केनोपनिषत्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
Om buttom.svg

इयमुपनिषत् सामवेदीयतलवकारब्राह्मणे नवमाध्यायान्तर्गता ।अस्यां परब्रह्मतत्त्वचिन्तनं गुरुशिष्योः प्रश्नप्रतिवचनद्वारा क्रियते । केन इति प्रश्नपूर्वकमारभ्यते इति कारणात् इदं नाम । इह जिज्ञासुः शिष्यः गुरुं पृच्छति, केनेषितं पतति इत्यनेन मनुष्यस्य यानि जडरुपाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च उभयविधानि भवन्ति, एतेषां शब्दादिविषयेषु नियोगः केन क्रियते ? तदा गुरुः प्रत्युत्तरति – यः सर्वज्ञः सर्वव्यापी परमात्मा एव अत्र सर्वाणि इन्द्रियाणि नियुङ्क्ते तत्तद्विषयेषु सः एव श्रोत्रस्य श्रोत्रम्, मनसो मनः इत्यादिना सर्वजगतः मूलरुपः । एतत् तत्त्वं विदित्वा धीराः अमृताः भवन्ति ।

द्वितीयखण्डः [सम्पादयतु]

द्वितीयखण्डे तावत् आदौ शिष्यस्य अहं ब्रह्म सुवेद इत्याकारकदुरभिमानवारणार्थम् यदि मन्यसे इत्यादिना आरभते । यतः ब्रह्मणः पूर्णज्ञानमस्यां संसारदशायां न भवति । यदा च त्रिपुटिलयः भवति तदा एव । यः मतमिति वदति तस्य निश्चयेन अमतं ब्रह्म । सर्वबौध्दप्रत्ययेषु अनुस्यूतं ब्रह्मतत्त्वं यः वेत्ति सः अमृतत्वं प्राप्नोति । इह चेदवेदीत् इत्यनेन ब्रह्मजिज्ञासाकर्तव्यता मानवे जन्मनि एव इति निश्चीयते ।

तृतीयखण्डः [सम्पादयतु]

तृतीयखण्डे तु आख्यायिका विद्यते देवानां दुर्महिमानगर्वप्रहाणरुपा । तत्रादौ परमात्मा यक्षरुपेण आविर्भवति । तद्विज्ञातुम् आदौ गच्छति अग्निः । गत्वा च स्वस्य गर्व्ं दर्शयति सर्वं दहेयं यदिदं पृथिव्याम् इत्यनेन । तदा यक्षेण स्थापितमेकं तृणमपि दग्धुमशक्तः प्रतिनिवर्तते । एवमेव वायुरपि आगत्य गर्वभङ्गपुरस्सरं प्रतिगच्छति । यदा इन्द्रः आगच्छति तदा यक्षः अन्तर्धानो भवति तस्मिन् स्थाने हैमवती उमा प्रत्यक्षा भवति । सा ब्रह्मतत्वस्य विषये वक्ति यत् देवानां गर्वभङ्गार्थमेव ब्रह्म यक्षरुपेण आगतम् इति । अन्ते च परब्रह्मोपासनमुक्तम् आधिदैविकाध्यात्मिकरुपेण । तस्य फलमपि उक्तम् तस्य साधकस्य कृते सर्वाणि भूतानि चिदानन्दमयानि भवन्ति । सर्वभूतानां प्रियतमो भवति अयम् ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=केनोपनिषत्&oldid=232385" इत्यस्माद् उद्धृतम्