आत्मा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अस्य शब्दस्य प्रथमः अर्थः अस्ति परमात्मा, ब्रह्म इति । अत (सातत्यगमने) मनिण् (उ ४-१५३) ।

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मेति कीर्त्यते ।
आत्मेव दृष्टः सहसा प्रजानामादर्शनेच्छामितरेषु दत्ते - याद १८-१३

द्वितीयः अर्थ अस्ति जीवात्मा इति ।

आत्मानं रथिनं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरम् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । - कठोपनिषत्

विविधेषु दर्शनेषु आत्मनः विषयः[सम्पादयतु]

चार्वाकमते[सम्पादयतु]

चार्वाकाः शरीरमेव आत्मा इति वदन्ति । पृथिवी-अप्-तेजः-वायुः एतेन भूतचतुष्टयेन शरीरम् उत्पद्यते । तस्मिन् चैतन्यं जायते । देहोत्पत्तेः पूर्वं देहस्य विनाशस्य अनन्तरम् अपि आत्मा न भविष्यति इति एतेषाम् अभिप्रायः । स्थूलोहम् कृशोहम् कृष्णोहम् इत्यादयः व्यवहाराः एव देहात्मवादस्य प्रमाणानि ।

बौद्धमते[सम्पादयतु]

बौद्धेषु माध्यमिकाः योगाचाराः सौत्रान्तिकाः वैभाषिकाः इति पक्षचतुष्टयम् । एते क्रमशः सर्वशून्यत्वम् बाह्यार्थशून्यत्वम् बाह्यार्थानुमेयत्वम् बाह्यार्थप्रत्यक्षत्वम् च प्रतिपादयन्ति ।

माध्यमिकाः वदन्ति यत् सत्-असत्-सदसत्-सदसद्विलक्षणैः अतिरिक्तं शून्यमेव आत्मा इति ।
योगाचाराः अहम्-भावनया आत्मा इति कथ्यमाना आलयविज्ञानसन्ततिः एव आत्मा इति वदन्ति ।
सौत्रान्तिकाः वैभाषिकाश्च आत्मनः विषये योगाचारपक्षम् एव अनुसरन्ति । किन्तु सौत्रान्तिकाः विज्ञानव्यतिरिक्तपदार्थाः विद्यन्ते इति ते अनुमेयाः इति कथयन्ति । वैभाषिकाः ते प्रत्यक्षाः इति च कथयन्ति ।

जैनमते[सम्पादयतु]

आत्मा ज्ञानदर्शनस्वरूपि चैतन्यवस्तु । आत्मा नित्यः । चेतनालक्षणो जीवः । आत्मा कर्मबद्धः(सोपाधिकः) कर्ममुक्तः(निरुपाधिकः) इति द्विविधम् । जीवाः संसारिणो मुक्ताश्च - तत्त्वा सू । कर्ममुक्तः आत्मा शुद्धचैतन्यस्वरूपः । सिद्धः, सर्वज्ञः, सर्वलोकदर्शी च । देहस्य परिमाणमेव आत्मनः परिमाणम् । पूर्वतनजन्मसु कृतानि पापपुण्यानां फलानि अनुभवन् सम्यक्ज्ञानसम्पादनेन कर्मनिर्मुक्तः सन् लोकाग्रे प्रतिष्ठितः भवति । इयमेव मुक्तिः इति अत्र अभिप्रायः ।

वैशेषिकमते[सम्पादयतु]

देह-इन्द्रिय-मनः-बुद्धिः - एतेभ्यः भिन्नः आत्मा । आत्मा नित्यः विभुश्च । जीवात्मा परमात्मनः भिन्नः । परमात्मा एकः । जीवात्मानः असङ्ख्याः । परमात्मनि नित्यज्ञानं कृतिः इच्छाः च वर्तन्ते । जगतः सृष्टि-स्थिति-लयकार्येषु समर्थः अस्ति सः । कुलालः यथा घटस्य कारणीभूतः जगतः सृष्टेः निमित्तमस्ति । अयं सर्वज्ञः । जीवात्मा ज्ञान-इच्छा-कृति-धर्म-अधर्म-द्वेष-सुख-दुःखादिभिः गुणैः युक्तः अस्ति । मनसा सह विजातीयसंयोगेन आत्मना ज्ञानं प्राप्यते । दुःखध्वंसनमेव मोक्षः इति एतेषाम् अभिप्रायः ।

साङ्ख्यमते[सम्पादयतु]

