साङ्ख्यदर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(साङ्ख्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सांख्यदर्शनं (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति । प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिर्द्योत्यते, स तु प्रकर्षः तत्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका तर्हि मृत्तिकाभिन्नत्वेन तत्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।

शब्दनिष्पत्तिः[सम्पादयतु]

सांख्यशब्दस्य निष्पत्तिः सम् उपसर्गपूर्वकं ख्याधातोः सञ्जाता । अस्यार्थोऽस्तिसम्यग्विचाराणामुपस्थापकं शास्त्रम् । अस्मिन् एव शास्त्रे सर्वप्रथमं तत्त्वानां संख्या परिभाषिताऽस्ति । अत एवास्य नाम संख्यमित्यस्ति इत्यपि केचन प्रतिपादयन्ति तथापि एषा व्युत्पत्तिर्ग्राह्या नैव प्रतीयते । यतो हि एतद्विपरीतं प्रकृतिपुरुषयोर्भेदरूपस्य विवेकस्य ज्ञापकं शास्त्रं सांख्यशास्त्रमस्ति । पुरा इदं प्रसिद्धमवर्तत यत् सांख्यज्ञानं विना कश्चिदपि विद्वान् न भविंतु शक्नोति । स्वयं कपिलोऽपि आदिविद्वान् इति नाम्ना प्रसिद्धोऽस्ति । अन्यदर्शनानाम् अपेक्षया सांख्यस्य चिन्तनम् अधिकं मनोवैज्ञानिकम् अस्ति । यावत् इतरदर्शनानां दृष्टिर्न याति तावत् सांख्यस्य प्रारम्भो भवति । तात्त्विकदृष्ट्या यत्र न्यायवैशेषिकप्रभृतिभिर्दर्शनैः सूक्ष्मतत्त्वेषु विचारो विहितस्तत्र सांख्येन सूक्ष्मतमानि तत्त्वानि विचारितानि प्रस्तुतानि च । आचार्यपरम्परायाः दृष्टिकोणेन ग्रन्थपरम्पराया च प्रतीयते यत् सांख्यमेव अपेक्षाकृतम् अधिकप्राचीनं समृद्धं चास्ति ।

सांख्यदर्शनस्य तत्त्वमीमांसा[सम्पादयतु]

