ईशावास्योपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते ।

उपनिषत्सारः[सम्पादयतु]

शान्तिमन्त्रस्य सारांशः[सम्पादयतु]

इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।

मन्त्राणां सारः[सम्पादयतु]

अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव मुक्तिः । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् ।

आत्मनः स्वरूपम्[सम्पादयतु]

आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । आत्मा अत्यन्तं तेजस्वी अखण्डः अशरीरः शुद्धः निष्पापः च विद्यते । स्वीयसङ्कल्पमात्रेण सः सर्वासु दिक्षु विस्तृतः भवति । सर्वज्ञः सर्वव्यापकः सः स्वयम्भू परमात्मा अनन्तकालपर्यन्तं सकलसृष्टये यथायोग्यान् नियमान् विधत्तवान् अस्ति । अस्मिन् जगति केचन व्यक्तसृष्टेः ज्ञानमात्रं प्राप्य विषयसुखवाञ्छया तस्य एव उपासनं कुर्वन्ति । तैः अज्ञानान्धकाराः अवश्यम् अनुभोक्तव्याः भवन्ति । केचन व्यक्तसृष्टिः मिथ्या इति भावयन्तः अव्यक्तोपासकाः भवन्ति । ते अपि अज्ञानान्धकारे पतिताः भवन्ति । व्यक्ताव्यक्ताः पार्थक्येन पूर्णसत्यभूताः न । ते सत्यांशमात्राः । उभाभ्यां युक्तः परमात्मा पूर्णसत्यः । क्षराक्षरयोः समन्वयेन यः परमात्मनः साक्षात्कारं प्राप्नुयात् सः सृष्टेः ज्ञानेन मृत्युलोकं तीर्त्वा अव्यक्ततत्त्वस्य ज्ञानेन अमृतत्त्वं प्राप्नोति । तेजोयुक्तस्य सूर्यस्य मुखमण्डलं स्वर्णवर्णप्रकाशेन यथा आवृतं वर्तते तथा परमात्मनः सत्यस्वरूपम् अनेन मोहकेन विश्वेन विलोपितमस्ति । अतः साधकस्य प्रार्थना वर्तते - ’हे सर्वपोषकज्ञानसूर्य ! सत्यदर्शनाय इमां मोहकमायाम् अपसारयतु । ज्ञानप्रकाशं प्रसारय । भवति मया दृश्यमानः ज्ञानमयपुरुषः एव मयि अपि वर्तते । शरीरं नश्येत् किन्तु प्राणवायुः स्वतन्त्रः वर्तते’ । ’हे ! मनः कृतं कर्म स्मर्यताम् । हे अग्निदेव, मां सन्मार्गे प्रवर्तय । यतः कर्म-कर्मफलयोः ज्ञानं भवति विद्यते । पापमुक्तं करोतु । सहस्रशः नमस्काराः ।’ इत्येषः उपनिषदः सारः ।

प्रमुखाः शब्दाः[सम्पादयतु]

  • असुर्य - असुराणाम् अन्धकारयुक्तस्य
  • अर्शत् - गच्छत्
  • स्वित् - किञ्चित्
  • अपः - कर्मबीजरूपाणि कर्मशक्तयः
  • कवि - मन्त्रद्रष्टा
  • सम्भूति - अव्यक्तम्
  • असम्भूति - व्यक्तम्
  • धीराः - धिया राति इति
  • क्रतु - सङ्कल्पशक्तिः
  • राय - सत्फलम्
  • वयुनानि - कर्मफलानि

ईशावास्योपनिषदः महत्त्वम्[सम्पादयतु]

  • इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति । अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते ।
  • प्रतिस्वरं तत्त्वार्थयुक्तः विद्यते । अस्य अपारं मन्त्रसामर्थ्यं विद्यते । तेषां मन्त्राणाम् अभ्यासेन मन्त्रद्रष्टॄणाम् अध्यात्मिकस्थितिः प्राप्तुं शक्या ।
  • शतं वर्षाणि कर्माचरणं कुर्वन्तः एव जीवनं यापयेम । कर्मबन्धनात् मुक्तेः प्राप्त्यर्थमपि अयमेव मार्गः अनुसर्तव्यः । कर्माचरणावसरे अपि परमात्मनः एव इति भावः स्यात् ।
  • परमात्मनः ज्ञानं विना क्षराक्षरयोः ज्ञानेन नित्यानन्दकरी मुक्तिः न प्राप्यते । परमात्मनः साक्षात्काराय चित्सूर्यस्य उपासना विधेया ।
  • साक्षात् सत्यस्वरूपस्य दर्शनानन्तरम् अहम्भावस्य कल्पना विनश्यति । साक्षात्कारस्य प्राप्तिमात्रेण साधनं न समाप्यते । अन्तार्जागरायाः अनन्तरं शतशः प्रणम्य तस्य प्रसन्नता अस्माभिः सम्पादनीया ।
  • मोक्षसाधनमार्गे गमनावसरे कर्म इत्येतत् हस्तपादमिव, भक्तिः अन्तःकरणमिव, ज्ञानमित्येतत् नेत्रे इव भवन्ति । अन्तश्शक्तेः दृष्ट्या कर्म इत्येतत् अस्माकम् इच्छाशक्तेः सङ्कल्पशक्तेः बाह्यपरिणामः, भक्तिः प्रेमभावस्य परिणतिः, ज्ञानम् अस्माकं चिच्छक्तेः निजस्वरूपम् । परमात्मना अनुगृहीतानाम् एतासां शक्तीनां समन्वयनेन अस्माभिः परमात्मनः दिशि मोक्षाय धावनीयमित्येव अस्याः उपनिषदः सारः ।
  • आधुनिकजगति मानवानां विविधशक्तीनां प्रगतिः महता प्रमाणेन जाता विद्यते । किन्तु तदीया नैतिकाध्यात्मिकशक्ती न विकसिते । अहङ्कारः एव सर्वान् शास्ति । अस्याम् उपनिषदि प्रथमे श्लोके एव अहङ्कारस्य उपरि कुठाप्रहारः कृतः । ईशावास्यमिदं सर्वम् । तस्याः शक्तेः पुरतः त्वं क्षुद्राणुमात्रम् ।
  • व्यक्तित्वस्य अस्तित्वं नास्ति किम् ? इति चेत् द्वितीये मन्त्रे उच्यते - ’तया परमशक्त्या यत् अनुगृहीतं तावत् भवता भोक्तव्यम् । तदतिरिक्तं न भवतः । यत् न भवदीयं तत् न अपेक्षितव्यम् । भवदीयं कर्म कुर्वन् सत्कर्मचारी इव शतं वर्षाणि जीवेयम् इति इच्छावान् भवतु’ इति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ईशावास्योपनिषत्&oldid=265814" इत्यस्माद् पुनः प्राप्तिः