साङ्ख्यम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
सङ्ख्यासम्बन्धिशास्त्रं साङ्ख्यम् । साख्यदर्शनस्य प्रणेता कपिलमुनिः । साङ्ख्यसूत्रग्रन्थः अनेन रचितः । किन्तु अधुना नोपलभ्यते । ईश्वरकृष्णस्य साङ्ख्यकारिका एव अधुना प्रामाणिकः ग्रन्थः । प्रकृतिमहदहङ्कारादिपञ्चविंशतितत्वानि सन्ति अस्मिन् शास्त्रे । पुरुषतः भिन्नम् ईश्वरम् एते नाङ्गीकुर्वन्ति अत्र प्रत्यक्षम् अनुमानं शब्दश्चेति प्रमाणत्रयम् अस्ति।