रमणमहर्षिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतमः। सः आत्मज्ञानप्राप्त्यर्थम् 'अहं कः?’ इति आत्मविचारविषयकस्य ज्ञानमेव प्रमुखं साधनम् इति बोधितवान् । अग्रे सः एव विषयः विस्तारितः भूत्वा गुरुं प्रति अथवा इष्टदेवतां प्रति शरणागतिः अपि उत्तमं साधनम् इति उक्तवान् । ये अन्यविधानानि अनुसरन्ति स्म तादृशेभ्यः साधकेभ्यः अपि सूचनां, मार्गदर्शनं च करोति स्म ।

जीवनम्[सम्पादयतु]

रमणमहर्षिः

तस्य पूर्वतनं नाम वेङ्कडरमण-अय्यर् । तमिळ्नाडुराज्यस्य मधुरै समीपस्य तिरुचुरिग्रामे जन्म अभवत् । पिता सुब्रह्मण्यअय्यरः माता अळगम्माळ । तेषां कुटुम्बस्य चतुर्षु पुत्रेषु एषः द्वितीयः । १८७६ तमे वर्षे तन्नाम षोडशे वयसि जातस्य आत्मप्रज्ञानुभवस्य अनन्तरं शास्वतरुपेण अरुणाचलं प्रति (तिरुवण्णामलै) आगतवान् । ततः शेषायुष्यं तत्रैव यापितवान् ।

बोधनम्[सम्पादयतु]

श्री रमणमहर्षिः आत्मविचारं तन्नाम , आत्मज्ञानप्रप्त्यर्थम् 'अहं कः?’ इति विचारस्य आत्मान्वेषणविधानम् उत्तमसाधनं भवितुम् अर्हति इति विचारं बोधितवान् । एतत् विधानं 'श्री रमण नुट्रिएट्टु’, प्रबन्धे विस्तरेण विवृतवान् अस्ति । आत्मविचारकं विधानं नाम बुद्ध्यात्मक व्यायामः इति अपार्थः न करणीयः इति उक्तवान् । योग्यरीत्या कृतः आत्मविचारः 'अहम् इति संवेदनाम् अतिरिच्य चिन्तनं विना सुभद्रतया,प्रखरतया च केन्द्रीकृतं भवति इति। स्व- आत्मविचारं सः एवं विवृतवान् अस्ति- “ मम मातुलस्य गृहे प्रथमे अट्टे एकस्मिन् प्रकोष्ठे उपविष्टवान् आसम्। अहं कदाचित् एव ज्वरपीडितः भवामि स्म । आरोग्ये अन्यः कोऽपि क्लेशः न आसीत् । तथापि हठात् मम मनसि मरणस्य भयम् उत्पन्नम् । एतस्य निमित्तं आरोग्यसम्बद्धः कोऽपि हेतुः न आसीत् । भयस्य कारणम् अन्वेष्टुम् अपि मनः न प्राभवत् । अहं मरणं प्राप्नुवन् अस्मि इति भावना उत्पन्ना । यदि मरणं सन्निहितं तर्हि किं करणीयम् इति चिन्तितवान् । मरणभीत्याः आधाततः अहम् अन्तर्मुखः अभवम् । स्तब्धः अहं मनसि एव विचिन्त्य स्वगतं एवम् उक्तवान् “ इदानीं मरणं सन्निहितं, मरणम् इत्युक्ते किं स्यात्? किं नश्यति, एतत् शरीरं नश्यति’ अनुक्षणं मरणं जातमिव नटनं कृतवान् । शरीरं ह्स्तौ, पादौ साक्षात् प्रसार्य, चलनेन विना शवः इव अनुसरणं कृतवान्। एतस्य विषयस्य वास्तविकतां ज्ञातुं श्वासं अवरुद्ध्य ओष्टौ दृढीकृत्य, (अहम् इति वा अन्यः वा शब्दः कदाचित् बहिः निस्सरेत् इति कारणतः ) यथा शब्दः न भवेत् तथा पिधानं कृतवान् । तदा स्वगतम् उक्तवान् “ सत्यम् एतत् शरीरं नष्टम्, एतस्य दहनं कुर्वन्ति, शरीरस्य दहनमात्रेण अहं मृतः इति अर्थः वा? 'अहम्’ इत्याख्यम् एव शरीरं वा? तत् तु मौनं जडं च। किन्तु अहं मम व्यक्तित्वस्य सम्पूर्णां शक्तिं तथा मयि विद्यमानम् 'अहम्’ इति स्वरः भिन्नौ इत्यस्य अनुभवं प्राप्तवान् । अतः एतस्मात् शरीरात् भिन्नं चैतन्यम् (चेतनं कदापि मरणं न प्राप्नोति)। तन्नाम 'अहं’ इत्यस्य मरणं नास्ति । सर्वदा चैतन्ययुक्तं भवति । एवं चिन्त्यमानाः विचाराः, एतादृशानि चिन्तनानि वा सामान्यानि न । जीवन्ति सत्यानि इति विषयः मनसि स्फुरितः। अहम् इत्येतत् किञ्चन सत्यम्। प्रस्तुतस्थितौ अहम् इत्यनेन एकेनैव सत्यत्वं प्राप्तम् आसीत् । अपि च शरीरेण प्रज्ञापूर्वकं योजिताः अंशाः सर्वे 'अहम् 'इत्यत्र केन्द्रीकृतानि आसन् । अनुक्षणं 'अहम्’ अथवा 'आत्मा’ इत्यंशः प्रबलः सन् सर्वं चिन्तनं तत्र केन्द्रीकृतम् अभवत् । मरणस्य भयं चिरम् अपगतम् । अहं नामकः विषयः आत्मप्रज्ञायाः महापूरे विनष्टः। तदारभ्य आत्मलीनता लुप्ततां विना अनुवर्तिता। इतरे विचाराः सङ्गीतस्य नादाः इव तदा तदा आगत्य गच्छन्ति स्म। किन्तु 'अहम्’ इति विषयःमूलश्रुतिः इव अनुवर्तिता। सा इतरनादानां मूलशिला इव नादानां योजनस्य श्रुतिः अभवत्।

अद्वैतसिद्धान्तं, रमणमहर्षिणः बोधनं च[सम्पादयतु]

श्री रमणमहर्षेः बोधने तथा शङ्कराचार्यणां विस्तृतेषु अद्वैतसिद्धान्तेषु च बहुसादृशम् अस्ति तथापि केचन भेदाः भवन्ति । • अद्वैतसिद्धान्तं नकारात्मकं 'नेति, नेति (एतत् न , एतत् न ) मार्गं सूचयति। श्रीरमणमहर्षिः सकारात्मकं 'अहं कः ?’ इति विचारं सूचयति । • अद्वैतसिद्धान्तम् आत्मानं विहाय आत्मरहिताः इतरकोशाः (अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च) त्यक्तव्याः इति बोधयति । रमणमहर्षिः “ अहं कः ? इति रुपस्य विचारः प्रमुखं साधनम् । मनसः शमनं कर्तुं अन्यः मार्गः नास्ति । यदि अन्यामार्गेण मनसः शमनार्थं प्रयतन्ते चेदपि तात्कालिकं शमनं जातं भवति किन्तु तस्य पुनरुत्थानं भवितुम् अर्हति” इति सूचितवान् ।

"

"http://sa.wikipedia.org/w/index.php?title=रमणमहर्षिः&oldid=275285" इत्यस्माद् पुनः प्राप्तिः