ), संहतिः, सूनृता वाणी.

विधिस्वरुपाः[सम्पादयतु]

स्वस्यैव संस्कारार्थं कल्पिताः शमः (मनः संयमः), दमः (इन्द्रियनिग्रहः, इन्द्रियार्थेषु वैराग्यम्) द्वन्द्वातीतत्वं (निर्द्वन्द्वः) तितिक्षा (जनममृत्युजराव्याधिदुः खदोषानुदर्शनम् ), शान्तिः (सन्तोषः), ब्रह्मचर्यम्, धृतिः (धैर्यम्, स्थैर्यम्), विविक्तदेशसेवित्वम्, (अरतिर्जनसंसदि), शौचम्, सत्यम्, धीः विद्या, ज्ञानम्(अध्यात्मज्ञाननित्यत्वम्, तत्त्वज्ञानार्थदर्शनम्, ज्ञानयोगव्यवस्थितिः) विवेकः भक्तिः सत्त्वसंशुद्धिः उद्योगः, दक्षता, तेजः ह्रीः ।

निषेधात्मकाः[सम्पादयतु]

एतेषु प्रामुख्येन काम-क्रोध-लोभ-मोह-मद-मत्सराणां षड्ररिपूणां निग्रहः एव् निर्दिश्यते ।

  1. अकामः (अनासक्तिः, वासनाक्षयः, परदारविवर्जनम्, अनभिष्वङ्गः पुत्रदारगृहादिषु)
  2. अक्रोधः (अहिंसा, अपैशुन्यम्)
  3. निर्लोभः (लोभशून्यत्वम्, अलोलुप्त्वम्, अस्तेयम्)
  4. निर्मोहः (अचापलम्, निर्भयता, अभयम् )
  5. अप्रमत्तः (अनहंकारिता, नातिमानिता, अमानित्वम्, निर्दम्भता )
  6. निर्मात्सर्यम् (अनभ्यसूया, अद्रोहः)

कर्मकाण्डस्वरुपाः[सम्पादयतु]

स्वाध्यायः (अध्ययनम्), बलिहरणम्, गवां ग्रासः, यज्ञः (इज्या) तपः (ध्यानम्),गुरुशुश्रूषा (आचार्योपासनम्)मातापित्रोः पूजनम्, देवब्राह्मणपूजनम्, तीर्थानुसरणम्, आनृण्यम् । सर्वेषाम् एतेषां निरीक्षणेन इदं दृष्टिगोचरं भवति यत् सद्गुणानां परिपोषः दुर्गुणानां च् परिहारः इति भवति धर्मस्य सारः ।

धर्मेण समाजधारणार्थम् अनुसृता प्रक्रिया[सम्पादयतु]

विश्लेषणं पृथक्करणं वर्गीकरणम् इत्यादिः भवति अस्माकं शास्त्रकाराणां चिन्तनपद्धतिः । ते मनोव्यापारज्ञाः खलु । प्रथमं तैः मानवमानसे सत्त्वं, रजः, तमः इति तिस्रः प्रवृत्तयः प्रत्येकस्मिन् वर्तन्ते इति अन्वेषितम् । यस्मिन् या प्रवृत्तिः प्रबला तस्याः नाम्ना स निर्दिश्यते । यथा यस्मिन् सत्त्वप्रवृत्तिः प्रबला स सात्त्विकः इति अभिधीयते । किन्तु तेन अन्ये द्वे प्रवृत्ती तस्मिन् न विद्येते इति नैव वक्तुं शक्यते । सात्त्विकमनुष्ये अपि तमः प्रवृत्तिः अपि सुप्तरुपेण निवसत्येव । सर्वेऽपि सुखिनः सन्तु इति लक्ष्यं निश्चित्य शास्त्रकारैः विचारः प्रारब्धः । अथ सर्वः एव सुखं कामयते । अतः प्रत्येकेन स्वस्य सुखस्य प्राप्तेः प्रयासे अपरस्यापि सुखस्य चिन्ता कार्या इत्यावश्यकम् । अन्यथा अनवस्था प्रसज्येत । 'ईशावास्यमिदं सर्वम्’ इत्यनुसारं प्रत्येकस्मिन परमात्मनः अंशः विद्यते, अतः सर्वे मिथः बन्धुभावेन बद्धाः इति स्पष्टम् । अतः परैः सह भ्रातृभावेन वर्तितव्यम् इति भारतीयो विचारः युक्तियुक्तः प्रतिभाति । आत्मतत्त्वं भौतिकवादिनः नानुमोदन्ते । अतः शरीरसुखमेव प्रधानम् इति मन्यमानैः स्वस्य सुखम् उपेक्ष्य परेषाम् उन्नत्यर्थं किमर्थं प्रयतितव्यम् इत्यस्य प्रश्नस्य समाधानं कर्तुं ते न शक्नुवन्ति ।

