गणेशः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Ganesha
God of wisdom and knowledge
Attired in an orange dhoti, an elephant-headed man sits on a large lotus. His body is red in colour and he wears various golden necklaces and bracelets and a snake around his neck. On the three points of his crown, budding lotuses have been fixed. He holds in his two right hands the rosary (lower hand) and a cup filled with three modakas (round yellow sweets), a fourth modaka held by the curving trunk is just about to be tasted. In his two left hands, he holds a lotus above and an axe below, with its handle leaning against his shoulder.
God of wisdom and knowledge
मृत्तिकागणेशः
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

गणेशः(Ganesha) प्रसिद्धा हिन्दुदेवताशिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।

नामानि[सम्पादयतु]

तस्य नामानि गणेशसहस्रनामनि वर्णितानि। कानिचन नामानि ः

  • गणेशः - गणानाम् ईशः
  • गणपतिः - गणानाम् पतिः
  • गजाननः - गजस्य आननं यस्य सः
  • गणाधिपः - गणानाम् अधिपः
  • विनायकः - विशिष्टः नायकः
  • विघ्नेशः - विघ्नानाम् इशः
  • एकदन्तः - एकः दन्तः यस्य सः
  • लम्बोदरः - लम्बम् उदरं यस्य सः
  • गजवक्त्रः - गजस्य वक्त्रं यस्य सः

वैशिष्ट्यानि[सम्पादयतु]

गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।

कर्णमस्तकञ्च[सम्पादयतु]

आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति 'श्रवणम्', तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् । द्वितीयसोपानं 'मननं' तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।

हस्ताः[सम्पादयतु]

गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।

शुण्डम्[सम्पादयतु]

शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल(वस्तुनिष्ठजगत्)-सूक्ष्म(पारमार्थिकजगत्)जगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण (स्थूलात् सूक्ष्मं प्रति) एव गमनीयेति जनान् सूचयति ।


उदरम्[सम्पादयतु]

महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति । तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः सर्वविधघटनाः अपि निश्चलमनसा जीर्णीकुर्याद् इति ।

पादौ[सम्पादयतु]

गणेशः सर्वदा एकस्य उपरि अपरं पादं संस्थाप्य उपविशति। एकः पादः भूमौ स्थितः भवति । तस्य व्यक्तित्वस्य कश्चन अंशः पार्थिवलोके भवति अपरः तु सर्वदा परमसत्ये एकनिष्ठतया स्थितः भवति। तथा मनुष्योऽपि पार्थिवलोके स्थित्वा योगबलेन मूलभूतात्मोपलब्धिं कर्तुं शक्नोति।

मूर्तिः[सम्पादयतु]

तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वारः बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकं च धरति। सः एकहस्तेन आशिषं ददाति।

विवर्तनम्[सम्पादयतु]

गणपतेः उल्लेखः प्राचीनतमे हिन्दुधर्मग्रन्थे ऋग्वेदे अस्ति। तत्र ऋक् मन्त्राः यथा-" गणानां त्वा गनपतिं हवामहे...."(२\२३\१) एवं "विषु सीदा गणपतेः"(१०\११२\९) गणपतेः धारणां जनयन्ति। यद्यपि पौराणिकगणेशस्य वर्तमाने पूज्यमानस्य गणेशस्य च भेदाः सन्ति तथापि नैके विशारदाः मन्यन्ते यत्-"गणपति-ब्रह्मणस्पति"-तः एव "गजवदन-गणेश-विघ्नेश्वर"स्य धारणा विवर्तितास्ति।(Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p.125)
ऋग्वेदकालिकस्य गणपतेः वृहस्पतिः, वाचस्पतिः इति च अपरनाम आसीत्। गणेशः सर्वदा नृत्यसंगीतकारीसमूहे (यच्च 'गणः’ इत्युच्यते) विराजमानः भवति । तथा देवतानां रक्षकरूपेणैव कल्पितः आसीत्।(Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p. 125-27)
भिन्नमतानुसारेण, भारतवर्षस्य आदिवासीजनैः पूजिता हस्तिदेवता एवञ्च लम्बोदरयक्षस्य कल्पनायाः मिश्रणेन एव गणेशस्य उद्भवः जातः ।

अवताराः[सम्पादयतु]

गाणपत्यसम्प्रदायस्य प्रधानग्रन्थौ द्वौ स्तः । गणेशविषयके द्वे उपपुराणे (गणेशमुद्गलश्च) पृथग्पृथकतया गणेशस्य क्रमशः चत्वारः एवं अष्ट अवताराः सन्ति इति कथयति ।-

गणेशपुराणम्[सम्पादयतु]

गणेशपुराणे उल्लिखितम् अस्ति यत् गणेशस्य सत्य-त्रेता-द्वापर-कलियुगेषु एवम् अवताराः भवन्ति -
महोत्कटविनायकः(सत्ययुगः), मयूरेश्वरः(त्रेता), गजाननः(द्वापरः), धूम्रकेतुः(कलिः)

मुद्गलपुराणम्[सम्पादयतु]

मुद्गलपुराणं गणेशस्य अष्टावताराणां विषये सूचयति यथा-
वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरः, विकटः, विघ्नराजः, धूम्रवर्णः इत्यादि।

दीर्घा[सम्पादयतु]

उपयोगार्थं मुक्तानां चित्राणां दीर्घा -

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गणेशः&oldid=279814" इत्यस्माद् पुनः प्राप्तिः