काली

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
काली
मृत्यु-ध्वंसस्य च देवी

कोलकातायाः दक्षिणेश्वरमन्दिरस्य कालिकाविग्रहः
मृत्यु-ध्वंसस्य च देवी
शक्तिविशेषः देवी , महाविद्या , मातृका
निवासः श्मशानम्
मन्त्रः ॐ क्रीं काल्यै नमः,
ॐ कपालिनै नमः,
ॐ ह्रीं श्रीं क्रीं
परमेस्वारी कलिकायै स्वाहा
गायत्रीːॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि । तन्नो काली प्रचोदयात् ।
अस्त्रम् खड्गः
सहधर्मी शिवः
वाहनम् शृगालः(शिवा)
कालीदेवी

अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । [१]

व्युत्पत्तिशास्त्रम्[सम्पादयतु]

(कृष्णवर्णः).[२] Kālī स्त्रीलिङ्गरूपम्kālaकालस्य मूलार्थः कृष्णः इति । कालः नाम समयः इत्यपि अर्थः काली इत्यस्यार्थः कृष्णवर्णीया अथवा कालवती, कालातीता इति भवति ।काली शिवेन शैवैः च दृढः सम्बन्धः अस्ति । काल्याः स्त्रीलिङ्गरूपं कालस्य स्तीरूपेण प्राप्तम् । संस्कृतस्य प्राचीननिघण्टुः शब्दकल्पदुरमम् एवं वदति कालः शिवः तस्य पत्नी काली इति । अस्याः नामावल्यां कालरात्रिः इत्यापि अस्ति । KālarātriKālikā काली इति पदम् अङ्कितनाम इव उपयोक्तुं शक्यते इति कोबर्न् थामस् उत्कवान् कोबर्न् थामस् Devī-Māhātmyaशिवस्य शरीरं भस्मलेपितम् । śmaśānaतथैव सः ध्यानं करोति काली अपि तत्र भवति ।śmaśāna-kālī

मूलानि[सम्पादयतु]

मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं महाभारते सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64)Kālarātri अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । द्रोणस्य पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन सनातनधर्मस्य विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा सनातनधर्मे युद्धभूमौ एव न्यस्ता । [३] अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।

मन्त्रः
ॐ क्रीं काल्यै नमः ॥

बीजमन्त्रः
ॐ ह्रीं श्रीं क्रीं परमेस्वारी कलिकायै स्वाहा ॥

कालीगायत्रीमन्त्रः
ॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि । तन्नो काली प्रचोदयात् ॥

ध्यानम्
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥

सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां ।
अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बरीं ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां ॥

कर्णावतंसतानीतशव युग्मभयानकां ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥

शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥

घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्वितां ॥

दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां ।
शवरूप महादेवहृदयोपरिसंस्थितां ॥

शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां ।
महाकालेन च समं विपरीतरतातुरां ॥

सुखप्रसन्नवदनां स्मेराननसरोरुहां ।
एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥

तन्त्रेषु[सम्पादयतु]

कालिकायन्त्रम्

देव्यः तन्त्रयोगस्य अध्ययने आचरणे च महत्तरं भूमिकां निर्वहन्ति । पुरुषदेवताः इव वास्तवस्वरूपं ज्ञातुं विवेचनशक्तियुक्तं केन्द्रम् इति विश्वस्तम् । तथापि पार्वती स्वीकर्त्री तन्त्ररूपेण शिवस्य पाण्डित्यं प्राप्यमाना छात्रा इति उक्तम् । तान्त्रिकप्रतिमाशास्त्रे ग्रन्थेषु आचरणेषु च काली एव प्रमुख्यं प्राप्तवती । डि.किन्ल्से १२२पुटानि ब्रह्मा, विष्णुः, शिवः इति देवाः समुद्रस्य फेनबुद्बुदानि इव ताया एव उद्भूताः स्वेषां मूलम् अपरिवर्त्य संरक्ष्य निर्गच्छन्ति इति निर्वाणतन्त्रम् । निरुत्तरतन्त्रम्, पिच्चिलतन्त्रम् च काल्याः सर्वे मन्त्राः सर्वश्रेष्ठाः इति घोषयतः । योगिनीतन्त्रम्, कामाक्यतन्त्रम्, निरुत्तरतन्त्रम्, इत्यादीनि कालिविद्यातन्त्राणि इति प्रसिद्धानि । महानिर्वाणतन्त्रे काली आदिशक्त्याः विशेषणम् एव ।

बङ्गालीसम्प्रदायः[सम्पादयतु]

कलिपूजोत्सवः

शिवस्य पत्नी पार्वतीम् अतिरिच्य काल्याः रूपं सनातनपुराणेषु प्रतिमाशास्त्रेषु मातृरूपिणीति निरूपितम् । अष्टादशे शतके बङ्गालीभक्तिपथः आरब्धः । तत्र अस्याः स्वरूपं लक्षणानि च परिवर्तितानि ।

सन्दर्भाः[सम्पादयतु]

  1. एन्सैक्लोपीदिया इण्टर्न्यषनल् ग्रोलियर् 1974. AE5.E447 1974 031 73-11206 ISBN 0-7172-0705-6 ಪುಟ 95
  2. पाणिनिः4.1.42
  3. डेवीड् किन्स्ले तान्त्रिक् विसन्स् आफ् दि डिवैन् फेमिनैन् दि टेन् महा विद्यास् (बर्कलि : क्यालिफोर्निया विश्वविद्यालयस्य मुद्रणम् क्रि.श. १९९७, ७०पुटानि
"http://sa.wikipedia.org/w/index.php?title=काली&oldid=280911" इत्यस्माद् पुनः प्राप्तिः