सांख्यशास्त्रे मुख्यतः त्रीणि तत्त्वानि प्रतिपादितानि सन्ति-व्यक्ततत्त्वम्, अव्यक्ततत्त्वं, ज्ञप्तत्त्वञ्च । एषां त्रयाणां तात्विकेन विज्ञानेन एव दुःखानाम् आत्यन्तिकी निवृत्तिर्भवति । व्यक्ततत्त्वानि त्रयोविंशतिर्वर्तन्ते । महत्, अहङ्कारः, मनस्, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च तन्मात्राः, पञ्च महाभूतानि चेति । मूलप्रकृतिरव्यक्तमस्ति सा च जडात्मिका विद्यते । ‘ज्ञ’ संज्ञकं पुरुषतत्त्वं व्यक्ताव्यक्तयोः परे तिष्ठति । एवं पञ्चविंशतितत्त्वानि[१] सांख्यस्य प्रतिपाद्यमस्ति । एषां सांख्योक्ततत्त्वानां वर्गीकरणं एवं प्रकारेण कृतं-मूलप्रकृतिरविकृतिरस्ति[२], महदाद्याः सप्त प्रकृतिविकृतयः सन्ति । षोडशतत्त्वानि न प्रकृतिर्वर्तन्ते न च विकृतिरेव सन्ति । पुरुषतत्त्वं न केनापि उत्पद्यते, न च कञ्चिद् उत्पादयति ।
सांख्योक्तं पुरुषतत्त्वं चेतनमस्ति । तदतिरिक्तानि व्यक्ताव्यक्तानि तत्त्वानि जडात्मिकानि सन्ति । पुरुषः निष्क्रियो निर्गुणो निर्लिप्तश्च वर्तते । यद्यपि अन्यानि चतुर्विंशतितत्त्वानि त्रिगुणात्मिकानि सन्ति तथापि पुरुषापेक्षया तानि अप्रधाननि वर्तन्ते । त्रिविधं तत्त्वमेव जगतः सूक्ष्मपदार्थारूपं भवति । त्रीणि तत्त्वानि एव कार्यकारणरूपेण परिणतानि सन्ति ।
सांख्यसिद्धान्तानुसारम् अस्य दृश्यमाणस्य जगतो मूले त्रयाणां गुणानाम् अवस्थितिरस्ति । अर्थात् सम्पूर्णं विश्वं सत्त्वरजस्तमसां परिणामोऽस्ति । एषां त्रयाणां गुणानां तारतम्येनैव वस्तुतः स्वरूपम् उत्पद्यते विनश्यति च । त्रिषु गुणेषु सत्त्वगुणः प्रकाशकोऽस्ति लघुश्च वर्तते । रजोगुणः चाञ्चल्ययुक्तः उत्तेजकश्च कथितः । तमोगुणः आवरणकः गुरुश्च विद्यते । संसारे सर्वेषां पदार्थानां त्रिगुणात्मकतया परिणामित्वं स्वाभाविकमस्ति । सांख्ये परिणामरहितं केवलं पुरुषतत्त्वमस्ति । पदार्थानां परिणामः त्रिविधः प्रतिपादितः – धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्च । धर्मपरिणामो यथा मृत्तिकया घटः, लक्षणपरिणामो यथा अतीतः वर्तमानः भविष्यत् वेति कालभेदः, अवस्थापरिणामो यथा बाल्य-यौवन-वार्धक्याद्या अवस्थाः ।
सांख्योक्ता प्रकृतिः नित्या सततपरिणामिनी अस्ति । एवं सत्त्वरजस्तामसां त्रयाणां गुणानां साम्यावस्था प्रकृतिः कथ्यते । एषैव व्यक्तावस्थायां सृष्टिरस्ति । सृष्टिः कार्यरूपा विद्यते । मूल प्रकृतिश्च तस्या कारणमस्ति । तथापि सांख्ये सत्कार्यवादस्य सिद्धान्तोऽभिमतः । सत्कार्यवादस्य सिद्धान्तानुसारेण कार्यं सत् वर्तते कारणे तस्य सत्वं सिद्ध्यति । कर्मणः कदापि विनाशो नैव भवति अपितु कारणरूपे तस्य तिरोभावो भवति ।

सत्कार्यवादः[सम्पादयतु]

