योगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)

परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –

कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥

वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –

यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)

अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन । श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं भागत्रते

योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)

योगस्याङ्गानि[सम्पादयतु]

योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

योगस्याधिकारी[सम्पादयतु]

कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥ (गीता – ६/१७)

योगफलम्[सम्पादयतु]

योगात् परं वलं नास्ति । योगात् परो वन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिध्दसिध्दान्तपध्दतौ –

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।
शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥ (५/२१)

श्रीमद्भगवद्गीतायामपि शीकृष्णेन उक्तं यत् –

तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ (६/४६)

तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्

मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥(२/१०)

योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुध्द निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिध्दीनां प्राप्तिर्भवति ।

योगभेदाः[सम्पादयतु]

योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –

मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।
एक एव चतुर्धायं महायोगोऽभिधीयते ॥
  1. मन्त्रयोगः
  2. हठयोगः
  3. लययोगः
  4. राजयोगः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=योगः&oldid=270311" इत्यस्माद् पुनः प्राप्तिः