गणेशः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
|
|
|
परम्पराः
|
|
प्रवेशद्वारम्:सनातनधर्मः |
गणेशः शिवपार्वत्योः सूनुः भवति। सः विनायकः इति नाम्नि अपि प्रसिद्धः। सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।
नामानि [सम्पादयतु]
तस्य नामानि गणेशसहस्रनामनि वर्णितानि। कानिचन नामानि :
- गणेशः - गणानाम् ईशः
- गणपतिः - गणानाम् पतिः
- गणाधिपः - गणानाम् अधिपः
- विघ्नेशः - विघ्नानाम् इशः
- एकदन्तः - एक: दन्त: यस्य सः
- लम्बोदरः - लम्बम् उदरं यस्य सः
- गजवक्त्रः - गजस्य वक्त्रं यस्य सः
मूर्तिः [सम्पादयतु]
तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वार: बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकम् च धरति। सः एकहस्तेन आशिषं ददाति।
दीर्घा [सम्पादयतु]
उपयोगार्थं मुक्तानां चित्राणां दीर्घा -