ईश्वरकृष्णेन सत्कार्यवादस्य सिद्धिः एवं प्रकारेण विहिता-
(१) असदकरणात् - अर्थात् यत् सत् नास्ति तस्मिन् उत्पादनक्षमताया अभावो भवति यथा शशश्रृङ्गम् ।
(२) उपादानग्रहणात् - प्रत्येकं कार्यस्य कृते उपादानस्य ग्रहणं क्रियते यथा पटस्य कृते तन्तवः । कार्येण असम्बद्धं कारणं कदापि तत्कार्यम् उत्पादयिंतु न शक्नोति ।
(३) सर्वसम्भवाभावात् - केनापि कारणेन कस्यापि कार्यस्योत्पत्तिर्नैव भविंतु शक्नोति । अनेनेदं ज्ञायते यत् कार्यं कारणे कारणव्यापारात् पूर्वमपि विद्यमानं भवति ।
(४) शक्तस्य शक्यकरणात्- कस्मिंश्चिदपि कारणे तत्स्मम्बन्धिनं कार्यम् उत्पादयितुं क्षमता भवति । तदैव तत्कार्यम् उत्पद्यते । अर्थात् तत् कार्यं तस्मिन् शक्ते कारणे नित्यं स्थितं भवति । व्यापारेण सह तद्व्यक्तं भवति ।
(५) कारणाभावात् - कार्यं कारणे तादात्म्यसम्बन्धेन भवति, अतो यदि कारणमस्ति तर्हि तस्मिन् तादात्म्यसम्बन्धेन कार्यमपि विद्यमानं भवति । यतोहि यदि कारणं सत् अस्ति तर्हि तस्मिन् कार्यमपि सत् एव व्यक्तं भविष्यति । अन्यथा तु कार्यकारणयोः तादात्म्यसम्बन्धः असिद्धो भवेत् ।
एभिः कारणैः सिद्ध्यति यत् इदम् आखिलं जगत् अव्यक्तावस्थायाम् अव्यक्तप्रकृतौ तादात्म्यसम्बन्धेन स्थितं भवति । गुणवैषम्येण च उत्पन्नपरिमाणरूपं कारणं व्यापारान्तरं व्यक्तं भवति । न च नूतनरूपेण उत्पद्यते यथा कच्छपस्य अङ्गानि शीतसमाधेरनन्तरं व्यक्तानि जायन्ते सः च क्रियाशीलो भवति, शीतकाले पुनः आत्मनः अवयवानि निरोद्धुं निष्क्रियोऽपि भवति । एवमेव सांख्यमतेन सृष्टिः परिणामरूपिणि कार्यव्यापारे जाते जगद्रूपेण व्यक्ता भवति, कारणव्यापारे अवरुद्धे सति च सा स्वकारणेष्वेव तिरोहिता जायते ।
गुणानां साम्यावस्था एव प्रकृतिरस्ति । यद्यपि क्रियाशीलस्य रजोगुणस्य हेतोः साम्यावस्थायाः स्थैर्यम् असम्भवम् अस्ति तथापि गुणप्रभावात् तत् नियन्त्रितं भवति । तदा प्रकृतेरपि उपरामो भवति तथापि जीवानां जन्मजन्मान्तरयोः कर्म यथासमयं फलोन्मुखि भूत्वा तमोगुणस्य अवरोधम् अपाकरोति, येन रजोगुणस्वभावात् प्रकृतौ पुनर्विक्षोभः उद्भवति प्रकृतिरपि महादादिरूपेषु व्यक्ता जायते । इयमेव सृष्टिक्रमः । अस्मिन् सृष्टिक्रमे तमोगुणः अवरोधरूपेण संलग्नोभवति, रजोगुणः क्षोभकरत्वात् व्यस्तो भवति । यथाकालं स एव प्रधानरूपेण व्यक्तो भवति । पुरुषरूपिणः चैतन्यस्य बिम्बमपि तदनु रूपतया सात्त्विकसृष्टौ उपयोगि प्रतीयते ।
महत् तत्त्वम्- यद्यपि महत् तत्त्वमपि त्रिगुणात्मकमस्ति तथापि इदम् अध्यवसायात्मकम् अर्थात् निश्चयात्मकं भवति, इदं मूलप्रकृत्या उत्पद्यते अतः विकृतिरस्ति, किन्तु अनया अहंकारतत्त्वमपि उत्पद्यते, अतः प्रकृतिरप्यस्ति । महत् तत्त्वस्यैव अपरं नाम बुद्धिरस्ति । बुद्धिश्च द्विधा कथिता-सात्त्विकी, तामसी च । बुद्धेः सात्त्विकस्वरूपे धर्मो ज्ञानं विरागः ऐश्वर्यञ्चेति चत्वारि वैशिष्ट्यानि भवन्ति, बुद्धेः तामसिकस्वरूपे अधर्मः अज्ञानं रागः अनैश्वर्यञ्चेति चत्वारि तद्विरुद्धानि वैशिष्ट्यानि भवन्ति । इदं बुद्धितत्त्वमेव भोगस्य साधनमस्ति । इदमेव च प्रकृति पुरुषयोर्भेदं व्यनक्ति ।