साङ्ख्यमते चतुर्विंशति-तत्त्वेभ्यः अतिरिक्तः पुरुषः एव आत्मा । आत्मा असङ्ख्यातः, विभुः, नित्यः, निर्गुणः, निष्क्रियः, निर्लिप्तश्च । सुखदुःखादीनां सम्बन्धः आत्मनः न भवति । संसारभोगः मोक्षश्च प्रकृतिसम्बन्धेन पुरुषे दृश्यते । प्रकृति-पुरुषयोः सम्बन्धेन जगतः सृष्ट्यादिव्यवहाराः चलन्ति । प्रकृतिपुरुषयोः विवेकज्ञानैः बुद्धितत्त्वनाशः ततः सुखदुःखछायानाशश्च भविष्यति । ततः आत्मा शुद्धः भवति । अयमेव मोक्षः ।

योगदर्शने[सम्पादयतु]

अस्मिन् जीवात्म-परमात्मनोः भेदः विद्यते । चेतनतत्त्वं पुरुषः ईश्वरः इति द्विविधम् । जीवात्मानामकः पुरुषः असङ्ख्यातः, विभुः, अजः, नित्यः, शाश्वतः, निर्लेपः, ज्ञानस्वरूपश्च । ईश्वरः क्लेश-कर्मविपाकाशयादिसम्बन्धरहितः । जीवाः ईश्वरप्रणिधानेन ईश्वरभक्त्या च समाधिस्थितिं प्राप्नुवन्ति । अयमेव मोक्षः ।

द्वैतमते[सम्पादयतु]

अस्मिन् जीवात्म-परमात्मनोः भेदः अङ्गीकृतः अस्ति । जीवः अणुज्ञानस्वरूपः, असङ्ख्यातः, अजः, नित्यः, शाश्वतः, अच्छेद्यः, अदाह्यः, अक्लेद्यः, अशोष्यश्च । परमात्मा(नारायणः) विभुः । नारायणः एव सर्वनियामकः । सर्वे तस्य आदेशानुवर्तिनः । जीवाः सुखादितरतमभावयुताः, स्त्रीपुरुषभेदयुताश्च इति एतेषाम् अभिप्रायः। जीवात्मसु उत्तम-मध्यम-अधम-भेदैः मुक्तियोग्याः-नित्यसंसारिणः-तमोयोग्याः इति भेदः विद्यते । साधनानुष्ठानेन स्वरूपानन्दं ये अनुभवन्ति ते मुक्तियोग्याः । तमोलोकप्राप्तेः साधनानि सम्पादयन्तः नित्यदुःखानुभवाय ये सिद्धाः भवन्ति ते तमोयोग्याः । साधनानुष्ठानेन नित्यसुखदुःखमिश्रानुभवाय ये सिद्धाः भवन्ति ते नित्यसंसारिणः । गुरुकुलवासः, गुरुभक्तिः, सच्छास्त्रश्रवणं, मननं, संसारदुःखदर्शनेन वैराग्यप्राप्तिः, निवृत्तिधर्मानुष्ठानम्, तरतमज्ञानम्, परमात्मभक्तिः इत्यादिभिः अपरोक्षज्ञानं प्राप्यते । ततः मोक्षः सिद्ध्यते । देहावसानावसरे जीवः ब्रह्मनाडीद्वारा प्रस्थाय अर्चिरादिमार्गे अनेकैः लोकाधिपतिभिः सत्कारं प्राप्य अन्ते भगवल्लोके तरतमभावानुगुणं सालोक्य-सामीप्य-सारोप्य-सायुज्यरूपं मोक्षम् अनुभवति ।

अद्वैतमते[सम्पादयतु]

अद्वैतमते आत्मा एकः एव । सः नित्यः, विभुः, अच्छेद्यः, अक्लेद्यः, अदाह्यः, नित्यशुद्धः, नित्यमुक्तः, निर्लिप्तः, असङ्गश्च । अस्य स्थूल-सूक्ष्म-कारणनामकाः त्रयः उपाधयः विद्यन्ते । मायानामककारणोपाधियुक्तेन चैतन्येन प्रचाल्यमानैः सृष्टि-स्थिति-प्रलयरूपकार्यैः ब्रह्म-विष्णु-रुद्र-नामकान् रूपभेदान् आप्नोति । विभिन्न-उपाधिरूपेषु शरीरेषु अनादिरूपायाः अविद्यायाः कारणेन मम मदीयम् इत्यादिभावाः उत्पद्यन्ते । ततः विविधजीवाः इव व्यवहरति । उपाधीनां नाशनः अनन्तरम् आत्मा एव अवशिष्यते । सः एव मोक्षः । ईश्वरार्पणबुद्ध्या कृतैः विहितकर्माचरणैः संसारे असारत्वबुद्धिः, कर्मफले प्रबलवैराग्यं, ततः गृहपुत्रकलत्रादिविषयेषु जिहासा उत्पद्यते । अनन्तरं देहाभिमानं परित्यज्य सद्गुरोः उपदेशं प्राप्य श्रवण-मनन-निदिध्यासादिभिः परब्रह्मसाक्षात्कारं प्राप्नोति । ततः अज्ञाननिवृत्तिः, ततः संसारपाशात् मुक्तिश्च प्राप्य ब्रह्मस्वरूपत्वं प्राप्नोति । इयमेव मुक्तिः ।

