बौद्धदर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



गौत्तमबुद्धस्य प्रतिमा

भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।

अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-

मुख्यो माध्यमिको विवर्तमखिलं शुन्यस्य मेने जगत्
योगाचारमते तु सन्ति मतयस्तासां विवर्तोखिलः ।
अर्थोस्ति क्षणिकस्त्वसानुमितो बुद्धेति सौत्रान्तिकः
प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥

बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥ बौद्धदर्शनम् ऐतिहासिककालक्रमेण जैनदर्शनस्य परवर्त्ती अस्ति । अस्येदं कारणं वक्तुं शक्यते,यत् महावीरपर्यन्तं जैनतीर्थङ्कराणाम् अन्येषां दार्शनिकानां च साहित्ये कुत्रापि बौद्धदर्शनस्य उल्लेखो नास्ति,किन्तु महावीरस्य सिद्धान्ता बौद्धनिकायेषु उपलभ्यन्ते । अनेन सिद्ध्यति यत् बौद्धधर्मो जैनधर्मापेक्षया परवर्त्ती अस्ति । इदम् ऐतिहासिकं सत्यम् अस्ति ।
बौद्धदर्शनस्य प्रवर्तको भगवान् बुद्ध आसीत् । इयमपि ऐतिहासिकी घटनाऽस्ति । बुद्धस्य पूर्वनाम् सिद्धार्थ इत्यासीत् । अस्य जन्म ई.पू.२२६ इत्यवर्तत । अस्य पिता शक्यवंशीयो नृपः शुद्धोदन आसीत् । अस्य माता मायादेवी अस्य जन्मनः एकसप्ताहनन्तरमेव दिवङ्गताऽभवत् । अस्य जन्मसमये कपिलवस्तुनो राजज्योतिर्विद्भिः भविष्यवाणी कृता,यदमुष्य महाभिनिष्क्रमणं भविता,धर्मप्रवर्तकश्चायं भवेत् इति ।
तदनुसारमेव सिद्धार्थः एकोनविंशतिवर्षीयायां वयसि स्वपत्नीपुत्रौ परित्यज्य सांसारिकदुःखानाम् आत्यन्तिकविनाशाय उपायान्वेषणप्रयोजनात् राजभवनमपि त्यक्तवान् । सः चिरशान्तिलाभाय ज्ञानार्जनाय च गहनं वनं प्रविष्टवान् । ज्ञानान्वेषणप्रयत्ने सर्वप्रथमं सः सांख्यतत्त्वविदः अराडकलामस्य शिष्यत्वे सत्यानुसन्धानं कृतवान्,किन्तु असन्तुष्टे सति विविधस्थानेषु ज्ञानोपदेशानां श्रवणानन्तरम् उरुवेलायां कठोरं तपः कृत्वा आर्यसत्य- चतुष्टयं विज्ञातवान् । तस्मात्तस्य निखिलं कल्मषं विनष्टं बुद्धत्वञ्च सम्प्राप्तम् ।
तदनन्तरं सर्वप्रथमं सः सारनाथे कौण्डिन्यादीन् पञ्चशिष्यान् उपदिश्य धर्मचक्रं प्रवर्तितवान् । जनकल्याणाय तस्योपदेशानां भाषा मागधी आसीत् । धर्मोपदेशं कुर्वाणस्य तस्य अशीतिवर्षीयं दीर्घजीवनं वैशाखमासस्य पूर्णिमायाः पर्याप्तं महत्वं स्वीक्रियते यतो हि एषा तिथिः बुद्धस्य जन्मनिर्वाणयोः तिथिरस्ति ।
पिटकग्रन्थाः- वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।
सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बुद्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।
विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः धातुकथाः,धम्मसंगतिः,विभंगः,पट्ठान-प्रकर-णम्,कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।

बौद्धधर्मस्य आचारमीमांसा[सम्पादयतु]