अहङ्कारतत्त्वम्- बुद्धित्त्वात् अहङ्कारस्य उत्पत्तिर्भवति । इदम् अभिमानस्वरूपम् अहं इत्यादिरूपेण भावात्मकं चास्ति । यद्यपि सत्त्वादयः त्रयो गुणाः परस्परं विरुद्धाः सन्ति, किन्तु त्रयाणां परस्परं सहयोगं विना किमपि कार्यं न सम्पद्यते । अतएव त्रयाणां मध्ये एकस्य अवस्थानं न भवति केवलं प्राधान्येनैव तन्नाम गृह्यते । अहङ्कारेऽपि त्रयो गुणा निहिताः सन्ति । अयम् अहङ्कारो बुद्ध्या उत्पन्नो भवति अतः विकृतिरस्ति, किन्तु अस्मात् अन्येषां तत्त्वानाम् उत्पत्तिरपि जायते, अतः प्रकृतिरप्यस्ति ।
अहङ्कारोऽपि वैकृतो भूतादेरथवा तैजसभेदात् त्रिविधो भवति । एकादशेन्द्रियाणाम् अहङ्कारो वैकृत इत्युच्यते । अस्मिन् सत्वगुणस्य प्राधान्यं भवति । तमोगुणप्रधानोऽहङ्कारः भूतादिसंज्ञको भवति । अरमात् पञ्चतन्मात्रा उत्पद्यन्ते । रजोगुणप्रधानोऽहङ्कारस्तैजसो भवति ।
इन्द्रियाणि- सांख्यदर्शने एकादश इन्द्रियाणि अभिमतानि सन्ति । एषु पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि,मनश्च गृह्यन्ते । इमानि वैकृत-अहङ्कारात् उत्पन्नानि सन्ति अतएव अहङ्कारस्य विकृतिरुच्यते । एकस्यैव तत्त्वस्य एकस्वभावात् उत्पत्तेरन्तरमपि एकादशेन्द्रियाणां स्वभावे गुणपरिणामात् भेदोऽस्ति ।
ज्ञानेन्द्रियाणि पञ्च सन्ति-श्रोत्रं त्वक् चक्षुः रसना घ्राणं चेति । एतान्येव बुद्धीन्द्रियाणि उच्यन्ते । एषां विषयाः सन्ति-शब्दः स्पर्शः रूपं रसः गन्धश्चेति । कर्मेन्द्रियाणि अपि पञ्च वर्तन्ते-वाक्, पाणिः, पादौ, पायुः, उपस्थश्चेति । एषां विषयाः सन्ति-वचनम्, आदानम्, विहरणम्, उत्सर्गः, आनन्दश्चेति ।
मनः इन्द्रियम् उभयात्मकं भवति । यतो हि मनो विना ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च नैव प्रवर्तन्ते । यदा मनः ज्ञानेन्द्रियैः सह ज्ञानस्य विषयान् गृह्वाति तदा ज्ञानेन्द्रियं भवति, यदा च कर्मेन्द्रियैः सह क्रियोत्पादनं करोति तदा कर्मेन्द्रियं भवति । इदं सङ्कल्पविकल्पात्मकं भवति अतो यथा बुद्धिः निश्चयात्मिका भवति तदिदं निश्चयात्मकं न भवति ।
तन्मात्राः- अहङ्कारस्य तामसाद् रूपात् पञ्च तन्मात्रा उद्भवन्ति । ‘तन्मात्र’ शब्दस्य तात्पर्यमस्ति तदेव इति तन्मात्रम् । शब्दः स्पर्शः रूपं रसो गन्धश्च तन्मात्राः सन्ति । एता एव सूक्ष्मभूतान्यपि सन्ति । इमा अहङ्कारात् अभिव्यक्ताः सन्ति, अतः विकृतिरूपा वर्तन्ते । आभ्य एव स्थूलभूतानि व्यक्तानि भवन्ति, अतः प्रकृतिरूपा अपि सन्ति ।
पञ्चमहाभूतानि - पञ्च तन्मात्राभ्यः पृथकृ-पृथक् क्रमशः शब्दात् आकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसात् जलम्, गन्धात् पृथ्वी चेति पञ्चमहाभूतानि व्यक्तानि भवन्ति । इमे स्थूलपदार्थाः पञ्चतन्मात्राणां विकृतयः सन्ति । सांख्यशास्त्रे कथिता इमे सर्वे व्यक्तपदार्थाः अनित्याः सन्ति । एषु आश्रितत्त्वमपि विद्यते । एते लिङ्गरूपा अर्थात् हेतुभूता अपि सन्ति । इमे त्रिगुणात्मकाः प्रकृतिकार्यतया जडाश्चापि वर्तन्ते ।

