केनोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Om buttom.svg

केनोपनिषत् (Kenopanishat) प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति । कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।

द्वितीयं खण्डं चतुर्थखण्डस्य द्वित्रान् श्लोकान् विहाय अवशिष्टभागेषु भाषा अतीव सरला विद्यते । द्वितीयखण्डस्य क्लेशस्य हेतुः भवति तत्र उपयुक्ता सङ्क्षेपपद्धतिः । चतुर्थखण्डस्य क्लेशस्य मूलं भवति तत्र उपयुक्तानि पारिभाषिकपदानि ।

परब्रह्म अतीन्द्रियवस्तु विद्यते । सृष्टजगति विद्यमानानि सूक्ष्मतमानि वस्तूनि विविधैः यान्त्रिकोपकरणानां साहाय्येन द्रष्टुं शक्यानि, अभिज्ञातुं शक्यानि । किन्तु येन वस्तुना इयम् इन्द्रियशक्तिः निर्मिता वर्तते तस्य दर्शनं कथम् ? नेत्राभ्यां जगत् द्रष्टुं शक्यम्, किन्तु नेत्रयोः दर्शनं कथम् ? अतः एव तत् परब्रह्म नेत्रयोः नेत्रं, कर्णयोः कर्णः इति निर्दिष्टम् । नेत्रयोः नेत्रं नाम नेत्रदर्शनस्य सामर्थ्यं यस्मिन् विद्यते सः इत्यर्थः । नेत्रं यया शक्त्या द्रष्टुं शक्नोति तस्याः शक्तेः दाता, प्रेरकः वर्तते सः । अतः सः इन्द्रियैः अगोचरः, इन्द्रियातीतः च ।

आर्यऋषीणां दृष्टिः अत्यन्तं सूक्ष्मा आसीत् इति प्रतिपदम् अस्माभिः अवगम्यते । प्रत्येकस्मिन् विषये अपि मूलतत्त्वानाम् अन्वेषणं तेषां सहजः स्वभावः आसीत् ।

प्रथमखण्डः[सम्पादयतु]

इयमुपनिषत् सामवेदीयतलवकारब्राह्मणे नवमाध्यायान्तर्गता । अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकम् आरभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरूपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।

द्वितीयखण्डः[सम्पादयतु]

द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानस्य निवारणार्थं यदि मन्यसे इत्यादिना आरभते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौद्धप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।

तृतीयखण्डः[सम्पादयतु]

तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहरणरूपा । तत्रादौ परमात्मा यक्षरूपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्वं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितं किञ्चन तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्धानो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरूपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरूपेण । तस्य फलमपि उक्तं तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।

शब्दार्थाः[सम्पादयतु]

उपनिषत् - ब्रह्मविद्या
प्रतिबोधः - ध्यानम्
दभ्र - स्वल्पम्
जातवेदः - ज्ञानी (अग्नेः नाम)
अमृतत्त्वम् - नाशरहिता नित्यानन्दस्थितिः
यक्षः - अद्भुतं पूज्यं वस्तु
मातरिश्वन् - वायुः, अन्तरङ्गे सञ्चारकः
आधिदैविकम् - दैवशक्तिसम्बद्धम्
अध्यात्मिकम् - आत्मसम्बद्धम्
प्रतिष्ठा - आधारः
अभिक्ष्णम् - इष्टम्
वनम् - आनन्दरूपम्
ज्येयम् - श्रेष्ठम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=केनोपनिषत्&oldid=255532" इत्यस्माद् पुनः प्राप्तिः