वेदाङ्गम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(वेदाङ्गानि इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

उपक्रमः - "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" । इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥ "शिक्षा कल्पो व्याकरणं निरुक्तं छन्द्सां चयः । ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥ इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते । एतेन तेषां पुरातनत्वं सिद्ध्यति ॥ अङ्गमित्यस्य पदस्य व्युत्पत्तिः "अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरुहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव-" षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः । अतः एकैकं परिशीलयामः ॥

शिक्षा[सम्पादयतु]

यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते तथैव उच्चारणप्रयोजनायैव शिक्षायाः उपयोगो भवति । वेदानां वैदिकसाहित्यानां वा अध्ययन - अध्यापन-विषयविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वर-वर्णाद्युच्चारणानि केन प्रकारेण कर्तव्यानि इत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायाम् उक्तम्-"स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति । वेदभाषाप्रयोगावसरे शुद्धमुच्चारणं स्वरप्रक्रिया च युक्ता काम्यते । अशुद्धोच्चारणयुक्तो भ्रष्टस्वरवेदपाठो महत् दुष्फलं जनयति । यज्ञयागोपासनादिसदृशं यत् कार्यम् इष्टलाभाय क्रियते, तस्मात् इष्टलाभो न कदापि अशुद्धेन उच्चारणेन सञ्जायते । श्रूयते यत्पुरा "इन्द्रशत्रुर्वर्धस्व" इत्येतन्मन्त्रस्य अशुद्धोच्चारणं कृतम् अभूत् । तेन च यजमानं प्रति तदनिष्टकारकम् असिद्ध्यत । पाणिनीयशिक्षायाम् उक्तञ्च- " मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयक्तो न तमर्थमाह । स वागवज्रो यजमानं हिनस्ति यथेन्द्र्शत्रुः स्वरतोपराधात्"॥ इति वेदोच्चारणस्य युक्ततायै स्वरज्ञानम् अपेक्ष्यते । स्वरः उदात्त-अनुदात्त-स्वरितभेदेन त्रिधा ॥ वेदेषु शुद्धोच्चारणं वाञ्छितं भवति । शिक्षा शुद्धोच्चारणं समुपदिशति । एतस्मादेव षट्सु वेदाङ्गेषु शिक्षाङ्गस्य मूर्धन्यत्वम् आम्नातम् । शिक्षायाः अभिमतो विषयः प्रातिशाख्येषु दृश्यते । शिक्षाशास्त्रस्य इतिहासः पुरातनतरः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशत्-शिक्षापुस्तकानां सङ्ग्रह अवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखासु आत्मानं सम्बध्नन्ति । साम्प्रतं सम्प्राप्ता पाणिनीयशिक्षा सीत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीयशिक्षा, ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते ॥

निरुक्तम्[सम्पादयतु]

"निरुच्यते, निश्शेषेण उपदिश्यते, तत्तदर्थावबोधनाय पदजातं यत्र तन्निरुक्तम्" इति कथ्यते । निरुक्तस्य अस्य विषयः वैदिकपदानां व्युत्पादनम् । तत् दुरुहपदानाम् अर्थावबोधनाय वैदिकव्याख्यानाय च विरचितमभूत् । भाषाशास्त्रदृष्ट्या निरुक्तम् अनुपमं रत्नम् । यास्कस्य निरुक्ते द्वादशनिरुक्तकाराणां मतानि निर्दिष्टानि प्राप्यन्ते। साम्प्रतं तु इदं यास्कविरचितं निरुक्तमेव निरुक्ताख्यस्य वेदाङ्गस्य प्रतिनिधित्वं करोति । यास्कः पाणिनेः प्राचीनतरः । निरुक्तप्रतिपादिताः विषयाः अधस्थितेन श्लोकेन उपस्थाप्यन्ते "वर्णागमौ वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्"॥

व्याकरणम्[सम्पादयतु]

वेदानां रक्षकत्वात् वेदार्थावबोधने सहायकत्वात् प्रकृति-प्रत्यय-उपदेशपुरः स्ररपदस्वरुपप्रतिष्ठापकत्वात् अर्थनिर्णय-साधनेषु अन्यतमत्वात् च व्याकरणं नाम अङ्गं नितान्तमेव महनीयं श्रेष्ठं च । व्याकरण्स्य व्युत्पत्तिः तु "व्याक्रियन्ते शब्दाः अनेन इति व्याकरणम्" इति । व्याकरणं वेदस्य मुखत्वेन स्मृतम् । व्याकरणशास्त्रं नितरां प्राचीनमस्ति । गोपथब्राह्मणे व्याकरणविषयाः निर्दिष्टाः सन्ति । पुरा अनेकव्याकरणकर्तारः आचार्याः बभूवुः । तत्र आपिश्लि-शाकटायनादीनां व्याकरणकर्तॄणाम् उल्लेखः कृतो वाप्यते । परं साम्प्रतं तु पाणिनीयं व्याकरणं प्राप्यते । तत्कृतो ग्रन्थः अष्टाध्यायी सर्वासु लसितो भूत्वा विभाति । यादृशं हि सुललितं देववाण्याः शास्त्रीयं विभाजनं तत्र् दृश्यते नान्यत्र तादृशं विलोक्यते । तत्र लौकिकं वैदिकम् उभयविधमपि व्याकरणमाम्नातम् ॥

छन्दः[सम्पादयतु]