मूलप्रकृतेरस्तित्वे प्रमाणानि[सम्पादयतु]

व्यक्ततत्त्वानि परिमितानि सन्ति किन्तु मूलप्रकृतिः व्यापिकाऽस्ति । व्यक्ततत्त्वानाम् अनेकत्वे या समन्वयात्मकता विद्यते तयापि मूलप्रकृतेः सिद्धिर्भवति । शक्यनुकूलया प्रवृत्त्या अपि मूलप्रकृतिः सिद्ध्यति । सृष्टौ कार्यकारणभावेनापि मूलकारणतया प्रकृतेः सिद्धिर्भवति । जगतः नानात्वे तत्कारणभूते अव्यक्ते च तादात्म्येनापि प्रकृतिसिद्धिर्जायते ।
अव्यक्ते प्रायः व्यक्तप्रकृतेः सर्वेषां धर्माणां विपर्ययो भवति । स एकः अनाश्रितश्चास्ति । अर्थात् अव्यक्तं व्यक्तापेक्षया प्रायेण भिन्नमस्ति, किन्तु ‘कारणगुणात्मकत्वात्कार्यस्य’ इत्याधारेण काश्चन विशेषता व्यक्ताव्यक्तयोः तुल्याः सन्ति । यथा त्रिगुणमचेतनमित्यादि ।

अहङ्कारविचारः[सम्पादयतु]

अहङ्कारस्योत्पत्तिः पूर्वमेव प्रतिपादिता । अयमहङ्कारः बुद्धिविशेषात्मकः । अहन्ता इति अहमाकारात्मिका बुद्धिः,इदन्ता इति इदमाकारात्मिका बुद्धिः अयं व्यवहारः एव बुद्धिविशेषः इत्युच्यते । अहन्ता बुद्धिं विना इदन्ताबुद्धिः नोदेति, अतः अहन्ताबुद्धिविशेषभूताहङ्कारस्योत्पत्तिरिति सिध्यति । अस्मिनप्यहङ्कारे सत्वादिगुणानामुत्कर्षापकर्षेण त्रयः भेदाः उत्पद्यन्ते । यथा, सात्विकभेदस्य वैकारिकः इति, राजसभेदस्य तैजसः इति, तामसभेदस्य भौतिकः इत्यभ्युपगमः । यत्र रजस्तमगुणयोः तिरोहितत्वेन उत्कृष्टत्वेन सत्वगुणः विराजते तत्र सात्विकाहङ्कारस्य स्थितिर्भवति । एवमन्यत्रापि । सात्विकाहङ्कारः रजोगुणसहायेन प्रवृत्त्यात्मकधर्मभूतानामेकादशेन्द्रियाणामुत्पत्तिं करोति । पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकं मनः इति एकादशेन्द्रियाणि । भवति चैवमहङ्गारविचारः ।

पुरुषतत्त्वम्[सम्पादयतु]

पुरुषतत्त्वं प्रत्यक्षानुमानादिभिः प्रमाणैः सिद्धं नैव भवितुं शक्नोति तस्य सिद्धिः केवलं शब्दप्रमाणेनैव भवति । पुरुषतत्त्वम् अहैतुकंनित्यं सर्वव्यापि निष्क्रियं गुणातीतं चास्ति । पुरुषः एकोऽस्ति अनेको वेति विषये सांख्यशास्त्रस्य टीकाकारेषु पर्याप्तं मतभेदो दृश्यते । अस्य कारणमिदमस्ति यत् एकस्मिन् आत्मनि स्वीकृते सति लोके सर्वेषां प्राणिनाम् एक एव व्यापारो भवेत् किन्तु जन्म-मरण-करणादिक्रियाणाम् एकस्मिन् काले एव अनेकताम् अवलोक्य इदमेव वक्तुं शक्यते यत् प्रतिशरीरम् आत्मा भिन्नोऽस्ति ।

पुरुषतत्त्वस्य अस्तित्वे प्रमाणानि[सम्पादयतु]

पुरुषतत्त्वस्य सिद्धौ सांख्यशास्त्रं प्रायेण अनुमानस्य आश्रयं गृह्णाति । तत्रोक्तं प्रत्येकं संघातः अन्यस्य कृते भवति यथा विष्ठरथादि । जीवन्मुक्तदशायां गुणत्रयस्य अभावात् इदं दृश्यमाणं जगत् आधेयमस्ति । अस्य कृतेऽधिष्ठानस्य आवश्यकता भवति । इदं व्यक्तं जगत् योग्यमस्ति । अस्मै भोक्तुरावश्यकतया कैवल्यार्थ क्रियामाणं प्रयत्नं च दृष्ट्वा कस्यचित् चैतन्यतत्त्वस्यैवानुमानं भवति । इदं चैतसन्यतत्त्वं प्रतिशरीरं पृथक् पृथक् वर्तते ।
अस्यैव पुरुषतत्त्वस्य बिम्बः महत् तत्त्वे निपतति । तदा महत्तत्त्वं जडीभूतमपि चेतनवत् प्रतीयते । तदानीं तस्य बिम्बस्य प्रतिबिम्बः पुरुषे निपतति । तस्मात् पुरुषोऽपि बुद्धिधर्मभ्यो मुक्त इव प्रतीतिविषयो भवति । एषैव अविद्येति उच्यते । इदमेव बन्धस्य कारणमस्ति ।