सांसारिकदुःखेभ्यो मुक्तये भगवता बुद्धेन जटिलदार्शनिकताम् अनपेक्ष्य सरलतया आचारपद्धतिः प्रतिपादिता । बुद्धो गहनामाध्यात्मिकतां प्रश्रयं न प्रददाति स्म । अतः श्रावस्तीविहारस्य अवसरे मालुंम्यपुत्तेन अध्यात्मविषये बुद्धः पृष्टः । तदा बुद्ध आचारमार्गमेव उपदिदेश । बुद्धमतेन आर्यसत्यचतुष्टयं एवं प्रकारेण निर्दिष्टम्- (१) दुःखं (२) दुःखसमुदयः (३) दुःखनिरोधः (४) दुःखनिरोधगामिनी प्रतिपत्तिश्च । अर्थात् संसारः दुःखमयोऽस्ति, दुःखानां निदानमपि विद्यते,दुःखभ्यो मुक्तिरपि लब्धुं शक्यते,मुक्तिमार्गोऽपि निर्धारितोऽस्ति । केवलम् आर्यजना एव एतान् प्राप्तुं शक्नुवन्ति,अनार्यास्तु यावज्जीवनं दुःखेष्वेव जीवन्ति ।
बुद्धमतानुसरेण आर्यसत्यमार्गस्य द्वादशकारणानि सन्ति – (१) जरामरणम्, (२) जातिः, (३) भवः, (४) उपादानम्, (५) तृष्णा, (६) वेदना (७) स्पर्शः, (८) षडायतनम् (९) नामरूपम् (१०) विनयम् (११) संस्कारः (१२) अविद्या च । एषु प्रत्येकं पूर्वं प्रति परं कारणमविद्यत । उदाहरणार्थं जरामरणयोः कारणं जातिरस्ति, जातेः कारणं भवो,भवस्य कारणम् उपादानं भवति । एतानि द्वादशकारणानि आश्रित्य कार्यकारणभावस्य यः सिद्धान्तः प्रतिपादितोऽस्ति,सः बौद्धमते प्रतीत्यसमुत्पाद इत्युच्यते । प्रतीत्यसमुत्पादस्य तात्पर्यार्थो वर्तते – कस्यचिद्र् वस्तुनः प्राप्तौ अन्य्स्य वस्तुनः उत्पत्तिरिति । एवञ्चेत् अयं वस्तुतः सापेक्षः कारणतावाद इत्यपि वक्तुं शक्यते ।
प्रतीत्यसमुत्पाद एव बौद्धप्रतिपादितः कारणवादोऽस्ति । अयमेव मानवोत्पत्तिसन्दर्भे श्रृंखलाबद्धतां निर्दिशति । मानवोत्पत्तेः श्रृंखलायां द्वादश अङ्गनि त्रयः काण्डाश्चासन् । प्रथमकाण्डे अतीतेन जन्मना सम्बद्धं निदानं विद्यते,फलतः अविद्याजन्यसंस्कारा जायन्ते । द्वितीयकाण्डे वर्तमानजीवनेन सम्बन्धं निदानमस्ति यस्यान्तर्गतं विज्ञानतो भवपर्यन्तम् अष्टौ कारणानि जायन्ते । तृतीयकाण्डे भविष्यता सम्बद्धं निदानं भवति । तत्र जातिः जरामरणञ्चेति कारणद्वयं गृहीतमस्ति ।
तृतीयम् आर्यसत्यम् दुःखनिरोधात्मकमस्ति । तस्य तात्पर्यमस्ति यत् कार्यं कारणम् आश्रित्य तिष्ठति । चेत् कारणध्वंसः स्यात् तदा कार्यमपि स्वतो ध्वस्तं भवेत् । एवं चेत् मूलकारणरूपम् अविद्यां विद्यया उन्मूलितां कुर्यात् तदा तज्जन्यं किमपि कार्यं न भवितुं शक्नोति ।
चतुर्थम् आर्यसत्यं निर्वाण इत्यस्ति । अस्य प्राप्तै बुद्धेन मध्यममार्गस्य उपदेशः प्रदत्तः । अर्थात् निर्वाणप्राप्तये कठोरव्रतोपवासादीनामावश्यकता नापेक्षते,न च सर्वथा श्रमरहितम् आचरणं वा प्रशस्यते । उभयोर्मध्ये किमपेक्षणीयमिति विचार्य भगवता बुद्धेन यः मार्गः प्रतिष्ठापितः स एव मध्यममार्गोऽस्ति । अस्य मध्यममार्गस्य अष्टौ अङ्गनि सन्ति,अतएवायं अष्टाङ्गिकोमार्ग इत्यपि कथ्यते ।

अष्टाङ्गिकमार्गः[सम्पादयतु]

