सीता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते ।अयोनिजा सीता रामः।श्रीरामचन्द्रस्य धर्मपत्नी । जनकः।जनकमहाराजस्य पुत्री । कुशः।कुशलवः।लवयोः माता ।

जननम्[सम्पादयतु]

मिथिलायाः राजा जनकः सन्तानप्राप्त्यर्थं यज्ञमकरोत् । एकवारं क्षेत्रकर्षणसमये एकः शिशुः प्राप्तः । जनकमहाराजः तं शिशुं गृहं नीत्वा पालितवान् । तस्याः पुत्र्याः सीता इति नामकरणं कृतम् । जानकी , मैथिली इत्यादीनि तस्याः नामान्तराणि ।

सीतापरिणयः[सम्पादयतु]

जनकमहाराजेन सीतायाः स्वयंवरः आयोजितः । शिवधनुषः ज्याबन्धनमेव स्वयंवरस्य पन्थाह्वानम् आसीत् । रावणादयः वीराः पराजिताः अभूवन् । श्रीरामः जित्वा सीतां परिणीतवान् ।

वनगमनम्[सम्पादयतु]

सीतायाः विवाहानन्तरं दशरथः यदा श्रीरामस्य राज्याभिषेकं कर्तुम् उद्युक्तः । तदा मन्थरायाः कौटिल्यात् कैकेयी रामस्य वनगमनार्थम् आग्रहं कृतवती । तदा पितृवाक्यं परिपालयितुं रामः वनं गन्तुमुद्युक्तः । तदा सीतापि रामेण सह वनं प्रति गन्तुं सिद्धा । परं रामः निराकृतवान् । तथापि राम एव परमं दैवतम् इति मत्वा सीता रामेण सह वनं गन्तुम् आग्रहं कृतवती ।रामः अङ्गीकृतवान् ।सीता रामेण सह वनं गतवती। कष्टमपि सुखं मत्वा रामेण सह वनवासमकरोत् ।

सीतापहरणम्[सम्पादयतु]

वनवाससन्दर्भे पञ्चवट्यां रामलक्ष्मणः।लक्ष्मणसीतादयः कुटीरे उषितवन्तौ । तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा रामस्य सकाशमागत्य तं परिणेतुं वाञ्छति ।परं मर्यादापुरुषोत्तमः रामः तामवगत्य तस्याः नासाच्छेदमकरोत् । सा प्रकरणमेनम् अग्रजस्य रावणस्य सकाशे निवेदयति ।क्रुद्धः रावणः प्रतीकारं साधयितुं चिन्तितवान् । मातुलस्य मारीचस्य साहाय्यं च प्राप्तवान् । मारीचः सुवर्णहरिणरूपं धृत्वा कुटीरप्रान्ते अटन् आसीत् । हेममृगं दृष्ट्वा सीता तं प्राप्तुम् इष्टवती । रामस्य समीपे तं मृगम् आनेतुं सूचयति ।परन्तु रामः तस्य मृगस्य कापट्यं ज्ञात्वा सीतां वारयति । परं सीता हठेन तं मृगम् आनेतुं वदति ।सीतायाः आग्रहं सोढुम् अशक्तः रामः कुटिरे सीतायाः रक्षणार्थं लक्ष्मणं नियोज्य तं मृगमनुसृत्य गतवान् । किञ्चित्समयानन्तरं 'हा लक्ष्मण! हा सीते!'इति चीत्कारध्वनिः श्रूयते ।तदा भीता सीता रामस्यैव ध्वनिरयम् इति मत्वा तस्य रक्षणार्थं लक्ष्मणं गन्तुं सूचयति । किन्तु इदं कापट्यम् इति लक्ष्मणः सीतायै कथयति ।तदा लक्ष्मणः सीतायाम् अनुरक्तः सन् इत्थं कथयतीति मत्वा सीता तं भर्त्सयति । तदा अगतिकगत्या लक्ष्मणः सीतायाः रक्षणार्थं कुटीरस्य पुरतः रेखाः विरच्य तदतिरिच्य बहिः मा आगच्छतु इति उक्त्वा ध्वनिमनुसृत्य गतवान् । तदा प्रच्छन्नवेषेण सन्यासीरूपं धृत्वा भिक्षाटनं कुर्वन् रावणः कुटीरस्य समीपमागतवान् ।सीता भिक्षां दातुं कुटीरात् बहिरागता ।तदा कापट्येन रावणः सीताम् अपहृत्य पुष्पकविमाने लङ्कां प्रति नीत्वा अशोकवने स्थापितवान् ।

सीतायाः पातिव्रत्यम्[सम्पादयतु]

[[चित्रम्:Sita Mughal ca1600.jpg।right।200px।thumb।मुघल् चित्रकलायाम् अग्निप्रवेशं कुर्वती सीता, ca. 1600]] सीता पतिव्रतासु अन्यतमा ।रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् । रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति । रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति ।

अहल्या द्रौपदी सीता तारा मण्डोदरी तथा ।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।।

इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः । तासु सीतापि अन्यतमा ।

आधाराः[सम्पादयतु]

  1. वाल्मीकिरामायणम्
  2. पुराणभारतकोष-सं.यज्ञनारायण उडुप


"http://sa.wikipedia.org/w/index.php?title=सीता&oldid=253754" इत्यस्माद् पुनः प्राप्तिः