कल्पः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ब्राह्मणकाले यागस्य तावान् प्रचारो जातो यत्तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानामावश्यकताऽनुभूयते स्म, तामेवावश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । कल्पसूत्राणि द्विविधानि श्रौतसूत्राणि स्मार्तसूत्राणि च । श्रुत्युक्तयागविधिप्रकाशकानि श्रौतसूत्राणि । स्मार्त्तसूत्राण्यपि द्विधा- गृह्य् सूत्राणि धर्मसूत्राणि च ।

श्रौतसूत्रेषु अग्नित्रयाधानम्, अग्निहोत्रम्, दर्शपूर्णमासौ, पशुयागः, नानाविधाः सोमयागाश्चेति विषयाः समुपपादिताः । गृह्यसूत्रेषु तेषामनुष्ठानाचारयागानां वर्णनं विद्यते येषां सम्पादनं त्रैवर्णिकैरवश्यं कर्त्तव्यम् । षोडाशसंस्काराणां विशिष्टं वर्णनमपि गृह्यसूत्रेषु कृतं बोध्यम् । धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञां च कर्त्तव्यचयाः चत्वारो वर्णाः, चत्वार आश्रमाः, तेषां धर्माः पूर्णतया निरुपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त ।

शुल्बसूत्रमपि कल्पसूत्रमेव, तत् श्रौतसूत्रान्तर्गतम् । शुल्बं मापक्रिया । इदं सूत्रमेव भारतीयज्यामितिशास्त्रस्य प्रवर्त्तकम् । पाश्चात्त्यैः ‘पिथागोरस्’ –प्रभृतिभिरिदं ज्यामितिशास्त्रं प्रणीतमिति ये कल्पयन्ति , ते शुल्बसूत्रं दृष्ट्वा दृढीकुर्वन्तु यदिद्ं ज्यामितिशास्त्रं भारतीयैः पाश्चात्त्यज्यामितिशास्त्रोत्पत्तेर्बहुदिवसपूर्वमेव प्रकटीकृतमिति । कल्पसूत्राणि तत्तद्वेदसम्बन्धनिबन्धनभेदयुतानि । तत्र –

  • ऋग्वेदस्य कल्पसूत्रम् –आश्वालायनं शाङ्खायनञ्च । अनयोरुभयोरपि कल्पसूत्रयोः श्रौतसूत्रं गृह्यसूत्रं च सम्मिलितं विद्यते । शुक्लयजुर्वेदस्य कल्पसूत्रम्, कात्यायनश्रौतसूत्रम्, पारस्करगृह्यसूत्रम्, पारस्करगृह्यसूत्रम्, कात्यायनशुल्बसूत्रञ्च ।
  • कृष्णयजुर्वेदस्य कल्पसूत्रम्-बौधायनसूत्रम् आपस्तम्बसूत्रञ्च । अनयोः कल्पसूत्रयोः श्रौतगृह्यधर्मशुल्बसूत्राणिसर्वाण्यपि सन्तीति ग्रन्थाविमौ पूर्णरुपौ
  • सामवेदस्य कल्पशूत्रम्- लाट्यायनश्रौतसूत्रम्, द्राह्यायणञ्च । धैमिनीयशाखायाः श्रौतव्सत्रं, जैमिनिगृह्यमूत्रम्, गोभिलगृह्यसूत्रम्, स्वादिरगृह्यसूत्रञ्च सामवेदे एव आर्षेयकल्पस्यापि गणना भवति, अयमेव कल्पो मशककल्प सूत्रनाम्नाऽपि प्रथते । सूत्रमिदं लाट्यायनश्रौतसूत्रात्प्राचीनं मन्यते ।
  • अथर्ववेदस्य कल्पसूत्रम्- वेतानश्रौतसूत्रम्, कौशिकसूत्रञ्च । वैतानसूत्रं नातिप्राचीनम्, कौशिकसूत्रञ्चाभिचारक्रियावर्णनपरम् ।


वेदविहितानां कर्मणां क्रमपूर्वकं विधानं कल्पशास्त्रे कल्पितम् । उक्तञ्च- ‘कल्पे वेदविहितानां कर्मणाम् आनुपूर्व्येण कल्पनाशास्त्रम्’ इति। कल्पसूत्राणि सन्ति चतुर्विधानि । श्रौतसूत्रं, गृह्यसूत्रं, धर्मसूत्रं, शुल्बसूत्रञ्चेति । श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौताग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते । गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्कारणां विस्तृतं विवरणं प्रस्तुतं विद्यते । धर्मसूत्रे चतुर्णां वर्णानाम् आश्रमाणां च कर्तव्यानि निर्दिष्टानि सन्ति । चतुर्थं शुल्बसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयः महत्त्वशाली । ऋग्वेदस्य आश्वलायनं शाङ्खायनञ्च इत्येते द्वे श्रौतसूत्रे स्तः । गृह्यसूत्रे च तदीये आश्वलायनं शाङ्खायनं च स्तः । शुक्लयजुर्वेदे श्रौतसूत्रम् एकमेव, तदस्ति कात्यायनश्रौतसूत्रम् । कृष्णयजुर्वेदसम्बद्धानि श्रौतसूत्राणि बौधायन-आपस्तम्ब-हिरण्यकेशि-वैखानस-भारद्वाज-मानवनामधेयानि सन्ति । एतस्मिन् वेदे बौधायनगृह्यसूत्रमपि सुलभमस्ति । सामवेदीयकल्पसूत्रेषु अर्णयं कल्पसूत्रं प्राचीनतमम् । वेदस्यास्य मुख्यं गृह्यसूत्रं कौथुमशाखीयं गोभिलगृह्यसूत्रं सुविदितम् । अथर्ववेदस्य श्रौतसूत्रं वैताननामकं, किञ्च तदीयं गृह्यसूत्रं कौशीसंज्ञकं वेद्यम् । धर्मसूत्राणि कल्पस्य गौरवमयानि अङ्गानि सन्ति । परं न साम्प्रतं प्रतिशाखायाः धर्मसूत्राणि लभ्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, आश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तं, नित्यनैमित्तिकं कर्म इत्येते अन्ये च अनेके विषयाः वर्णिताः सन्ति । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते । गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्य-कुमारिल-शङ्कराचार्य-मेधादयः प्राप्यन्ते । बौधायनोपि धर्मसूत्रस्य प्राचीनतमाचार्यो इति मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति ॥

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कल्पः&oldid=269442" इत्यस्माद् पुनः प्राप्तिः