बुद्धप्रतिपादितस्यास्य मध्यममार्गस्य अष्टौ अङ्गानि एवं प्रकारेण सन्ति-सम्यक् व्यायामः,सम्यक् स्मृतिः,सम्यक् समाधिश्चेति । अस्य अष्टाङ्गिकमार्गस्य सम्यक् पालनेन निर्वाणः प्राप्यते,एतादृशी बौद्धानां मान्यताऽस्ति ।
एवं प्रकारेण भगवान् बुद्धः अविद्याया मूलकारणं मत्वा ज्ञानेन तत्परिमार्जनस्य महत्वं प्रतिपादितवान् । शुद्धं ज्ञानं शुद्धां मनोवृत्तिं विना नैव प्राप्यते । शरीरशुद्धये भगवता बुद्धेन शीलसमाधिप्रज्ञादीनां महत्त्वं प्रतिपादितम् । शीलस्य अन्तर्गतं अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाणां समावेशो भवति । अत्र नैतिकसुखसाधनानां परित्यागोऽपि गृहीतः । समाधिः द्वितीयं साधनमस्ति । समाधेः पूर्व जन्म-स्मृति-उत्पत्ति-विनाशादीनां ज्ञानं बाधकनियमानां बोधश्चापेक्षते । प्रज्ञा तृतीयं साधनमुच्यते । प्रज्ञाऽपि त्रिधा प्रतिपादिता-श्रुतमयी प्रज्ञा,चिन्तामयी प्रज्ञा,भावनामयी प्रज्ञा चेति ।

बौद्धचिन्तनस्य दार्शनिक आधारः[सम्पादयतु]

बौद्धदर्शनस्य यच्चिन्तनसमग्रं वर्तते तस्य आधारः अध्यात्मवादो नास्ति । बौद्धचिन्तनस्तु संघात-वादसत्तावादयोरेव विस्तारोऽस्ति । आत्मचिन्तनं दुःखनिवृत्तेर्मुख्यं साधनमस्ति,तथापि बुद्धेन आत्मनोऽस्तित्वमेव निराकृतम् । तन्मतानुसारेण आत्मा केवलं मनोवृत्तीनां पुञ्जमात्रमस्ति । यतोहि मानसप्रवृत्तिभ्योऽतिरिक्तं तस्यात्मतत्वस्य किमपि अस्तित्वं नास्ति । तत् आत्मतत्त्वन्तु रूप-वेदना-संज्ञा-संस्कार-विज्ञानादीनां पञ्चस्कन्धानां समुच्चयोऽस्ति । रूपं भौतिकः पदार्थोऽस्ति । कस्यपि वस्तुनः साक्षात्करः संज्ञा भवति । तया संज्ञया उत्पन्नयोः सुखदुःखयोरथवा औदासीनस्य भावो वेदना कथ्यते । भूतकालिकेन अनुभवेन उत्पद्यमानः,स्मृतिकारणभूतानां मानसिकप्रवृत्तीनां स्वभावः संस्कारोऽस्ति । अयमेव चैतन्यविज्ञानमिति नाम्ना ज्ञायते ।
आत्मनः स्वरूपं स्पष्टीकर्तुं नृपो नागसेनो मिलिन्दे रथस्य प्रत्येकम् अवयवस्य सम्बन्धे प्रश्नं करोति,मिलिन्दश्च प्रत्येकस्य प्रश्नस्य नकारात्मकम् उत्तरं प्रददाति । वस्तुतः स्वतन्त्ररूपेण अश्वाः रथं न सन्ति,न च वल्गा एव रथमस्ति,काष्ठमयं शकटमपि रथं नास्ति । एतादृश्यां स्थितौ रथस्य प्रत्येकम् अवयवाः रथं सन्तीति स्वीक्रियते। तथैव स्वतन्त्ररूपेण कश्चिदपि आत्मा नास्ति । अपितु व्यवहारे दृश्यमाणानां भौतिकाना मानसिकानाञ्च व्यापाराणां समूह एव आत्मा उच्यते ।
सन्तानवादः- बौद्धदर्शनानुसारं जीवो जगच्चेत्युभयमेव अनित्यमस्ति । इदं स्कन्धपञ्चकं स्थिरं नास्ति । क्षणे क्षणे चैतत् परिवर्तितं भवति । यथा दीपस्य ज्वाला सततमेकैव दृश्यते,किन्तु सा प्रतिक्षणं परिवर्तते । तदानीम् इदमनुभवोऽपि नैव जायते यत् तैलवर्तिकयोः संयोगाद् दृश्यमाणा दीपशिखा प्रतिक्षणं नूतनं तैलं वर्तिकांशञ्च ज्वालयितुं तस्मित्रेव प्रविष्टा भवति । एवं प्रकाशशिखारूपेण पूर्वतो विद्यमाना ज्वाला विनश्यत्येव । बौद्धदर्शने मुख्यतः परिणामस्य सिद्धान्तोऽभिमतोऽस्ति । अतो जगतःसत्यत्वमेकशोऽस्वीकृतम् अकुर्वाणैः तस्य परिणामात्मकता स्वीकृता । परिणाम एव सत्यमस्ति किन्तु अस्य परिणामस्य मूले किमप्यन्यत् सत्यतत्वं नास्ति । बुद्धस्य वैचारिक-सूक्ष्मताया एषाऽद्वितीया कल्पना वर्तते ।

