माण्डूक्योपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
HinduismSymbol.PNG

माण्डूक्योपनिषत् (Mandukyopanishat) प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते । इयम् उपनिषत् अथर्ववेदे अन्तर्भवति । अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते । क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः । अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते ।

शान्तिमन्त्रः[सम्पादयतु]

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः।
व्यशेम देवहितम् यदायुः।
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः॥

ओङ्कारस्य स्वरूपम्[सम्पादयतु]

'ओङ्कारः' इत्येतद् अत्यन्तं व्यापकः ब्रह्मनिर्देशः । सदसत्, क्षराक्षरम्, दृश्यादृश्यम्, आत्मानात्मा, चिदचित् इत्येतत् सर्वमपि ओङ्कारेण निर्दिष्टानि भवन्ति । अपि च आत्मानात्मातीतम् अनिर्देश्यसत्यमपि अनेन ओङ्कारेण एव निर्दिष्टं भवति । विद्यमानं सर्वमपि ओङ्कारः एव । ओङ्कारः एव सकलस्य अस्तित्वस्य निर्देशरूपः । ओङ्कारे सर्वम् अन्तर्भूतम् । सर्वमपि ओङ्कारः । ओङ्कारः एव सर्वम् ।

आत्मनः स्वरूपम्[सम्पादयतु]

ओङ्कारः निर्देशमात्रम् । निर्दिष्टं वस्तु तु आत्मा एव । सः आत्मा एव बहु रूपाणि धृत्वा विश्वे प्रवर्तते । आत्मा अनन्तरूपः इत्यतः असङ्ख्यरूपाणां धारणेन अपि नष्टः न भविष्यति । न केनापि दोषेण लिप्तः भवति । आत्मना अनेकानि विश्वानि सृष्टानि चेदपि तदीयं शुद्धस्वरूपम् अखण्डं तिष्ठति । आत्मनि अवस्थाभेदाः भवन्ति । किन्तु आत्मतत्त्वे भेदः न भविष्यति । न किञ्चित् परिवर्त्यते । अवस्थाभेदाः भवति चतुर्धा । अतः आत्मा अवस्थाचतुष्टयेन युक्तः इति निर्दिश्यते । मानवः चैतन्ययुक्तः आत्मज्ञानस्य प्राप्तौ समर्थः इत्यतः सः आत्मनः अवस्थाचतुष्टयमपि स्वस्य चित्ते अनुभोक्तुम् अर्हति ।

जीवात्मा[सम्पादयतु]

मनुष्ये आत्मतत्त्वं सूक्ष्मरूपेण निवसति । तेन अवस्थान्तराणि अपि प्राप्यन्ते । मनुष्ये विद्यमानम् आत्मतत्त्वम् एव जीवात्मा इति निर्दिश्यते । अयं जीवात्मा प्रतिदिनम् अवस्थात्रयम् अनुभवति । ताः एव जागृत्-स्वप्न-सुषुप्तिश्च ।

प्रथमा अवस्था[सम्पादयतु]

जागृदवस्थायां जीवात्मा स्थूलवस्तूनां तन्नाम पञ्चेन्द्रियैः गोचरचराणां वस्तूनाम् अनुभवं प्राप्नोति । अपि च तदा अस्य स्थूलदेहस्य अभिमानी भवति । रस-रक्त-मांस-मेद-अस्थि-मज्जा-वीर्य-इत्येतैः सप्तभिः धातुभिः युक्तम् इदं शरीरं जागृदवस्थायां युक्तस्य जीवात्मनः उपभोगसाधनम् । अस्याम् अवस्थायां स्थितम् आत्मानं वैश्वानरः इति निर्दिशन्ति । अस्याम् अवस्थायां जीवात्मा पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रियैश्च जगद्व्यापारं निर्वहति । मन-बुद्धि-चित्त-अहङ्कारतत्त्वैः युक्तः विद्यते ।

द्वितीया अवस्था[सम्पादयतु]

स्वप्नावस्थायां जीवात्मा लिङ्गशरीरस्य तन्नाम सूक्ष्मशरीरस्य अभिमानी भवति । सूक्ष्मेन्द्रियैः वासनानि उपभुङ्क्ते । एतस्यां स्थितौ मन-बुद्धि-चित्त-अहङ्काराः सूक्ष्मरूपेण वासनानाम् उपभोगे सहकुर्वन्ति । अस्याम् अवस्थायां विद्यमानं तैजसः इति निर्दिश्यते ।

तृतीया अवस्था[सम्पादयतु]

सुषुप्तावस्थां प्राप्तवान् जनः प्राज्ञः इति निर्दिश्यते । अस्यां स्थितौ बाह्यविषयोपभोगस्य आशा लुप्ता भवति । कापि वासना चित्ते न विद्यते इत्यतः जीवात्मा स्वप्नान् अपि न पश्यति । अस्याम् अवस्थायां वस्त्ववगमनसामर्थ्यं भवति इत्यतः प्रज्ञानं निश्चलं सत् घनं भवति । एषा स्थितिः चैतन्यघनस्थितिः इति निर्दॆष्टुं शक्यम् । अस्यां स्थितौ जीवात्मा शुद्धचैतन्येन चित्सुखम् अनुभवति । अस्यां स्थितौ जीवात्मा बाह्यव्यापाररहितः सन् स्वस्मिन् लीनः भवति इत्यतः तेन स्वीया आनन्दस्थितिः प्राप्यते ।

चतुर्थी अवस्था[सम्पादयतु]