प्रमाणतत्त्वमीमांसा[सम्पादयतु]

सांख्यदर्शने प्रमेयतत्त्वानां ज्ञानाय प्रमाणानाम् अनिवार्यता स्वीक्रियते । सांख्यमतेन प्रमाणानि त्रीणि सन्ति-दृष्टम्, अनुमानम्, आप्तवचनञ्चेति । इतरशास्त्रेषु यानि अतिरिक्तानि प्रमाणान्युक्तानि तेषामेषु त्रिष्वेव अन्तर्भावोऽत्र कृतः ।
प्रत्यक्षम्- सांख्यकारिकायां प्रत्यक्षस्य लक्षणमस्ति- प्रतिविषयाध्यवसायो दृष्टः । अर्थात् ज्ञानेन्द्रियाणां स्वस्वविषयैः सह यः संयोगोऽस्ति, तेनोत्पन्नं ज्ञानं प्रत्यक्षं भवति ।
अनुमानम्- तल्लिङ्गिपूर्वकमनुमानम् इति अनुमानलक्षणम् । अर्थात् यत्र लिङ्गेन लिङ्गिनो ज्ञानं विधीयते तत्र तत्प्रमाणम् अनुमानमिति उच्यते । अस्य त्रयो भेदाः सन्ति-पूर्ववत्, शेषवत्, सामान्यतोदृष्टं चेति । कारणेन कार्यस्य अनुमानं पूर्ववत् भवति, कार्येण कारणस्य अनुमानं शेषवद् भवति । अतीन्द्रियादिविषयाणां ज्ञाने सामन्यतोदृष्टम् अनुमानं भवति ।
शब्दप्रमाणम्- आप्तश्रुतिराप्तवचनतु इति शब्दप्रमाणस्य लक्षणम् अस्ति ।

मोक्षविचारः[सम्पादयतु]

निस्सङ्गः पुरुषः अविद्या च नित्यतत्त्वे स्तः । एतदर्थमनयोः संयोगोऽपि अनादिरेव मन्यते । प्रकृतिरपि अनादि जडा वास्ति । पुरुषस्य प्रतिबिम्बेन प्रकृतिरथवा तदुत्पन्नं महत् तत्त्वम् आत्मानं चेतनवत् अवगच्छति । एवं महतः प्रतिबिम्बः पुरुषे निपतति, ततः प्रकृतिधर्मान् पुरुषः स्वगतानेव अवगच्छति अर्थात् ये सुखदुःखादयः प्रकृताः परिणामाः सन्ति । पुरुषः तान् जानाति । अनेन सः कर्त्तृभोक्त्रादिरूपेण विज्ञायते । अयमेव पुरुषस्य अयथार्थरूपः बन्धोऽस्ति । पुरुषोऽस्मात् कल्पितबन्धनात् मुक्तो भूत्वा आत्मनः स्वरूपम् अभिज्ञातवान् । प्रकृतेः स्वरूपज्ञानमेव विवेकख्यातिरस्ति । उभयोः प्रकृतिपुरुषयोः आत्मनः स्वरूपे अवस्थितिरेव मुक्तिर्विद्यते ।
एवं जगत्कर्त्तृत्वादयः सर्वे धर्माः प्रकृतेरेव सन्ति । पुरुषस्तु साक्षिमात्रमस्ति । तस्य दृष्टृत्वम् अकर्त्तृत्वं भोक्तृत्वं चापि मन्यते । एतद्वीपरीतं सर्वे धर्माः मूलप्रकृतौ सन्ति । अथायं प्रश्नो जायते यत् प्रकृतिरचेतनाऽस्ति तथापि कर्तव्यरूपो धर्मस्तस्यां कथं घटते । अस्मिन् विषये ईश्वरकृष्णो लिखति-पुरुषस्य साक्षित्वे कर्त्तृत्वादयो धर्माः मूलप्रकृतावपि स्वाभाविकाः सन्ति । यथा धेनोः स्तनेषु वत्सवृद्ध्यर्थम् अभिवृद्धये जडमपि दुग्धं स्वतः प्रवर्तते । एवं प्रकारेण प्रतिपुरुषं मुक्तये प्रकृतिः स्वभावतो महदादेः सृष्टिं करोति । अत्र तस्य स्वकीयं किमपि स्वार्थम् न विद्यते ।