भारतीयविचारानुसारं धर्मस्य द्विविधम् उद्दिष्टं भवति । व्यष्टेः उन्नतिः, तत्साकमेव समष्टेः कल्याणम् । येन समाजकल्याणम् अधिकाधिकं साधयेत् तदेव व्यष्टेः उत्कर्षस्य सार्थक्यम् । मनुष्यः स्वविकासं कामयमानः सदाचरणं करोति । किन्तु तस्य लक्ष्यं भवति समाजस्य कल्याणम् । येन समाजस्य कापि हानिः न स्यात् तथा वर्तितव्यम् इति भवति कार्याकार्यविनिर्णये निकषः । एतादृशः व्यवहारः एव नीतिमूल्यानि इति अभिधानं प्राप्नोति । अथ समाजजीवनस्य मूले मनुष्यः एव विद्यते इति निश्चित्य तं संस्कृर्तुं समाजधारणार्थं निर्मिते धर्मतत्त्वे तथाविधाः गुणाः उपदिष्टाः येषामाचरणेन स्वस्य उन्नत्यर्थं प्रयतमानः मानवः परैः साकं भ्रातृभावेन व्यवहरन् तेषामपि सुखार्थं प्रयतेत । उपरिनिर्दिष्टधर्मान्तर्गतगुणानाम् उपरि यदि दृष्टिक्षेपः क्रियेत् तर्हि शास्त्रकाराणां विचाराणां दिग्दर्शनं स्यात् ।

आत्मौपम्यबुद्धिना सर्वभूतहिते रतत्वं मनसि निधाय स्वस्य दयाप्रेरितेन मृदुव्यवहारेण तथा परेभ्यः त्यागपूर्वकं दानादिना उपकारः कर्तव्यः, तस्य दोषाः क्षन्तव्याः, स्वस्य मधुरया गिरा एवं समदृष्ट्या सर्वेऽपि जनाः भेदनिर्विशेषं सेवितव्याः इति भवति प्रथमो विचारः । मानवानां मिथः आत्मीयतासनाथेन सौहार्दपूर्णेन व्यवहारेण एव समष्टेः कल्याणं प्रसिध्येत् इति तु स्पष्टमेव । एतादृशीं दृष्टिं निर्मातुं प्रत्येकेन स्वमनः प्रवृत्तिम् अपि संस्कारयितुं प्रयत्नाः विधेयाः इति तु स्वयंस्पष्टम् । अतः आत्मचिन्तनम्, इन्द्रियनिग्रहः, मनः संयमः, ब्रह्मचर्यपालनम्, शौचम्, सत्यनिष्ठा इत्यादयः गुणाः उपदिष्टाः । व्यष्टेः विकासं साधयन्ति एते गुणाः । तदर्थं तमोगुणप्रचोदितानां कामक्रोधलोभमोहमदमत्सराणां षड्रिपूणाम् उपरि विजयम् अवाप्तुम् अग्रेसरीभवितव्यम् इति तु स्वाभाविकी अपेक्षा । एते रिपवः प्रबलाः दुर्जेयाश्च । अतः एभ्यः मुक्तिः एव मोक्षः इति प्रतिपाद्य तदेव अन्तिमं लक्ष्यं मनुजजन्मनः इति उद्घोषितं शास्त्रकारैः । उपरिनिर्दिष्टगुणान् संप्राप्तुं साहाय्यकरं कर्मकाण्डम अपि उपदिष्टम् । स्वाध्यायः, देवतार्चनम्, यागादीनाम् अनुष्ठानम्, मातापित्रोः तथा आचार्यस्य पूजनम्, बलिहरणं गवां ग्रासः, अतिथिसत्कारः तीर्थयात्रा इत्यादयः उपायाः तदर्थं निर्दिष्टाः । एतद्विधेन धर्माचरणेन समाजधारणम् अवश्यमेव सुकरं स्याद् इत्यत्र न संशयलेशोऽपि ।