इतः अतीता अवस्था एव तुरीयावस्था । अस्य अनुभवः सामान्यैः न प्राप्येत । योगाभ्यासेन, परमात्मप्रसादेन, गुर्वनुग्रहेण वा येन समाधिस्थितिः अनुभूता तेन तुरीयावस्था परिचिता स्यात् । एषा शुद्धा आत्मस्थितिः । जीवात्मा समस्तैः बन्धनैः विमुक्तः सन् अनन्ते परमात्मनि लीनः सन् अवर्णनीयम् अनुपमम् आनन्दम् अनुभवति अस्यां स्थितौ । त्रिगुणातीता अवस्था एषा । इयं स्थितिः इन्द्रियागोचरा, लक्षणरहिता, आत्मसाक्षात्कारेणैव ज्ञातुं योग्या इति च कवीनां निर्णयः । अस्यां स्थितौ सर्वे अपि व्यापाराः स्थगिताः भवन्ति । सम्पूर्णा शान्तिः अनुभूयते । केवलाद्वैतस्य अनुभवः भवति ।

ओङ्कारस्य पदमात्राविवरणम्[सम्पादयतु]

ओङ्कारः अकार-उकार-मकारैः युक्तः ।

अकारः[सम्पादयतु]

वैश्वानरः एव अकारः इति निर्दिश्य ऋषयः अकारस्य निरुक्तं वदन्ति । अक्षरेषु प्रथमम् इत्यतः अस्य ज्ञानेन (स्थूलसृष्टेः ज्ञानेन) सर्वं प्राप्यते इत्यतः अकारः इति कथ्यते ।

उकारः[सम्पादयतु]

तैजसः एव उकारसंज्ञकः । अस्य ज्ञानेन ज्ञानोत्कर्षः भवति, मनुष्यः समानः भवति, साम्यदृष्टियुक्तः भवति । उकारः, अकार-मकारयोः मध्ये समानरूपेण भवति इत्यतः तस्य ज्ञानेन मनुष्यः समानः भवति, सामदृष्टियुतः भवति इति उकारस्य निरुक्तिः उक्ता ।

मकारः[सम्पादयतु]

मकारं नाम प्राज्ञम् इति । सर्वासां शक्तीनां मापनसामर्थ्यम् अस्मिन् विद्यते एकरूपता विद्यते इति च मकारस्य निरुक्तिः उक्ता कविभिः ।

अयम् ओङ्कारः चतुर्थायाः तुरीयावस्थायाः संज्ञा इति उपनिषत्कारैः निरूपितम् अस्ति । सः मात्रारहितः, निरुक्तरहितः, शान्तः, अद्वैतश्च । तस्य ज्ञानमेव श्रेष्ठतमं ज्ञानम् । तस्य ज्ञानेनैव परमस्थितेः प्राप्तिः । चतुर्थावस्थायां स्थितिः एव निर्विकल्पसमाधिस्थितिः । आत्मवस्तु सर्वदा समानं सत् स्वस्य सङ्कल्पेनैव अवस्थाभेदं प्राप्नोति । इमाम् अवस्थां प्राप्य जीवात्मा कृतार्थः भवति । इदं सर्वं चैतन्यमयं, ज्ञानमयम् आत्मनः क्रीडामात्रम् इत्येतदेव अस्याः उपनिषदः सारांशः ।

शब्दार्थः[सम्पादयतु]

  • सप्ताङ्ग - मनुष्यशरीरस्य सप्त अङ्गानि - शिरः, मुखम्, चक्षुः, प्राणः, देहस्य मध्यभागः, मूत्रस्थानम्, गुदस्थानञ्च ।
- ब्रह्माण्डस्य सप्त अङ्गानि - द्युलोकः, अग्निः, सूर्यम्, वायुः, आकाशः, उदकम्, पृथ्वी च ।
  • एकोनविंशति मुखः - ५ कर्मेन्द्रियाणि, ५ ज्ञानेन्द्रियाणि, ५ प्राणाः, मनः, चित्तम्, बुद्धिः, अहङ्कारश्च ।
  • वैश्वानरः - स्थूलदेहाभिमानी चिदंशः वैश्वानरः इति निर्दिश्यते ।
  • तैजस - स्वप्नव्यापारनिरतः चिदंशः ।
  • प्रज्ञानघन - निबिडं चैतन्यम् । अन्येषां वस्तूनां ज्ञानप्राप्त्यवसरे चैतन्यं भवति विरलं तन्नाम चैतन्यशक्तिः प्रसृता भवति । किन्तु चैतन्यं ::स्वस्मिन् लीना भवति चेत् घनरूपतां प्राप्नोति । तदीया समग्रा शक्तिः केन्द्रे एकीभूता भवति ।
  • प्राज्ञ - सुषुप्तावस्थायाम् आनन्दम् उपभुज्यमानं चैतन्यं 'प्राज्ञ'नाम्ना व्यवह्रियते ।
  • अव्यवहार्य - निर्व्यापारः व्यवहारशून्यः
  • अव्यपदेश्य - इदम् इत्थम् इति निर्देष्टुम् अशक्यम् ।
  • उपशम - नाशः शान्तिः वा
  • ज्ञानसन्ततिः - ज्ञानरूपा सन्ततिः
  • निरुक्त - शब्दानाम् अर्थोत्पत्तिशास्त्रम्, व्युत्पत्तिशास्त्रम्

उपनिषदः वैशिष्ट्यम्[सम्पादयतु]

माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति । ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते । तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते । अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः । आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=माण्डूक्योपनिषत्&oldid=280261" इत्यस्माद् पुनः प्राप्तिः