पुंसवनसंस्कारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पुंसवनसंस्काराङ्गतया सज्जीकृताः पदार्थाः
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वसम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति । अत्र विभिन्नदेवानां प्रार्थना भवति । यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत् । अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम् । येन कर्मणा पुमान् सूयते तत् पुंसवनम् । गर्भाधानस्य द्वितीये तृतीये वा मासि पुष्यानक्षत्रयुक्तायां तिथौ पुंसवनकर्म क्रियते । पुत्रजनननिमित्तं संस्कारः क्रियते । होमः औषधिसेवनञ्च परिपाल्यते ।

परिचयः[सम्पादयतु]

पुंसवनं प्राग्जन्मसंस्कारो वर्तते । गर्भं गर्भिणीं च उद्दिश्य प्राग्जन्मसंस्कारणाम् अनुष्ठानम् अतीव महत्त्वपूर्णमस्ति । जन्मतः प्राक् सम्पाद्यमानेषु संस्कारेषु अन्तर्गता नैके नियमा धर्मशास्त्रग्रन्थेषु उल्लिखिताः । एतदतिरिच्य स्त्रीपुंसोः कर्तव्यानां धर्माणाञ्च विवेचनमप्युपलभ्यते । एतानि कर्तव्यानि धर्माः च त्रिधा विभक्तुं शक्यन्ते । प्रथमवर्गे गर्भिणीस्त्रीणां याभिः अशुभशक्तिभिः अमङ्गलम् भवेत् तेषां विषये विद्यते । द्वितीयवर्गः तान् नियमान् उपवर्णयति यैः नियमैः गर्भिण्या अत्यधिकश्रमो निषिध्दः । तृतीये च वर्गे ते नियमाः सन्ति यैः गर्भिण्या मानसिक-शारीरकस्वास्थ्यस्य रक्षणं क्रियते ।

तत्र पुंसः सवनम् पुंसवनम् । प्राग्जन्मसंस्कारोऽयं गर्भाधानात् अनन्तरकालिकं कर्म वर्तते । अस्य संस्कारस्य नामकरणे हेतुरयं यदस्य सम्पादनेन पुत्रोत्पत्तिः इष्यते । पुमान् प्रसूयते येन कर्मणा तत् पुंसवनमिति व्युत्पत्त्या शौनकः – 'पुमान् प्रसूयते येन तत् पुंसवनमीरितम्' इत्याह । गर्भस्य पुंरूपताया आपादकः संस्कारविशेष एव पुंसवनमित्युच्यते । अवसरेऽस्मिन् उच्चार्यमाणा ऋचः पुत्रजन्मैव अनुमोदयन्त्यो लक्ष्यन्ते –

पुमांसं पुत्रं जनय तं पुमाननु जायताम् ।
              भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥
यानि भद्राणि बीजान्यृषभा जनयन्ति च ।
                तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥

ऋग्वेदे पुत्रकामना भूयो भूयः समुपलभ्यते । अधोलिखिता ऋचा पुंसवनकर्म स्पष्टं निर्दिशति –

आ ते गर्भो गर्भ योनिं एतु पुमान् बाण इवेषुधिम् ।
आ वीरोऽत्र जायताम् पुत्रस्ते दशमास्यः ॥

अर्थात् यथा धनुषि बाणः सन्धीयते तद्वत् त्वद्गर्भाशये पुमान् गर्भ आधीयेत् । अतीते दशमे मासे त्वद्गर्भात् वीरपुत्रो जायेत् । त्वं पुमांसं पुत्रं जनयाः आसु ऋचासु इदं कर्म ’ प्राचापत्य’ मित्यभिहितं वर्तते – ‘कृणोमि ते प्राचापत्यम्’ इति । आभिः ऋचाभिः सह स्त्रियै विविधान्यौषधानि प्रदीयन्ते यानि तस्याः पुत्रविद्याय उपकुर्युः । यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव । तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्योषधयः ॥

वैदिकान् निर्दिशान् अवलम्ब्यैव गृह्यसूत्रेषु धर्मसूत्रेषु द्च पुंसवनस्य कर्मणः पूर्णं स्वरुपं लभ्यते ।

पुंसवनकर्ता[सम्पादयतु]

पतिः पुंसवनसंस्कारस्य प्रथमोऽधिकारी वर्तते ।
गर्भाधानादिसंस्कर्ता पतिः श्रेष्ठतमः स्मृतः ।

