गर्भाधानसंस्कारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादिः शरीरसंस्कारः कर्तव्यः । यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति । एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति । गर्भाधानं परिभाषमाणो जैमिनिराह –

गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम्

शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं वेत्युच्यते –

निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया ।
तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥

मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म निषेक् इत्यभ्यदधुः ।

ऐतिह्यम्[सम्पादयतु]

आवैदिकग्रन्थेभ्यः आधर्मशास्त्रं गर्भाधानसंस्कारस्य परिचयः उपलभ्यत एव । परन्तु प्राचीनकालेऽस्य स्वरुपस्य, विशिष्य सम्पादनविधेः विषये स्पष्टता नासीत् । प्राचीनसाहित्यस्य अनुशीलनेनैतत् स्फुटं भवति यत् संस्कारोऽयं क्रमबध्दं विकासं प्राप्य वर्तमानस्वरुपे प्रतिष्ठितोऽभवत् । तैत्तिरीयसंहिताया एनां श्रुतिमव्लोकयामः – जायमानो वै ब्रह्मणस्तिभिऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्रो यज्वा ब्रह्मचारी वासी इति । वैदिककाले पुत्रः ऋणच्युतः इत्यभिधीयते स्म । ‘ऋणच्युत’ इतिसम्बोधनात् मुक्तेः कश्चन बोधो भवति । मनुरपि प्रतिपादयति

ॠणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥

अर्थात् ऋषि –ऋणं, देव-ऋणं, पितृ –ऋणञ्च अपाकृत्यैव मानवो मोक्षार्थं प्रयतेत । स ब्रह्मचर्येण ऋषीणां, यज्ञेन देवानां, सन्यत्या च पितृणाम् ऋणम् अपाकुर्यात् । पितृणाम् ऋणस्य पूर्तये पुत्रोत्पादनमावश्यकम् लक्ष्यते । इत्थं सन्ततेः प्राप्तिः प्रत्येकमानवस्य अनिवार्यं पावनं च कर्तव्यमभिमन्यते ।


                     अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः ।
                                      इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥
                     अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ।
                                       अनिष्ट्वा चैव यज्ञैश्च मोक्शमिच्छन् व्रजत्यधः ॥

ऋग्वेदे प्रजाधारणाय विधीयमाना प्रार्थना उपलभ्यते । यथा –

प्रजां च धत्तम्, द्रविणं च धत्तम् । वैदिका भाष्यकारा अस्मिन् मन्त्रे प्रयुक्तस्य ‘प्रजा’ शब्दस्य अर्थ सन्तानं, पुत्रो वेत्येव गृह्णन्ति । अथर्ववेदो गर्भाधानविषयकान् प्रसङ्गानुपस्थापयन् पुत्रस्य स्वरुपादिकं सुस्पष्टं वर्णयति । गर्भाधानस्य प्रयोजनमनेन सूक्तद्वयेन ज्ञातुं शक्यते यत्र पतिः विविधान् देवान् प्रार्थयति –


                    धातः श्रेष्ठेन रुपेणास्या नार्या गवीन्योः ।
                                पुमांसं पुत्रमा धेहि दशप्ते मासि सूतवे ॥
                     त्वष्टः श्रेष्ठएन रुपेणास्या नार्या गवीन्योः ।
                                पुमांसं पुत्रमा धेहि द्शमे मासि सूतवे ॥
                      सवितः श्रेष्ठेन रुपेणास्या नार्या गवीन्योः।
                                    पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥
                        प्रजापते श्रेष्ठेन रुपेणास्या नार्या गवीन्योः ।
                                     पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥

अत्र धातुः, त्वष्टुः, सवितुः,प्रजापतेश्च समक्षमेव प्रार्थनाया विशिष्टमेकं कारणमस्ति । ऋग्वेदे कारणमेतत् इत्थं स्पष्टीक्रियते यत् गर्भशयनिर्माणाय विष्णोरभ्यर्थनम्, पत्नीरुपसंवर्धनाय त्वष्टृदेवस्याभ्यर्थनम्, बीजाधानाय प्रजापतेरभ्यर्थनम्, भ्रूणस्य संस्थापनाय धातुर्ब्रह्मणः सरस्वत्याश्च अभ्यर्थनम्, भ्रूणस्य प्रतिष्ठापनाय चाश्विनीकुमारयोः अभ्यर्थनं सम्पादनीयम्

अत्र एकः प्रश्नः उदेति यत् संस्कारोऽयं गर्भसंस्कारोऽथवा क्षेत्रसंस्कारः? अर्थात् अयं गर्भसंस्कारः उतवा गर्भधारिण्या भार्यायाः संस्कारः ? तत्रोभयविधं वचनमुपलभ्यतेअ । यज्ञवल्क्यः ‘निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः’ इत्युक्त्वा गर्भस्यैव संस्कारं निरुपयति ।मनुरपि तथैव प्रतिपादयति-

