व्याकरणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
येनाक्षरसमाम्नायम्धिगम्य महेश्वरात् ।
कृत्सं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥

किं नाम व्याकरणमिति चेत्, - वि+आङ्+करणम् - वि=विशेषेण(नियमद्वारा)आ=समन्तात्(समग्रेण)क्रियन्ते = व्युत्पाद्यन्ते शब्दाः, अनेन इति व्याकरणम् । मुखं व्यादाय (विदीर्य) ताल्वादिस्थानविवेकेन स्पृष्टेषत्स्पृष्टास्पृष्टनियमानुसारं च आक्रियन्ते=उच्चार्यन्ते शब्दाः इति वा । वर्णोच्चारणप्रक्रियादि शब्दानां प्रकृतिप्रत्ययनिरूपकं साधुशब्दनिगमनशास्त्रभूतं शाब्दबोधविधिविज्ञानं च व्याकरणम् । सारल्येन वदामः चेत् व्याकरणं नाम भाषानुशासनम् ।

शास्त्रत्वम्[सम्पादयतु]

वेदाध्ययने उपकारकाणि षडङ्गानि शिक्षा-कल्प-निरुक्त-व्याकरण-छन्दोज्यौतिषाणि प्रथितानि । एतेषु षट्सु अङ्गेषु व्याकरणं प्रधानम्‌ अङ्गं परिगण्यते । वेदाङ्गेषु व्याकरणम् प्रधानम् अङ्गम् अस्ति । प्रधाने च कृतो यत्नः फलवान् भवति, अतोऽध्येयं व्याकरणम् । वेद ज्ञानार्थम् अपि व्याकरणस्य अध्ययनम् आवश्यकं भवति । संस्कृतवाङ्मयपरम्परायां व्याकरणशास्त्रपरम्परापि अतीव प्राचीना वर्तते । वैदिकवाङ्मयमिव व्याकरणमपि अतीव पुरातनं विद्यते । वैदिकसाहित्ये ब्राह्मणसंहितारण्यकोपनिषत्सु अपि व्याकरणप्रतिपाद्यविषया: क्वचित्‌ क्वचित्‌ दृश्यन्ते । विस्तरेण व्याकरणविषया: तत्सम्बद्धविषयाश्च शिक्षाग्रन्थेषु प्रातिशाख्येषु निरुक्तेषु व्याकरणेषु च समुपबृंहिता: सन्ति । पाणिने: पूर्ववर्तिन: नैके वैयाकरणा: पाणिने: प्राक्‌ विविधं व्याकरणं तेनु: । पाणिनि: स्वयमेव दशानां पूर्ववर्तिनां वैयाकरणानां नामानि उल्लिलेख । एते दश वैयाकरणा: आपिशलि: काश्यप: गार्ग्य: गालव: चाक्रवर्मण: भारद्वाज: शाकटायन: शाकल्य: सेनक: स्फोटायनश्च सन्ति । तदतिरिच्य पाणिनिपूर्ववर्तिनां षोडशानाम्‌ अन्येषाम्‌ अपि वैयाकरणानां नामानि अन्यत्र लभ्यन्ते । एते षोडश वैयाकरणा: शिव: महेश्वर: वा बृहस्पति: इन्द्र: वायु: भरद्वाज: भागुरि: पौस्करसादि: चारायण: काशकृत्स्न: सनातन: व्याघ्रपाद: माध्यन्दिनि: रौढि: शौनक: गौतम: व्याडिश्च वर्तन्ते ।

व्याकरणाध्ययनस्य मुख्यप्रयोजनानि[सम्पादयतु]

कानि पुनरस्य शब्दानुशासनस्य प्रयोजनानि ? इति महाभाष्ये प्रश्नः उत्थापितः महाभाष्यकारैः । तैरेव समाधानं प्रदत्तं रक्षोहागमलघ्वसन्देहा: प्रयोजनम्‌ इति ।

रक्षा[सम्पादयतु]

रक्षार्थं वेदानाम् अध्येयं व्याकरणम् । लोपाऽऽगमवर्णविकारज्ञो हि सम्यक् वेदान् परिपालयिष्यतीति ।

ऊहः[सम्पादयतु]

ऊह: खल्वपि - न सवैर्लिङ्‌गैर्न सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिता:। ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः । तान्नावैयाकरण: शक्नोति यथायथं विपरिणमयितुम्‌ । तस्मादध्येयं व्याकरणम् ।

आगमः[सम्पादयतु]

आगम: खल्वपि - ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति। प्रधानं षडङ्गेषु व्याकरणम्‌ । प्रधाने च कृतो यत्न: फलवान्‌ भवति । फलार्थञ्चाध्येयं व्याकरणम्‌।

लघु[सम्पादयतु]

लघ्वर्थं चाध्येयं व्याकरणम् । ब्राह्मणेन अवश्यं शब्दा ज्ञेयाः इति। न चान्तरेण व्याकरणं लघुना उपायेन शब्दा: शक्या ज्ञातुम्‌ ।

असन्देहः[सम्पादयतु]

असन्देहार्थं चाध्येयं व्याकरणम्‌। याज्ञिका: पठन्ति - स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेति। तस्यां सन्देह: - स्थूला चासौ पृषती च - स्थूलपृषती, स्थूलानि वा पृषन्ति यस्या: सेयं स्थूलपृषती? इति । तान्नावैयाकरण: स्वरतोऽध्यवस्यति - यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुब्रीहि: । अथ समासान्तोदात्तत्त्वं ततस्तत्पुरुष इति ।

व्याकरणयस्य प्रमुखविषयाः

"http://sa.wikipedia.org/w/index.php?title=व्याकरणम्&oldid=281390" इत्यस्माद् पुनः प्राप्तिः