ईशावास्योपनिषत्
शुक्लयजुर्वेदीया इयम् उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका इयम् उपनिषत् ।
उपनिषत्सारः [सम्पादयतु]
इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति पूर्णमदः पूर्णमिदमिति शान्तिपाठने आरभ्यते । अत्र इदमवदेयं यत् अस्मिन् चराचरजगन्मण्डले यत्किञ्चित् दृश्यते श्रूयते वा सर्वत्र सर्वमपि सर्वशक्तिमता परमात्मना ईशा वास्यम् अर्थात् आच्छादनीयम् । एषः परमात्मा सर्वज्ञः सकलानां भूतानामधिपतिः सच्चिदानन्दघनश्च विद्यते । यच्च किञ्चित् प्राणिनां भोग्यं वस्तु दृश्यते तदपि परमात्मना व्याप्तं सत् निः श्रेयसे कल्पते ।इह प्राणधारिणः जीवस्य आविर्भाव्ः केवलं नैमित्तिकः । उभयमपि स्थावरजङ्गमं वस्तु जडात्मकत्वात् त्याज्यमेव । नामरुपात्मकेषु भोग्यपदार्थेषु जिज्ञासोः साधकस्य कृते त्यागः सर्वथा आवश्यकः एव । या च परमात्मना अस्मदर्थं दत्ता सम्पत् सा त्यागेन भोक्तव्या भवति ।
यदि साधकः निष्कामः सन् कर्मानुष्ठानं कर्तुमिच्छति तर्हि नूनमसौ शतं वर्षाणि जीवुतुम अर्हति ।अत् उक्तम्, कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः इति ।अन्यथा कर्मणा बध्दः आवर्तादावर्तान्तरं व्रजन् नैव निर्वृतिं प्राप्नोति । ये च आत्महनः भवन्ति अर्थात् आत्मविषये अज्ञाः भवन्ति ते नीचलोकान् गच्छन्ति यत्र च तमसा दुःखेन च् आवृताः भवन्ति । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । एतस्यानन्तरं विद्याविद्यानां सम्भूत्यसम्भूतीनां च उपासनमुक्तम् । तत्र विद्या इत्यनेन देवताज्ञानमुच्यते अविद्यया च कर्म उच्यते । उभयोरपि विविच्य अनुष्ठानेन अन्धं तमः प्रविशन्ति उपासकाः । यदि समुच्चयानुष्ठानं कुर्वन्ति तर्हि मृत्युं तीर्त्वा देवताज्ञानं प्राप्नुवन्ति । एवमेव सम्भूत्यसम्भूत्योः अपि सम्भूतिः- हिरण्यगर्भोपासनम्, असम्भूतिः –प्रकृत्युपासनम् । विविच्यानुष्ठानेन अन्धतमः प्राप्तिः । सहानुष्ठानेन अणिमादि-ऐश्वर्यप्राप्तिः प्रकृतिलयः च भवतः । अन्ते सूर्यस्य स्तुतिः देहत्यागसमये क्रियमाणा उच्यते ।
बाह्यसम्पर्कतन्तुः [सम्पादयतु]
| Wikisource has original text related to this article: |
- Text in Sanskrit/Devanagari on wikisource.org
- Isha Upanishad Text in Sanskrit/Devanagari with commentary by Swami Dayanand Saraswati
- Isha Upanishad Sri Aurobindo on Isha upanishad.
- GRETIL etext
- Isha Upanishad translation and commentary by Swami Paramananda
- Isa Upanishad A translation by Swami Nikhilananda
- Isha Upanishad as Shukla Yajurveda Adhyaya 40 (White Yajurveda Chapter 40) A translation by Ralph T.H. Griffith, 1899
- Isa Upanishad Gujarati translation and commentary by Yogeshwarji
- Isa Upanishad
- Isha Upanishad translation by श्री अरविन्दः, 1910.
Also see this. Similar to the previous, but with slight grammatical variations. - Isha Upanishad Commentary by श्री अरविन्दः
- Isha Upanishad Commentary by Dr. CS Shah
- Isha Upanishad translation and commentary by P.K. Hari Hara Subramanian.
- Isha Upanishad translated by Swami Prabhavananda and Frederick Manchester.
- Isha Upanishad Invocation Translations Several translations of Purna, the Isha Upanishad Invocation.