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥

अनेन आचार्यो मनुः प्रतिपादयति यत् मानवीयेऽस्मिन् धर्मशास्त्रे अध्ययने श्रवणे च तस्यैवाधिकारो यस्य कृते गर्भाधानादारभ्य अन्त्येष्टिसंस्कारपर्यन्तः समन्त्रकोऽनुष्ठानविधिः निरुपितो वर्तते । तदभिन्नस्य अन्यस्याधिकारस्तत्र नास्ति । अतः संस्कारोऽयं गर्भसंस्कार एव । अपि च, शौनकः प्रतिपादयति


                 स्नातायाः सुकृतायाश्च ऋतुमत्याः समेऽहनि ।
                           दक्षिणस्यां नासिकायां सिञ्चेद् दूर्वारसं पतिः ॥
                    जायाया दक्षिणे नासारन्ध्रे सिञ्चेत्तु तद्रसम् ॥

अर्थात् भार्याया नासिकाया दक्षिणे रन्ध्रे दूर्वारसं सिञ्चेदिति भार्यायाः संस्कार्यता लक्ष्यते ।

आश्वलायनो निर्दिशति यत् गर्भाधानस्य अकरणात् तस्याम् अर्थात् भार्यायां जातस्तु दुष्यति । तेन गर्भाधानस्य व्स्तुतः क्षेत्रसंस्कारत्वमेव युक्तं, न तु गर्भसंस्कारत्वम् । अन्यच्च, ‘गर्भ आधीयते येन’ इति करणव्युत्पत्त्या दूवा –अश्वगन्धादिरसस्य सेचनेन संस्कृताया भार्यायाः सङ्गमनस्यैव गर्भाधानत्वेन भार्यायाः संस्कारतैव युक्ता प्रतीयते । अपिच, आचार्याः प्रतिगर्भं गर्भाधानसंस्काराय नादिशन्ति- “ ऋतुमत्यां प्राजापत्यमृतौ प्रथमे” । अनेनापि एतदेव प्रमाणीभवति यत् संस्कारोऽयं क्षेत्रसंस्कारः स्त्रीशुध्दयै एव वर्तते । क्षेत्रसंस्कारस्य समर्थका आचार्या अभिमन्यन्ते यदेकवारं पवित्रीकृतं क्षेत्रं भाविनं प्रत्येकं गर्भं पुनाति ।

स्मृतयः ऋतुसङ्गमनम् आवश्यकमिति प्रतिपादयन्त्यो लक्ष्यन्ते । तत्र वस्तुतः विविधेभ्य ऋणेभ्यो मुक्तिः प्रधानकारणत्वेनाभिमन्यते । यथा पूर्वमेवोक्तम् यत् जायमानो वै ब्रह्मणस्त्रिभिऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणो यः पुत्रो यज्वा ब्रह्मचारी वासी इति । अत्रैतदवधेयं यदेष श्रुतेः एकपुत्रोत्पादनविषयः । आचार्यो मनुरपि मतमिदं समर्थयन् प्रतिपादयति यन्मानवो ज्येष्ठेन जातमात्रेण पुत्री भवति, अर्थात् स तेनैव सर्वेभ्य ऋणेभ्यो मुच्यते ।

          ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
                                पितृणामनृणश्चैव स तस्मात् सर्वमर्हति ॥

मनोरनुसारम् एष एव धर्मजः पुत्रः अन्ये पुत्रास्तु कामजा उच्यन्ते ।

                    यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते ।
                                          स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥

श्रुत्यन्तरे पुत्रिणो मानवस्य महत्त्वं प्रतिपादितमस्ति –

नापुत्रस्य लोकोऽस्तीति, तत्सर्वे पशवो विदुरिति

अपि च, काचन स्मृतिरपि “ अनन्ताः पुत्रिणो लोका भवन्त्यत्र न संशयः” । इत्युक्त्वा सन्ततेः उत्पादनस्य महत्त्वमुपवर्णयति ।

कालः[सम्पादयतु]

गर्भाधानस्य कालविषये धर्मशास्त्राचार्यैः द्विविधः कालविचारः प्रस्तुतो वर्तते । एकः ऋतुकालसम्बध्दः , अपरश्च तिथिनक्षत्रादीनां प्राशस्त्याद् उल्लिखितोऽस्ति । ऋतुसम्बध्दः कालः – ऋतुसम्बध्दे काले “ गर्भाधानमृतौ कुर्यात् सवनं स्पन्दने शिशोः” इत्युच्यते । श्रुतिरपि “ ऋतौ भार्यामुपेयात्” इति परामृशति । अस्य अयमाशयो यदृतुकाले स्त्रीणां शरीरावरणविशेषं गर्भग्रहणसामर्थ्यं भवति । स च कालो रजोदर्शनमारभ्य षोडशनिशापरिमितो भवति । तस्मिन्नृतौ पुत्रार्थी समासु, कन्यार्थी च विषमासु निशासु संविशेत् । मनुः अस्मिन् सन्दर्भे कथयति –

युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।

पञ्चाङ्गसम्मतः कालः[सम्पादयतु]

तिथयः – तत्र चतुर्थी, षष्ठी, अष्टमी, द्वादशी, पूर्णिमा, अमावस्या चेति तिथयो गर्भाधानदृष्ट्या वर्जिताः सन्ति । शेषतिथयः प्रशस्ता मन्यन्ते ।
शुभदिनानि – सोमवासरः, बुधवासरः, बृहस्पतिवासरः, शुक्रवासरश्चैते वासरा गर्भाधानाय प्रशस्ता मन्यन्ते ।
नक्षत्राणि – तत्र रोहिणी, उत्तराफाल्गुनी, हस्त्ः, स्वाती, अनुराधा, उत्तराषाढा, श्रवणः, शतभिषा, उत्तराभाद्रपदा, रेवती- एतान्येकादश नक्षत्राणि गर्भाधानाय प्रशस्तानि सन्ति । अश्विनी, मृगशिरः, पुनर्वसु, धनिष्ठा इति षट् नक्षत्राणि मध्यमानि उच्यन्ते अवशिष्टानि दश नक्षत्राणि वज्यर्यानि सन्ति । अपि च, आचार्यो बृहस्पतिः प्त्युर्जन्मनक्षत्राद् आरभ्य त्रयाणां नक्षत्राणां गर्भाधाने निषेधं करोति ।
योगाः- वैधृतिः, पातः, परिघस्य पूर्वार्धम्- एते योगा गर्भाधाने वर्जिताः । पुनश्च, भद्राकालः, सन्ध्याकालश्च उभावप्यत्र वर्जितौ भवतः ।

याज्ञवल्क्यः प्रतिपादयति यत् पर्वदिनेषु मनुष्यो ब्रह्मचारी एव तिष्ठेत् । वृध्दमनुः अपि श्राध्दादिदिनेषु श्राध्दकर्तारं ब्रह्मचर्यमाचरितुं निर्दिशति, यस्य परिपालनाभावे सोऽनिष्टं फलमादिशति । आचार्यः आश्वलायनस्तु मातापित्रोः मृत्यौ संवत्सरं यावत् ब्रह्मचर्यस्य विधानं करोति । माधवादय आचार्या अप्येतदेव अनुमोदयन्ति । तस्मात् श्राध्दादौ समापतिते ऋतुकाले सत्यपि नोपेयादित्येव धर्मशास्त्रसम्मतं मतं वर्तते ।


गर्भाधानसंस्कारस्य अपरं नाम ऋतुगमनम् । येन विधिविहितकर्मणा गर्भः संधार्यते तद् गर्भधानम् । अर्थात् गर्भः आधीयते येन कर्मणा तद गर्भाधानम् । स च संस्कारः ऋतावेवानुष्ठीयते । इयर्त्ति गच्छति गर्भधारणं सम्पादयति इति ऋतुः । तस्य कालः षोडशरात्रयः । रजोदर्शनादारभ्य षोडशनिशापरिमितकालः ।मानवस्य सम्पूर्णं जीवनं संस्कारस्य क्षेत्रम् अस्ति । प्रजननम् अपि तत्रैव आगच्छति । धर्मशास्त्रानुसारम्, अनेन सह अशुचितायाः भावः नास्ति । अतः विशेषतह् गृह्यसूत्रेषु एवं स्मृतिग्रन्थेषु गर्भाधानेन एव संस्काराणाम् आरम्भः दर्शितः । स्त्रीपुरुषयोः सम्मेलनेन पुरुषरजसा च गर्भाधानं भवति । एषः संस्कारः शुभमुहूर्ते शुभनक्षत्रे भवति । धर्मशास्त्रानुसारम् एषः संस्कारः रात्रौ एव करणीयः । भगवतः विष्णोः प्रजापतेः सरस्वत्याः च स्तवनम् अत्रावसरे करणीयम् । भोजनस्य अपि विधिः दर्शिता अस्ति । मातुः पितुः उत्तमविचारैः मन्थनेन च तेजस्वी पुत्रस्य उत्पत्तिः भवति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गर्भाधानसंस्कारः&oldid=265379" इत्यस्माद् पुनः प्राप्तिः