संस्कारानुष्ठानात् प्राक् यदि पतिः मृतः, संन्यस्तः, पतितः, देशानतरगतो वा भवेत् तदा इदं कर्म देवरः, गुरुः स्वकुलीनः श्रेष्ठः तदगोत्रजो वाऽपि अनुष्ठातुमर्हति । एष निर्देशः अन्येष्वपि कर्मान्तरेषु सामान्यतो व्यवहरणीयः । पुसंवनं प्रतिगर्भम् उत प्रथमगर्भे – पुंसवनं प्रतिगर्भमनुष्ठेयं प्रथमगर्भे एव वेत्यत्र स्मृतिषु विस्तृतचर्चा समुपलभ्यते ।

प्रतिगर्भम्[सम्पादयतु]

शौनकः प्रतिगर्भं कर्मेदं विधातुं निर्दिशति, यतः स्पर्शेन औषधसेवनेन च गर्भः शुध्दः पूतश्च जायते । पुनश्च संस्कारेऽस्मिन् उच्चारितैर्मन्त्रैः प्रगतजन्मस्मरणक्षमता सञ्चारमाप्नोति । पारस्करगृह्यसूत्रस्य भाष्यकाराः कर्कोपाध्यायादयोऽपि गर्भसंस्कारत्वं मन्यमानाः प्रतिगर्भं कर्मेदम् आवर्तयितुं निर्णयन्ति । विज्ञानेश्वरं विहाय याज्ञवल्क्यस्य अपरार्कादयोऽन्ये व्याख्याकारा अपि इदमेव मतं पोषयामासुः ।

प्रथमगर्भे[सम्पादयतु]

मिताक्षरायां विज्ञानेश्वरः पुंसवनं सीमन्तोन्नयनञ्चापि क्षेत्रसंस्कारत्वेन मनुते, अतः संस्कारोऽयं प्रथमगर्भ एवानुष्ठेयो न तु प्रतिगर्भम् । एते च पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारत्वात् सकृदेव कार्ये । अनयोः द्वयोरपि पक्षयोः आद्य एव पक्षो युक्तः प्रतीयते । “ पुमान् प्रसूयते येन कर्मणा” इति पुंसवनस्य व्युत्पत्त्या संस्कारोऽयं गर्भसंस्कारक एवावगम्यते, यतोहि अत्र गर्भस्य पुंरुपताया आपादनमिष्यते । यत्तु ‘अथ सीमन्तोन्नयनं पुंसवनवत् प्रथमगर्भे” इति पारस्करवचनात् पुंसवनस्य

प्रथमगर्भकर्तव्यत्वं व्याख्यायते, तन्न युज्यते । उक्तं संस्कारप्रकाशे – यदपि अथ सीमन्तोन्नयनं पुंसवनवत् प्रथमगर्भे’ इति पारस्करवचनमत्र प्रमाणतया प्रतीयते तदपि सीमन्तोन्नयनस्य प्रथमगर्भकर्तव्यत्वं प्रतिपादयति, न पुनः पुंसवनस्य । उक्तवचनविरोधापत्तेः । वचनातिदेशस्तु धर्मान्तरोपसङ्ग्रहार्थः”

पुंसवनस्य कालः[सम्पादयतु]