बौद्धदर्शनस्य धार्मिको विकासः[सम्पादयतु]

बौद्धधर्मे महायानसम्प्रदायः थेरावादं स्वीकृतवान्,अतएव तस्य अपरा हीनयानसंज्ञाऽपि सञ्जाता। बौद्धधर्मस्य विविधेषु यानेषु बोधविषये अर्थात् जीवनमुक्तिनिरूपणविषये एकरूपता नास्ति । एषां त्रयाणां यानानां तिस्रो जीवनमुक्तयः सन्ति-श्रावकबोधिः, प्रत्येकबुद्धबोधिः,सम्यक् सम्बोधिश्चेति । एषां सर्वेषां साधनापद्धतिः भिन्नाऽस्ति । बौद्धदर्शनस्य विकासो बौद्धधर्मेण सह नैव जातः । यदा बौद्धधर्मस्य प्रचण्डः प्रचार आसीत् तदा बौद्धदर्शनस्य सिद्धान्ताः अस्तंप्राया आसन् । किन्तु यदा कदा बौद्धविदुषां बुद्धोपदेशानां गाम्भीर्ये प्रवेशो जातः,तदारभ्य बौद्धधर्मः स्वत एव शिथिलो जातः ।

चत्वारः सम्प्रदायाः[सम्पादयतु]

प्रारम्भे बौद्धदर्शनं चतुर्षु सम्प्रदायेषु विभक्तमासीत् । एषां सम्प्रदायानां नामान्यासन्-वैभाषिक-सम्प्रदायः,सौत्रान्तिकसम्प्रदायः,योगाचारसम्प्रदायः,माध्यमिक सम्प्रदायश्च ।

वैभाषिकसम्प्रदायः[सम्पादयतु]

वैभाषिकमतानुसारेण इन्द्रियजन्यज्ञानमयस्य बाह्मजगतो मिथ्यात्वं नैव भविंतु शक्नोति ।आन्तरतत्त्वस्य मनसोऽपि स्वतन्त्रा सत्ताऽस्ति । बाह्मपदार्थानां ज्ञानाय इन्द्रियाणाम् आन्तरतत्त्वेन सहयोगस्य आवश्यकता नास्ति । आन्तरतत्त्वान्यपि बाह्मपदार्थनिरपेक्षं ज्ञानं प्रति कारणभूतानि वर्तन्ते । एवमुभयोः पदार्थयोः स्वतन्त्रसत्ता सिद्ध्यति ।

सौत्रान्तिकसम्प्रदायः[सम्पादयतु]

सौत्रान्तिकमते बाह्मार्थानुमेयवादः स्वीक्रियते । एतदनुसारेण बाह्मपदार्था इन्द्रियज्ञानगम्या न सन्ति । यतो हि पदार्थाः क्षणिकाः सन्ति,परिणामस्वरूपं इन्द्रियार्थसन्निकर्षकाले ज्ञानानुभवकाले च पदार्थाः परिवर्तिता एव जायन्ते । अतएव तस्मिन् क्षणे पदार्थान्तरमेव अभिमुखं भवति । एवं बाह्मपदार्थानां सत्ता प्रत्यक्षगम्या नास्ति,अनुमानेनैव तद् विज्ञायते । अयं सिद्धान्त एव बाह्मार्थानुमायेववादो भवति ।

योगाचारसम्प्रदायः[सम्पादयतु]

योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्व एव स्वीकर्तुं नैव शक्यते,यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति,अतएव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चितं मनस् इत्याद्या विज्ञानस्यैव संज्ञाऽस्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते,मनःक्रिया सम्बन्धवशादेव मन इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।

माध्यमिकसम्प्रदायः[सम्पादयतु]

माध्यमिकानां सिद्धान्तः शून्यवादोऽस्ति । शून्यवादमतानुसारेण बाह्मपदार्थोऽपि सत्यं नास्ति,आन्तरपदार्थोऽपि सत्यं नास्ति,विज्ञानमपि सत्यं नास्ति । शून्यमेव सत्यं वर्तते । अथ शून्यम् किं अस्तीति विचार्यते ।शून्यं किं अभावोऽस्ति? अत्र माध्यमिकानां मतं वर्तते यत् शून्यं न तु भावरूपमस्ति,न चाभावरूपमेवास्ति । इदन्तु अनिर्वचनीयं विद्यते । सर्वेभ्यो भिन्नतया एवास्य शूनसंज्ञाऽस्ति ।
इदमेव बौद्धदर्शनस्यान्तिमं सत्यमस्ति । तथाहि सर्वप्रथमं वैभाषिकसम्प्रदायेन बाह्यार्थस्य प्रत्यक्षसत्ता स्वीकृता । तत्पश्चात् सौत्रान्तिकेन बाह्यार्थानुमेयवादस्य सिद्धान्तः प्रतिपादितः । तदनन्तरं योगाचारेण विज्ञानमात्रस्य सत्ता अङ्गीकृता । अन्ते च माध्यमिकेन शून्यमेव परमतत्त्वमिति संसाधितम् । एषु सम्प्रदायेषु वैभाषिकः हीनयानं स्वीकरोति,अवशिष्टाश्च त्रयः सम्प्रदायाः महायानं स्वीकुर्वन्ति ।

शून्यवादे सत्यस्य समीक्षा[सम्पादयतु]