सूक्ष्मशरीरनिरूपणम्[सम्पादयतु]

एकस्मिन् जन्मनि मुक्तिः सम्भवा नास्ति इति विचारेण सांख्यशास्त्रे एतादृशी विचारधारा विकसिता यत् चेतनो जीवात्मा अनेकानि जन्मानि गृह्णाति । तदा प्रकृतिः बुद्धेरष्टभिर्भावैः सह एकस्मात् शरीरात् अन्यस्मिन् शरीरे प्रविष्टा भवति । एषा प्रक्रिया स्थूलशरीरेण सम्भवा नास्ति, अतः शरीरान्तः स्थितं यत् सूक्ष्मशरीरं वर्तते तदेव शरीरत् निष्क्रमणं करोति । सूक्ष्मशरीरे पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च तन्मात्राः, मनः, बुद्धिः, अहङ्कारश्चेति अष्टादशतत्त्वानि सन्ति । इदमेव सूक्ष्मशरीरं पुरुषस्य भोगाय नानारूपाणि धारयति । स्थूलशरीरं विना सूक्ष्मशरीरं भोगाय न क्षमते । सः स्थूलशरीरस्याश्रयम् अवश्यमेव गृह्वाति । इदं सूक्ष्मशरीरम् अप्रतिहतगतिकं भवति ।

सांख्यस्य आचार्यपरम्परा ग्रन्थपरम्परा च[सम्पादयतु]