पुंसवनसंस्कारः कदाऽनुष्ठेय इत्यत्र बहुविधा विचाराः स्मृतिग्रन्थेषु लक्ष्यन्ते –

१ स्पान्दनात् प्राक् –पुंसवनाख्यं कर्म गर्भस्पन्दनात् पूर्वमेव् अनुष्ठेयम् । अस्य मतस्य प्रमुखा अनुमोदयितार इमे सन्ति – याज्ञवल्क्यः – “पुंसः सवनं स्पन्दनात् पुरा”। शाङ्खः –“ पुरा तु स्पन्दनात् कार्यं सवनन्तु विचक्षणैः” । पारस्करः – “ पुरा स्पन्दते” ।
२ गर्भे – गर्भे स्फुटे जाते पुंसवनाख्यं कर्म अनुष्ठेयम् । ‘व्यक्ते गर्भेऽथवा कार्यम्’ इति जातूकर्ण्यवचनात् व्यक्ते गर्भे पुंसवनं कार्यमिति स्फुटीभवति । बौधायनोऽपि “ विज्ञाते गर्भे तिष्ये पुंसवनम्” –इत्यनेन व्यक्ते गर्भे एव कर्मेदम् अनुष्ठातुं निर्दिशति । गर्भस्य अभिव्यक्तिस्तु गर्भाधानाद् तृतीये चतुर्थे वा मासि स्यात् । शारीरके उक्तम् – “ तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति” ॥ बृहस्पत्यनुसारं तृतीये चतुर्थे वा मासि गर्भो व्यक्तः स्यात् ।
३ स्पन्दनात् परम् –लौगाक्षिः ‘अथ पुंसवनम् । भूयिष्ठगतेषु गर्भमासेषु’ – इति गर्भस्पन्दनात् परं कर्मेदमनुष्ठातुं ब्रवीति । बृहस्पत्यनुसारं गर्हस्पन्दनात् परमेव पुंसवनं विधेयम् – “ सवनं स्पन्दिते शिशौ” इति । अपि च, स प्रथमगर्भे तृतीयमासे पुंसवनम् उक्त्वा गृष्टेः अर्थात् सकृत्प्रसूतायाः पुंसवनं चतुर्थे, षष्ठे अष्टमे वा मासे विदधाति –

तृतीये मासे कर्तव्यं गृष्टेरन्यत्र शोभनम् । गृष्टेश्चतुर्थे मासे तु षष्ठे मासेऽथवाऽष्टमे ॥ तेन गर्भस्पन्दनात् परमिति वचनं द्वितीयादिगर्भे एव सङ्गच्छते ।

मासनियमः[सम्पादयतु]

पारस्करः स्पन्दनात् पूर्वमासे द्वितीये तृतीयो वा पुंसवनं निर्दिशति । गोभिलो तृतीयस्य गर्भमासस्य तृतीये भागे पुंसवनं मनुते । द्राह्यायणः, खादिरः, जैमिनिः, वराह, वैजवापः इत्येते तृतीये गर्भमासे पुंसवनं निर्णयन्ति । क्वचित् स्मृत्यादौ निर्दिष्टं यत् प्रथममासादारभ्य अष्टममासपर्यन्तं पुंसव्नं विध्येयमिति । अनेन गर्भस्पन्दनात् परमपि इदं कर्म विधातुं निर्दिश्यते । तत्र व्यक्ते गर्भे पुंसवनं कार्यमित्येव सिध्दान्तपक्षो वर्तते । पारस्करादयो नैके सूत्रकाराः स्पन्दनात् पूर्वमासे द्वितीये तृतीये वेति संस्कारममुं विधातुं निर्दिशन्ति । सीमन्तानन्तरं वा यद्विधानं निर्दिष्टं वर्तते तत्तु कालातिक्रमे एव सिध्यति । पारस्करगृह्यसूत्रस्य भाष्ये स्पष्टोल्लेखो लभ्यते – एतदेव पुरा गर्भचलनादकृतं यदि । सीमन्तात् प्राग्विधातव्यं स्पन्दितेऽपि बृहस्पतिः ॥ तत्र दैवात् मानुषाद्वा बाधकात् प्राप्तकाल एतत् कर्म नानुष्ठितं चेत्तदा सर्वप्रायश्चित्ताख्यं होमं कृत्वैव विधेयम् । पुंसवनसंस्कारस्य अनुष्ठाने गुरुशुक्रास्तादिदोषो न भवति । पुनश्च मलसादावपि संस्कारोऽयमनुष्ठातुं शक्यते । तिथयः – पुंसवनाय शुक्लपक्षः प्र्शस्तोऽभिमतः । तत्र रिक्ता –पर्ववर्जिताः तिथयो ग्राह्याः । नृसिंहो नवमीं सर्वथैव त्यक्तुं निर्दिशति । दिनानि –पुंसवनार्थं प्रशस्तदिनान्युद्दिश्य मतद्वयमुअलभ्यते । केचन आचार्याःसोमबुध्- गुरु –शुक्रदिनानि प्रशस्तानि मन्येन्ते । परं वसिष्ठः सोमवासरे पुंसवनेऽनुष्ठिते देहनाशम्, बुधवासरे तदनुष्ठिते सन्ततिनाशम्, शुक्रवासरे च तत्करणे काकबन्ध्यात्वं सम्भावयति – मृत्युश्च सौरेस्तनुहानिरिन्दोर्मृतप्रजा पुंसवने बुधस्य । काकी च बन्ध्या भवतीह शुक्रे स्रीपुत्रलोभी रविभौमजीवैः” इत्थं स रवि मङ्गल- गुरुवासरानेव प्रशस्तान् मन्यते । रविमङ्गलगुरवः पुरुषग्रहा उच्यन्ते । अतः पुंसवनाख्ये कर्मणि पुरुषग्रहाणां दिनान्येव ==प्रशस्तानि==