(७) केषांचित् प्रमुखगुणानां विशेषविचारः उपरिनिर्दिष्टानां धर्मान्तर्गतानां सर्वेषां गुणानां सविस्तरं विवेचनं नैव शक्यं नापि आवश्यकम् । तथापि उदाहरणस्वरुपं मनुना सामासिकधर्मरुपेण निर्दिष्टानाम 'अहिंसा, -सत्यम्, - अस्तेयम्- शौचम्-इन्द्रियनिग्रहः –इति पञ्चप्रमुखगुणानां विश्लेषणपूर्वकः विचारः पर्याप्तः स्यात् इति प्रतिभाति ।

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयम्
  4. शौचम्
  5. इन्द्रियनिग्रहः

तारतम्यविचारः[सम्पादयतु]

जीवनमूल्यभूताः एते सर्वे गुणाः निः संदेहम् आदर्शरुपेण उपदिष्टाः । परन्तु एते सर्वे साधनरुपाः, न साध्यरुपाः । साध्यं तु भवति 'सर्वभूतहितम्’ । अतः कुत्रचित् स्थल-काल-पात्रादीनां साधकबाधकविचारं कृत्वा तारतम्येन तेषां क्रियान्वयनं कर्तव्यं स्यात् ।

यथा समदृष्टिः नाम सर्वश्रेष्ठः गुणः इति उपवर्णितम् । 'समः सर्वेषु भूतेषु’ इति भवति सिद्धस्य लक्षणम् । परन्तु पात्रापात्रविचारम् अकृत्वा दानं किं प्रशस्यते ? स्वयं श्रीभगवता उक्तम्-

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् । भ.गी. १७-२० एवं पात्रापात्रविचारे समदृष्टिः न प्रयुज्यते

(ख) श्रीमदभगवद्गीतायामेव उक्तम्-

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ॥ १६-२१ ॥

परन्तु गीतायामेव अन्यत्र उक्तम्-

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७-११॥

इति अनेन धर्मेण विरुद्धः कामः एव नरकद्वारम् इति स्थितम् । मनुरपि ब्रूते परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । ४-१७६ यदि कामं परित्यज्य सर्वे ब्रह्मचर्यं स्वीकुर्युः तर्हि सृष्टिः एव विलयं यायात् ।

क्रोधम् अधिकृत्य कविः भारवी किरातार्जुनीये ब्रूते- अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः । स्वस्य अपमानानन्तरम अपि यः न क्रुध्यति तस्य पुरुषस्य विद्वेषः मैत्री च सममेव । माधकाव्ये द्रौपदी ब्रूते –

पादाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेवापमानेऽपि देहिनस्तद वरं रजः ॥ इति ।

क्षात्रधर्मं विचार्य महाभारतेऽपि उक्तम् (१-३२-३३)-

एतावानेव पुरुषो यदमर्षि यदक्षमी ।
क्षमावान् निरमर्षश्च नैव स्त्री न पुनः पुमान् ॥