वेदाः सन्ति छन्दोबद्धाः । अतस्तषापुच्चाफ़णनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम् । विना छन्दोज्ञानं यो वेदाध्ययनयजनयाजनादिकर्माणि करोति तस्य तानि सर्वाणि कार्याणि न भवन्ति फलितानि । छन्दः इत्येतस्य पदस्य व्युत्पत्तिः -"छन्दयति प्रीणाति इति वा, छन्दयति अह्लादयति इति वा छन्दः" इति। "छन्दांसि छादनात्" इति यास्ककथनतः वेदार्थवाचकं छन्दःपदं "छ्द् छादने" इति धातोः निष्पन्नम् । प्रधानेषु वैदिकेषु छन्दस्सु इमानि गण्यन्ते-गायत्री उष्णिक्-अनुष्टुप्-बृहती-पङिक्त-त्रिष्टुप्-जगति-अतिजगति-शक्वरी-प्रभृतयः ॥

कल्पः[सम्पादयतु]

वेदविहितानां कर्मणां क्रमपूर्वकं विधानं कल्पशास्त्रे कल्पितम् । उक्तञ्च- ‘कल्पे वेदविहितानां कर्मणाम् आनुपूर्व्येण कल्पनाशास्त्रम्’ इति।

कल्पसूत्राणि सन्ति चतुर्विधानि । श्रौतसूत्रं, गृह्यसूत्रं, धर्मसूत्रं, शुल्बसूत्रञ्चेति । श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौताग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते । गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्काराणां विस्तृतं विवरणं प्रस्तुतं विद्यते । धर्मसूत्रे चतुर्णां वर्णानाम् आश्रमाणां च कर्तव्यानि निर्दिष्टानि सन्ति । चतुर्थं शुल्बसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति ।

धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयः महत्त्वशाली । ऋग्वेदस्य आश्वलायनं शाङ्खायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । गृह्यसूत्रे च तदीये आश्वलायनं शाङ्खायनं च स्तः । शुक्लयजुर्वेदे श्रौतसूत्रम् एकमेव, तदस्ति कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि बोधायन-आपस्तम्ब-हिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बोधायनगृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अर्णयं कल्पसूत्रं प्राचीनतमम् । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशाखीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं, किञ्च तदीयं गृह्यसूत्रं कौशीसंज्ञकं वेद्यम् ।

धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बोधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥

ज्योतिषम्[सम्पादयतु]

इदं कालविज्ञापकं शास्त्रम् । मुहूर्तं शोधयित्वा क्रियमाणाः यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते नान्यथा । तन्मुहूर्तज्ञानं च ज्योतिषाश्रितम् । अतोस्य ज्योतिश्शास्त्रस्य वेदाङ्गत्वं स्वीकृतम्। उक्तश्चायमर्थः आर्चज्योतिषे यथा -

"वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेदयज्ञान्"॥

इति ॥ चतुर्णामपि वेदानां पृथक पृथक् ज्योतिषशास्त्रम् आसीत् । तेषु सामवेदस्य ज्योतिषशास्त्रं नोपलभ्यते, त्रयाणाम् इतरेषां वेदानां ज्योतिषाणि अवाप्यन्ते । ऋग्वेदस्य ज्योतिषम् आर्चज्योतिषं षट्त्रिंशत्पद्यात्मकं, यजुर्वेदस्य ज्योतिषं याजुषज्योतिषम् ऊनचत्वारिंशत् पद्यात्मकम्, अथर्ववेदस्य ज्योतिषम् आथर्वणज्योतिषं द्विषष्ट्युत्तरशतपद्यात्मकम्- एतेषां त्रयाणामपि ज्योतिषां प्रणेता लग्धो नामाचार्यः । तत्र याजुषज्योतिषस्य प्रामाणिकं भाष्यद्वयमपि प्राप्यते । एकं सोमाकरविरचितं प्राचीनं द्वितीयं सुधाकरद्विवेदिकृतं नवीनम् । तदिदं शास्त्रं त्रिस्कन्धमुच्यते । तदुक्तम् -

सिद्धान्तसंहिताहोरा-रुपं स्कन्धत्र्यात्मकम् ।
वेदस्य निर्मलं चक्षुः ज्योतिश्शास्त्रमनुत्तमम्"॥ इति
एतत्प्रवर्तकाः अष्टादशमहर्षयः । ते च -
"सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः
कश्यपो नारदो गर्गो मरीचिर्मनुरङिगराः ।
लोमशः कुलिशश्चैव च्यवनो यवनो भृगुः
शैब्यकोऽष्टादशश्चैते ज्योतिश्शास्त्रप्रवर्तकाः"॥

आर्यभटस्य आर्यभटीयम्, वराहमिहिरस्य पञ्चसिद्धान्तिका-होरा-लघुजातकञ्च ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्तः, भोजदेवस्य राजमृगाङ्गकरणम् । भास्कराचार्यस्य सिद्धान्तशिरोमणिः करणकुतूहलश्च अत्रत्याः केचिद् ग्रन्थाः॥ एतदतिरिक्ताः अपि लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रं, भृगुसंहिता, प्रश्नमार्गः, कृष्णीयम्, सारावलिः, होरारत्नम् इत्यादि-ग्रन्थाः उपलभ्यन्ते । केरलमतप्रतिपादकाः ग्रन्थाः प्रश्नग्रन्थान्तराणि ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषकाः एव ॥


वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-

"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः ॥"
एवं साङ्गवेदज्ञानम् एव पूर्णत्वं पूज्यत्वं च ददाति ॥

व्याकरणं वेदस्य मुखं इतिवत् ज्योतिषं वेदस्य चक्षुः इति स्तूयते।

"http://sa.wikipedia.org/w/index.php?title=वेदाङ्गम्&oldid=283647" इत्यस्माद् पुनः प्राप्तिः