* नक्षत्राणि –पुंसवने पुन्नक्षत्राण्येव प्रशस्तानि भवन्ति । तानि चेमानि – अश्विनी, मृगशिरः, पुनर्वसुः, ह्स्तः, अनुराधा, श्रवणः पूर्वाभाद्रपदा । क्वचित् स्वातीमूलयोरपि प्राशस्त्यम् उच्यते पुंसवने ।
* लग्नराशयः – कर्कमिथुनकन्यालग्नानि पुंसवने वर्ज्यानि भवन्ति । परन्तु बृहस्पतिः कर्कमिथुनयोः शुभग्रहवीक्षितयोः पुंसवनं विधातुं निर्दिशति । इत्थं कन्यायाः सर्वथा प्रतिषेधः प्रतिपद्यते । नारदः चन्द्रताराबलमपि पुंसवने विचारयितुमाह ।

संस्कारविधिः[सम्पादयतु]

गृह्यसूत्रेषु पुंसवनसंस्कारस्य अग्रमिखितो विधिर्निर्दिष्टः – संस्कारदिवसे गर्भिणी उपवासं करोति । स्नानं कृत्वा नवानि वस्त्राणि धारयति । रात्रौ वटवृक्षस्य शाखायाः चूर्णं कृत्वा तस्या रसं निष्कास्य स्त्रिया दक्षिणनासिकाछिद्रे ‘हिरण्यगर्भ’ – आदिमन्त्रैः क्षिप्यते । सुश्रुताभिमतं यत् वटवृक्षे विशिष्टा गुणाः सन्ति ये समस्तकष्टानि निवारयितुं क्षमाः । आश्वलायनगृह्यसूत्रानुसारं तु पुनर्वसुनक्षेत्रे उपवासं कृत्वा पुष्यनक्षत्रे गर्भिणी आत्मवर्णकल्पाया गोवत्सवत्या दध्नि शिम्बिकस्य कणद्वयं यवस्य चैकं कणं दद्यात् । “ त्वं किं पिबसि’-= इति पृष्टे सति स्त्री वक्ष्यति – पुंसवनम् अर्थात् पुत्रस्य उत्पत्तिः । एवं पतिः वारत्रयं तादृशेन दध्ना क्रियां करोति ।

स्वस्य पुत्रस्य बलं स्वास्थ्यं च काङ्क्षमाणः पिता ललनाया अङ्के स्पृष्ट्वा “ सुपर्णोऽस्ति’ –इति ऋचाया उच्चारणं करोति । एतत् कृत्यं जीवनस्य उत्साहस्य चाविर्भावस्य सूचकमस्ति । धर्मसूत्रेषु स्मृतिषु च संस्कारसम्बध्दं कर्मकाण्डमाश्रित्य न कोऽपि विशेषोऽभिनवो विधिः विहितः । कालान्तरे लिखितेषु संस्काररत्नमालाप्रभृतिषु ग्रन्थेषु पुंसवनार्थं होमस्यापि व्यवस्था दृश्यते । प्रयोगेषु पध्दतिषु च यद्यपि तत्तद्गृह्यसूत्राण्येव पूर्णतोऽनुसृतानि परं कालक्रमेण मातृपूजा आभ्युदिकं श्राध्दञ्चेति कृत्यद्वयम् अस्मिन् कर्मणि समाविष्टम्, यच्च प्रायः समस्तासु पध्दतिषु निर्दिश्यते । उपर्युक्तेन विवेचनेन स्फुटीभवति यत् पुंसवने होमपुत्रप्राप्त्यादिरुपात्मकं धार्मिकम् । शिम्बिकयवसहितदधिपानरुपं प्रतीकात्मकम्, स्त्रिया नासिकायां पदार्थक्षेपरुपम् औषधिसम्बन्धि च तत्त्वत्रयमुपलभ्यते ।

"http://sa.wikipedia.org/w/index.php?title=पुंसवनसंस्कारः&oldid=265377" इत्यस्माद् पुनः प्राप्तिः