शून्यवादिनां बौद्धानां मतानुसारेण सत्यं द्विविधमस्ति-व्यवहारिकं पारमार्थिकं च । लोकव्यवहारे प्रचलितं सत्यं व्यावहारिकं स्वीक्रियते । अस्यैव अपरं नाम सांवृतिकम् इत्यपि वर्तते । पारमार्थिकं सत्यं तु अनुपन्नम् अनिरुद्धम् अनुच्छेद्यम्,अशाश्वतं चास्ति । पारमार्थिकं सत्यं बुद्धिगम्यं नास्ति ।संवृत्तिर्नाम आच्छादनक्रियाया अस्ति। एवं सांवृत्तिकं तद्भवति यद् हि आच्छादकं भवति । आच्छादकं तत्त्वन्तु अविद्या वर्तते । तयैव अविद्यया यदा अन्यत् तत्त्वम् आच्छाद्यते,तदा व्यावहारिकस्य सत्यस्य उदयो भवति ।
बौद्धेरपि अविद्यास्वरूपिण्या मायायाः कार्यद्वयं स्वीकृतम्-(१) स्वभावदर्शनस्यावरणं (२) तत्र चासत्पदार्थस्वरूपस्यारोपणम् । शून्यवादिभिः सेवृत्तिरपि द्विधा विभक्ता-(१) तथ्यसंवृत्तिः (२) मिथ्यासंवृत्तिश्चेति । पदार्थस्य यथार्थं परिज्ञाने तथ्यसंवृत्तिर्भवति किन्तु अयथार्थज्ञाने मिथ्यासंवृत्तिरस्ति । उभयोः संवृत्योर्माध्यमेन गृहीतं ज्ञानं सांवृत्तिकं भवति । तदेव व्यावहारिकं सत्यमपि उच्यते । सांवृत्तिकं सत्यमेव पारमार्थिकसत्यस्य साधनमप्यस्ति ।
व्यावहारिकेण सत्येनेव पारमार्थिकस्य सत्यस्य बोधो जायते । जन्मतः कश्चिदपि पारमार्थिकसत्यस्य दर्शनं न करोति । अत्र पारमार्थिकं सत्यं निर्वाणरूपं भवति । निर्वाणस्तु एताद्रृशं तत्त्वं वर्तते यो हि अज्ञातो भवति,यस्य प्राप्तिरपि नूतना न भवति,यस्य विनाशोऽपि नैव जायते,यो हि न तु विराध्यति न चोत्पद्यते । अतएवासौ अनिर्वचनीयः कथ्यते । अस्यानिर्वचनीयतत्त्वस्य ज्ञातैव बौद्धमते तथागत इति नाम्ना विज्ञायते । बौद्धधर्मे व्यावहारिकपारमार्थिकसत्ययोराधारेणैव व्यावहारिक आदेशो दीयते ।
यदा साधकः पारमार्थिकसत्यस्यानुसन्धानेन एव तथागतस्य स्वरूपं शून्यतां च प्राप्नोति तदा स्वयं वर्णनातीतो भवति,यतो हि सः तदा अविद्या अस्पष्टे सति सर्वेभ्यो मतेभ्यो रहितोऽपि जायते । सः सर्वविधक्लेशेभ्यो ज्ञेयावरणेभ्यश्च मुक्तो भवति । किन्तु इदं सर्वं निर्वाणरूपं सम्यक् सम्बोधिं विना असम्भवमेवास्ति ।
सम्यक् सम्बोधिस्तु षट्पारमितानामुपलब्धेरनन्तरं प्राप्यते । षत् पारमिता एवं प्रकारेण प्रतिपादिताः- (१) ज्ञानं (२) शीलं (३) क्षान्तिः (४) वीर्यम् (५) समाधिः (६) प्रजा च । आसु षट्सु पारमितासु ज्ञान-शीलं-क्षान्तीनां सततम् अभ्यासेन पुण्यसंभारस्य प्राप्तिर्भवति । वीर्यसमाध्योरभ्यासेन ज्ञानसम्भारस्य प्राप्तिर्भवति ।उभयविधसम्भारेण प्रज्ञाया उदयोभवति । प्रज्ञापि उभयविधाऽस्ति-साधकरूपा फलरूपा च ।
यदा साधकः साधनभूतां प्रजां प्राप्य अभिमुक्तचरित संज्ञको भवति तदा उक्तज्ञानस्य आविर्भावे सति फलरूपा प्रज्ञा उत्पद्यते । प्रज्ञायाश्चरमोत्कर्षः एव बुद्धत्वप्राप्तिरस्ति । अस्यामेव अवस्थायां सर्वशून्यताया दर्शनं जायते । दुःखानाम् आत्यन्तिकी निवृत्तिरप्यत्रैव सम्भवति । शून्यतायाः प्रतीतौ सर्वविधधर्माणां स्वभावहीनता दृश्यते । माध्यमिककारिकायां गति-इन्द्रिय-स्कन्ध-धातु-दुःख-संसर्ग-कर्म-बन्ध-मोक्ष-काल-आत्मादीनां तत्त्वानां व्यावहारिकस्थितेः विश्लेषणं कृतमस्ति । तत्र शून्यवादिनाम् आचार्याणां तर्कपद्धतेः सूक्ष्मता स्पष्टरूपेण परि-लक्षिता भवति । इदम् अखिलं व्याख्यानं निषेधात्मकमेवास्ति । अनया पद्धत्या जगतः सर्वा अवधारणाः निःस्वभावाः सन्ति । अस्यैव सम्प्रदायस्य