वस्तुतः विभिन्नपरिस्थित्यां विभिन्नवचनानां मार्गदर्शनं विवेकबुद्ध्या तारतम्येन ग्रहीतव्यम् । अतः आपाततः परस्परविरोधीनि वचनानि उपलभ्यन्ते । तत्र महाभारते एव उक्तम्(५-३८-७३)-

अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत् ।
जयेत् कदर्थं दानेन जयेत् सत्येन चानृतम् ॥

परन्तु साधूनां परित्राणं दुष्कृतां च विनाशं समर्थयद्भिः शास्त्रकारैः कदापि अन्यायः तूष्णीं सोढव्य इति नैव उपदिष्टम् । तत्रोक्तं महाभारते-

यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः ॥

किरातार्जुनीयेऽपि उक्तम्-

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।

एवं 'शठे शाठ्यं समाचरेत्’ इति वचनस्य यथार्थता सिध्यति ।

लोभम् अधिकृत्य अपि अयमेव न्यायः प्रयोज्यः । निर्लोभी संन्यासी अपि मोक्षं कामयते एव । स्थलकालानुसारं धर्मस्य अर्थः प्रभावितो भवति इति अस्माभिः दृष्टमेव । तत्र युगानुसारम् अपि धर्मः भिद्यते । तत्रोक्तं मनुना

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नृणां युगह्रासानुरुपतः ॥१-८५॥

महाभारतकारैः 'सूक्ष्मा गतिर्हि धर्मस्य' (अनु १२-७०) इति सम्यक् ज्ञात्वा प्राचीनकाले कठिनप्रसङ्गे महापुरुषैः किंविधः व्यवहारः कृतः इति विशदीकर्तुमेव नानाख्यानानि संगृहीतानि ।

अत्र तारतम्यसन्दर्भे द्वौ दृष्टान्तौ[सम्पादयतु]

  1. सर्वं नारायणस्वरुपम् इति प्रवचनाभ्यन्तरे श्रुत्वा कश्चित् श्रोता मार्गे मदान्धं गजं पुरतः आगच्छन्तं दृष्टवापि त्तथा गजारुढस्य हस्तिपकस्य् 'दूरमपसर' इत्याक्रोशं श्रुत्वापि 'अयं गजः अपि नारायण्स्वरुपः एव, अतः किमर्थं मया पलायितव्यम्’ इति विचिन्त्य तत्रैव मार्गे अविचलः अतिष्ठत् । परिणामतः गजेन स्वस्य शुण्डादण्डेन स दूरतः उत्क्षिप्तः । परस्मिन् दिने प्रवचनकारेण स पृष्टः यत् हस्तिपकः अपि किं नारायणस्वरुपः नासीत् ? तस्य आदेशे त्वया किमर्थम् अवधानं न दत्तम् इति ।
  2. अपरस्मिन् दृष्टान्ते जगतः मिथ्यात्वं प्रवचने आकर्ण्य कश्चित् श्रोता उन्मत्तं हस्तिनं पुरतः आगच्छन्तं वीक्ष्य पलायनमकरोत् । तस्य मित्रेण पृष्टम्-यदि इदं सकलं जगत् मिथ्या मन्यसे तर्हि मिथ्यास्वरुपस्य हस्तिनः समक्षं किमर्थं त्वया पलायनं कृतम् इति । तेन प्रत्युत्तरं दत्तं यद् यथा स हस्ती मिथ्या आसीत् तथा मम पलायनम् अपि मिथ्या इति जानीहि इति ।

संक्षेपेण कस्यापि वचनस्य अर्थः शब्दशः निर्बुद्धतया न अवगन्तव्यः अपि तु प्रतिपादयितुः हेतुं सम्यग् आकलय्य तारतम्यबुद्धया तात्पर्यार्थः ग्रहणीयः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=धर्मः&oldid=268255" इत्यस्माद् पुनः प्राप्तिः