(१) कपिलः तत्कृतं सांख्यसूत्रं तत्त्वसमाससूत्रं च- सांख्यदर्शनस्य प्रवर्तकः महर्षिः कपिलः अवर्तत । सांख्यतत्त्वानां सर्वप्रथमं विवेचनम् अनेनैव विहितम् । कपिलः पौराणिकेषु अष्टचत्वारिंशत्सु अवतारेषु परिगणितम् आसीत् । अनेनैव उपनिषद्भ्यः सांख्यतत्त्वानि पृथक् कृत्वा तानि सूत्ररूपेण आकलितम् । कपिलस्य विषये प्रायेणेदं प्रसिद्धमस्ति यत् सः निर्माणकायं धृत्वा आसुरिः सांख्यतत्त्वानाम् उपदेशं प्रददौ । कपिलस्य कर्त्तृत्वेनैव सांख्यसूत्राणां प्रसिद्धिरस्ति । सांख्यसूत्राणां रचना कपिलेनैव विहिता, किन्तु तेन आसुरये यः सांख्योपदेशः प्रदत्तः स एव सांख्यसूत्ररूपेण प्रचलितोऽभविष्यत् । कपिलस्य नाम्ना एकाऽन्या रचना तत्त्वसमाससूत्रमपि उपलभ्यते । तत्त्वसमासे केवलं द्वाविंशति सूत्राणि सन्ति । सांख्यसूत्रे तु सप्तत्रिंशदुत्तरपञ्चशतानि सूत्राणि षट्सु अध्यायेषु विभक्तानि सन्ति । अस्य प्रथमाध्याये सांख्यविषयस्य स्थापना विहिता । द्वितीयाध्याये प्रकृतेः कार्याणां निरूपणम् अस्ति । तृतीयाध्याये वैराग्यस्य प्रतिपादनमस्ति । चतुर्थाध्याये सांख्यतत्त्वबोधस्य उदाहरणमस्ति । पञ्चमाध्याये विमतपरिहारो वर्तते । षष्ठाध्याये सांख्यसिद्धान्तानां परिचयः प्रदत्तः ।
(२) आसुरिः- अयं कपिलस्य साक्षात् शिष्यः आसीत् । अस्य काचिदपि रचना नैवोपलभ्यते किन्तु स्याद्वादमञ्जरीग्रन्थे एकः श्लोकः आसुरेर्नाम्ना उद्धृतोऽस्ति, तेन ज्ञायते यत् आसुरेः काचिद् रचनाऽवश्यमेवासीत् इति ।
(३) पञ्चशिखः- अयम् आसुरेः शिष्यः आसीत् । सांख्यदर्शनमयं व्यवस्थापितवान् । अस्य रचना षष्टितन्त्र नाम्ना प्रसिद्धा वर्तते । ‘षष्टितन्त्र’ नामकरणस्य सन्दर्भे विदुषाम् विचारेण अनेकानि कारणानि वर्तन्ते । महाभारतेऽपि पञ्चशिखस्य सिद्धान्तानाम् उल्लेखोऽस्ति येन षष्टितन्त्रस्य प्राचीनता परिलक्ष्यते ।
(४) विन्ध्यवासी- विन्ध्यवासी सांख्यशास्त्रस्य प्रतिष्ठित आचार्य आसीत् । यद्यपि केचन विद्वास इदं प्रतिपादितवन्तो यत् विन्ध्यवासी एव ईश्वरकृष्णः आसीत् इति । किन्तु तेषामिदं मतं प्रामाणिकं नास्ति यतो हि अस्योल्लेखः भोजवृत्ति-श्लोकवार्तिक-मेधातिथिभाष्य-अभिनवभारति-इत्यादिषु ग्रन्थेषु स्पष्टरूपेण प्राप्यते । अस्य कस्याश्चिदपि रचनाया उल्लेख इतिहासे उपलब्धो नास्ति तथापि अतिवाहिकशरीरेण मृत्योरुपरान्तं जीवः क्वचिद् गच्छति अयं सिद्धान्तोऽनेन मान्यो नावर्तत ।
अस्मिन् एव कालखण्डे वार्षगण्यं, जैगीषव्यः वोढु, देवल प्रभृतीनां सांख्यविदुषामपि उल्लेखः प्राप्यते किन्तु प्रामाणिकसामग्र्याः अभावे तेषामेतिहासिकस्थानस्य निर्धारणं कठिनमस्ति । यद्यपि वार्षगण्यः पञ्चपर्वाया अविद्यायाः प्रवक्तृरूपे वाचस्पतिमिश्र उल्लिखितवान् । महाभारते असितदेवलयोः संवादेन देवलस्यापि व्यक्तित्वं सिद्ध्यति । (५) विज्ञानभिक्षुः- विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।
(६) ईश्वरकृष्णः- ईश्वरकृष्णः सांख्यकारिकायाः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना कनकसप्तति सांख्यसप्तति सुवर्णसप्तति चापि उच्यते ।
सांख्यकारिकायां द्वासप्ततिः कारिकाः सन्ति । आसु कारिकासु आचार्यगौडपादस्य गौडपादभाष्यमुपलभ्यते । सांख्यकारिकायाः अनेके टीकाग्रन्थाः अपि विद्यन्ते । वाचस्पतिमिश्रस्य सांख्यतत्त्वकौमुदी, माठराचार्यस्य माठरवृत्तिः, शङ्कराचार्यस्य जयमङ्गलाटीका टीकाग्रन्थेषु विशिष्टा वर्तन्ते । नारायणतीर्थविरचिता चन्द्रिकाटीका, हरिहरारण्यककृता सांख्ययोगसरलाख्या बँगलाटीका, युक्तिदीपिका टीका चापि सम्प्रति उपलभ्यन्ते ।

सम्बद्धपुटानि[सम्पादयतु]

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६

आधाराः[सम्पादयतु]

  1. मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त ।
    षोडकस्तुविकारो नप्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका, ईश्वरकृष्णः. १
  2. मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त ।
    षोडकस्तुविकारो नप्रकृतिर्नविकृतिः पुरुषः ॥ सांख्यकारिका, ईश्वरकृष्णः. १

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=साङ्ख्यदर्शनम्&oldid=258279" इत्यस्माद् पुनः प्राप्तिः