कठोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Om symbol.png

कठोपनिषदः काठकोपनिषदित्यपि नाम वर्तते । कृष्णयजुर्वेदीया इयम् उपनिषत् । अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते ।

अन्तर्विषयाः

उपनिषत्सारः [सम्पादयतु]

इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । आरम्भस्तु नचिकेततत्पितोः सकाशात् भवति उशन् ह वै इत्यादिना आरभ्यते । वाजश्रवाः एकं विश्वजिद्यागं कुर्वाणः तदङ्गतया सर्वेभ्यः आगतेभ्यः ब्राह्मणेभ्यः दक्षिणां प्रयच्छति । तत्र काश्चन गाः पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सन्त्यः दुर्बला आसन् । ताः यदि ददाति पिता तर्हि निश्चयेन नीचं फलं प्राप्नोति तत्कारणात् नीचलोकानेव गच्छति यत्र आनन्दलेशोऽपि न भवति इति चिन्तयित्वा नदिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्व्ः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति । पितुः वचः मृषा मा भूत् इति कारणात् सः यमलोकं गत्वा यमस्य प्रतीक्षां करोति । यमः दिनत्रयानन्तरमागत्य स्वस्य विलम्बकारणात् ब्राह्मणकोपं सोढुं वरत्रयं प्रष्टुं सूचयति । पितुः शान्तताप्राप्तये प्रथमं वरं पृच्छति । द्वितीयेन वरेण अग्निविद्यां तृतीयेन च् आत्मविद्यां यस्मिन्निदं विचिकित्सन्ति इति मृत्युं प्रार्थयते । नचिकेतसः ग्रहणसामर्थ्य्ं दृष्ट्वा सः स्वयं अन्यमेकं वरं प्रदास्यति यत् अग्निविद्यायाम् अग्निः नाचिकेताग्निः इति नाम्ना ख्यायते । अन्ते च नचिकेताः प्रश्नमेकं पृच्छति –अन्यत्रधर्मात् अन्यत्राधर्मात् इत्यादिना ब्रह्मतत्त्वम् । तदा यमः सविस्तरं निरुपयति, न जायते म्रियते वा विपश्चित्, अणोरणीयान् महतो महीयान् इत्यादिद्वारा ।

आत्मनः निरुपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुध्दिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः । इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । आरम्भस्तु नचिकेततत्पितोः सकाशात् भवति उशन् ह वै इत्यादिना आरभ्यते ।

अविस्मरणीयाः मन्त्राः [सम्पादयतु]

श्रेयश्च प्रेयश्च मनुष्यमेतः
तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ ॥ कठ उपनिषद् – 1.2.2 ॥

उत्तिष्ठत जाग्रत
प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति ॥ कठ उपनिषद् – 1.3.14 ॥

आख्यायिका [सम्पादयतु]

प्रथमाध्यायस्य सारः [सम्पादयतु]

द्वितीयाध्यायस्य सारः [सम्पादयतु]

प्रधानमन्त्राः [सम्पादयतु]

आधाराः [सम्पादयतु]

बाह्यसम्पर्कतन्तुः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कठोपनिषत्&oldid=232106" इत्यस्माद् उद्धृतम्