बुद्धपालितादिभिः शून्यतायाः सिद्धये तर्कस्य पूर्णतया तिरस्कारो विहितः । अतएव बौद्धदर्शनस्येतिहासे माध्यमिक इति प्रासङ्गिकनाम्ना अभिहितो वर्तते । वैदिकदर्शनानां मुक्तेरथवा मोक्षस्य स्थाने बौद्धा निर्वाणं प्रतिष्ठितवन्तः । बौद्धदर्शनस्य विविधैः सम्प्रदायैः निर्वाणस्य निरूपणं स्व-स्व-मान्यताया आधारेण कृतवन्तः । तथापि बौद्धानां चत्वारः सम्प्रदाया हीनयान–महायानयोः रूपेण विभक्ताः सन्ति । यतो हि हीनयाने निर्वाणस्य यत् स्वरूपं प्रतिष्ठापितमस्ति महायाने तद्भिन्नरूपेण प्रतिपादितमस्ति ।
हीनयाने निर्वाणस्य स्वरूपम्- हीनयानमतानुसारेण संसारः दुःखमयोऽस्ति । दुःखस्य त्रयः प्रकाराः सन्ति-दुःखदुःखता,संस्कारादुःखता एवं विपरिणादुःखता च । शारिरिकैः मानसिकैश्च कारणैः उत्पाद्यमान दुःखं दुःखतासंज्ञकमस्ति । उत्पत्तिशीलस्य विनाशशीलस्य च जगतः वस्तुभिः उत्पाद्यमानं दुःखं संस्कारदुःखता कथ्यते । यैः कारणैः सुखमपि दुःखरूपे परिणतं भवति तैः कारणैः उत्पद्यमानं दुःखं विपरिणदुःखता भवति । प्राणी विविध-दुःखेभ्यः कथं मुक्तोभवेत् इति विचार्य बुद्धेन चतुर्ण्णाम् आर्यसत्यानामुपदेशः प्रदत्तः । एषामार्यसत्यानाम् आचारण-मेव सांस्कारिकपदार्थानां नश्वरतायाः अनात्मतायाश्च ज्ञानं दुःखनिवृत्तेः सदुपायो वर्तते । एवम् अष्टाङ्गिकमार्गस्य अनुसरणं प्रथम उपायोऽस्ति,सांसारिकपदार्थान् प्रति ह्येताभावो द्वितीय उपायोऽस्ति,आत्मनोऽस्तित्वस्य अस्वीकृतिः तृतीय उपायोऽस्ति । एषाम् त्रयाणाम् उपायानाम् अनुपालनेन त्रिविधदुःखनाम् उन्मूलनं भवति । एतादृश्याम् अवस्थायां पुष्टजीवस्य पुनः बन्धरूपता न जायते । इयमेव अवस्था निर्वाणस्यास्ति ।
महायाने निर्वाणस्य स्वरूपम्- महायानमतानुसारेण निर्वाणस्य कृते उभयविधानाम् आवरणानां क्षयः आवश्यको भवति । क्लेशावरण-ज्ञेयावरणयोः क्षतिः क्रार्मकाऽस्ति । पूर्वं क्लेशावरणं नश्यति,तदनन्तरं ज्ञेयाव-रणस्य विनाशो भवति । हीनयाने स्वीकृतं निर्वाणस्य स्वरूपं महायानस्य दृष्टिकोणेन अपूर्णमस्ति,यतो हि क्लेशाव-रणस्य विनाशानन्तरमपि ज्ञेयावरणम् अवशिष्टं भवति ।
यद्यपि हीनयानमतेन क्लेशावरणविनाशेन आत्मनो निषेधो विहितः । यतो हि आत्मनः सुखादीनां कृते एव मानवस्य प्रवृत्तिर्जायते । अतएव दुःखादयो भवन्ति । आत्मदृष्ट्यैव इमे विषमपरिणामा भवन्ति । अतः आत्मनो निषेधे सत्येव दुःखानां स्वत एव नाशो भविष्यति । अयमेव हीनयानस्य नैरात्म्यवादो वर्तते । तस्य द्वौ भेदो कथितौ-पुद्गलनैरात्म्यवादो धर्मनैरात्म्यवादश्च । एवं पुद्गलनैरात्म्येन प्राणी स्वतः क्लेशमुक्तो भवति ।
एतद्विपरीतं जगतोऽभावात् सांसारिकपदार्थानां शून्यताया ज्ञानेन पारमार्थिक सत्यरूपिणो ज्ञानस्योपरितः आवरणं नश्यति । साधकोऽपि सर्वज्ञतां लभते । क्लेशेन मुक्तेरावरणं भवति,ज्ञेयावरणं च ज्ञेयपदार्थम् आ-वृणोति । उभयोरावरणयोर्विनाशेनैव सर्वज्ञता प्राप्तुं शक्यते । महायानसम्प्रदाये ज्ञेयावरणस्य निवारणोपायरूपेण सर्वशून्यतायाः प्रतीतिरभिमताऽस्ति । एवमेव हीनयाने अर्हत्प्राप्तीः परमोद्देश्यमस्ति,किन्तु महायाने बुद्धत्वप्राप्तिर्लक्ष्यभूता भवति । उभयोः सम्प्रदाययोरयमेव निर्वाणभेदः ।

आधाराः[सम्पादयतु]

  1. बौद्धदर्शनम्
"http://sa.wikipedia.org/w/index.php?title=बौद्धदर्शनम्&oldid=264725" इत्यस्माद् पुनः प्राप्तिः