विशिष्टाद्वैतमते[सम्पादयतु]

अस्मिन् दर्शने जीवात्म-परमात्मनोः भेदम् उल्लिख्य शेषशेषिभावम् उपस्थापयन्ति । जीवः ज्ञानस्वरूपः, असङ्ख्यातः, अणुः, अजः, नित्यः, शाश्वतः, अच्छेद्यः, अदाह्यः, अक्लेद्यः, अशोच्यश्च । जीवाः सर्वे परमात्मनः शरीररूपाः । प्रत्यक्त्वं चेतनत्वं कर्तृत्वम् इत्यादयः ईश्वर-जीवयोः सामान्यलक्षणम् । शेषत्वम् आधेयत्वं विधेयत्वं पराधीनकर्तृत्वं परतन्त्रत्वञ्च जीवस्य विशेषलक्षणम् । जीवः देहेन्द्रियमनःप्राणेभ्यः भिन्नः । मम शरीरम् इति व्यवह्रियते इत्यतः शरीरादपि भिन्नः । चक्षुषा पश्यामि श्रोत्रेण शृणोमि इति व्यवह्रियते इत्यतः बाह्येन्द्रियैः अपि भिन्नः । मनसा जानामि, मम प्राणाः, जानाम्यहम् इति व्यवह्रियते इत्यतः मनः-प्राणाः-ज्ञानम् इत्यादिभिः अपि भिन्नः । प्रत्येकस्मिन् शरीरे अपि जीवः विद्यते ।

देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी - आत्मसि

बद्धः मुक्तः नित्यः इति जीवः त्रिविधः । संसारात् मुक्ताः बद्धजीवाः । प्रकृतिसम्बन्धात् मुक्ताः शुक-व्यास-पराशर-अल्वारादयश्च मुक्ताः । प्रकृतिसम्बन्धरहिताः अनन्त-गरुड-विष्वक्सेनादयः भगवतः परिजनाः नित्याः । फलापेक्षां विना भगवत्प्रीतेः निमित्तं कर्तव्यभावनया क्रियमाणेन कर्मयोगेन ज्ञानयोगेन वा आत्मावलोकनं सिद्ध्यति । ततः भगवति भक्तिः प्रपत्तिः इत्येतेन मोक्षोपायेन आत्मा परमात्मनः अनुग्रहं प्राप्य देहावसानावसरे सुषुम्नानाडीद्वारा सुखेन प्रयाणं कृत्वा श्रीवैकुण्ठे आनन्दमये दिव्यमण्डपे सकलवैभवैः युक्तेस्य श्रीमहालक्ष्म्यासमेतस्य श्री परवासुदेवस्य सामीप्यं प्राप्य तत्र नित्यसूरिभिः नित्यकिङ्करः सन् परमात्मानुभवम् आनन्दम् अनुभवति । इयम् एव मुक्तिः ।

शक्तिविशिष्टाद्वैतमते[सम्पादयतु]

अत्र जीवात्म-परमात्मनोः भेदः उच्यते । जीवः अणुः, परमात्मा विभुः । जीवः असङ्ख्यातः । जीवाः परमात्मनः(लिङ्गरूपस्य) अंशाः (अङ्गानि) । सर्वज्ञत्वं नित्यतृप्तत्वम् अनादिबोधकत्वं स्वातन्त्र्यम् अलुप्तशक्तिमत्त्वम् अनन्तशक्तिमत्त्वम् इत्यादीनि परमात्मनः विशेषलक्षणानि । अस्वातन्त्र्यम् अनन्तत्त्वं देहेन्द्रियाद्यतिरिक्तत्वं पराधीनकर्तृत्वम् अंशत्वम् इत्यादयः जीवस्य लक्षणानि । जीवः चैतन्यस्वरूपः । सः मायाकारणतः अल्पज्ञः अल्पशक्तः अहङ्कारी च भवति । आणवमल-मायामल-कार्मिकमल-अहङ्कारादीनां द्वारा कर्मणा बद्धः सन् जन्मान्तराणि प्राप्नोति । लिङ्गधारणात्मकया शिवदीक्षया भक्त-महेश-प्रसादि-प्राणलिङ्गि-शरण-ऐक्यनामकानां षट्सोपानानां द्वारा मलत्रयनिवृत्तिं प्राप्य ब्रह्मसाक्षात्कारेण मुक्तिं प्राप्नोति । एतैः पाशैः बद्धः चेत् जीवः । एतैः मुक्तः चेत् सदाशिवः भविष्यति । एतैः पाशैः स्वातन्त्र्यप्राप्तिः एव मुक्तिः ।

"http://sa.wikipedia.org/w/index.php?title=आत्मा&oldid=227411" इत्यस्माद् पुनः प्राप्तिः