शब्दः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
SennMicrophone.jpg

जनाः जीवाः, जन्तवश्च यदा किमपि कार्यं कुर्वन्ति, किमपि अभिव्यक्तिं कुर्वन्ति, तदा तैः काचन क्रिया क्रियते, तया क्रियया वायुमण्डले काचन विकृतिः आगच्छति । वायुमण्डले (दबाब)बलम् आपतति । तेन वायुतरङ्गानामुत्पत्तिः जायते । अर्थात् यदा जीवैः काचन क्रिया क्रियते तदा तस्याः क्रियायाः वायुमण्डले प्रतिक्रिया- स्वरूपं किञ्चन कम्पनमुत्पद्यते । तदेव कम्पनं ध्वनिः इति कथ्यते । यद्यपि अस्माकं संस्कृतसाहित्ये ध्वनिरिति शब्दस्य व्यापकं वर्णनं कृतं वर्तते, विविधरूपेण ध्वनिशब्दस्यार्थोऽपि प्रतिपादितः वर्तते । परमत्र ध्वनिशब्दस्यार्थः भवति सामान्या ध्वनिः । अर्थात् यः श्रूयते तदेव ध्वनिः इत्यादयः । अर्थात् ध्वन्यते इति ध्वनिः । भवन्तु ते प्राकृतिकाः, मानवकृताः वा ध्वनयः । अस्योत्पत्तिः सर्वत्र अनायासेनैव भवति । कदाचिदयं विद्युल्लतया जायते, जलेन जायते, पवनेन जायते, वस्तुपतनेन जायते, वात्यया जायते, अद्या जायते, सागरेण वा जायते । मूलतः ध्वनिः कस्याश्चित् सामान्यप्रक्रियायाः परिणामः भवति ।

शब्दशक्तिः[सम्पादयतु]

शब्दतरङ्गाः

विश्वे बहव्यः शक्तयः वर्तन्ते द्युतिशक्ति, विद्युच्छक्ति, शब्दशक्तिः इत्यादयः । एतासु शब्दशक्तिविषये इदानीं किञ्चित् विचारयामः । वस्तुनः कम्पनात् शब्दतरङ्गाः उत्पत्स्यन्ते । एते तरङ्गावयौ प्रसार्य अस्माकं श्रुतिपथमागच्छन्ति । अत एव पुरातनाः “श्रोत्रग्राह्यो गुणः शब्दः” इति कथयन्ति स्म । शब्दस्य प्रसरणम् एवं भवति :-


ताडनेन वादनेन वा वस्तु कम्पितुम् आरभते । तदा तस्य अङ्गं विश्रान्तस्थितितः दक्षिणपार्श्वं प्रथमतः गच्छति इति भावयामः । अनेन समीपस्था वायुकणाः संपर्कम् अनुभवन्ति, गात्रसंकोचनं च । चित्रे “c“ इति प्रदर्शिताः भागाः सङ्कुचितभागाः। यदा कम्पितवस्तुनः अङ्गं वामभागं गच्छति तदा वायो अवकाशः वर्धते । तदा वायुगुणाः दूरं गत्वा विरलतं यत्र वायुसंमर्दं अल्पं वर्तते। वस्तुतः पुनः पुनः कम्पनेन वायौ क्रमशः संकोचं-विरलयोः रूपम् आविर्भवति, पुरतः चलति च, एवं शब्दः सर्वासु दिक्षु प्रसरति । अनेन एतत् स्पष्टं भवति यत् शब्दप्रसरणाय वायुरिव कस्यचन मध्यवर्तिनः आवश्यकता अस्ति । द्युतितरङ्गशब्दयोः अयमेव व्यत्यासः । द्युतितरङ्गाः शून्यकोशो अपि प्रसरन्ति । किन्तु शब्दः मध्यवर्तिना विना न गन्तुं शक्तः । अत एव शून्र्यात् प्रकाशः आगच्छति न शब्दः । अस्य विशदीकरणार्थं प्रयोगमेकं कुर्मः-

पारदर्शकभाजनमेकं स्वीकरोतु । तस्मिन् विद्युद्घण्डां निक्षिपतु । तस्यै विद्युत्पूरणेन घण्टा शब्दं कर्तुमारभते । घण्टाशब्दं सर्वत्र च प्रसरति । भजनेन सह वायुरेचकयन्त्रस्य संपर्कं कल्पयतु । यदा यन्त्रं कार्यम् आरभते तदा भाजने वायोः प्रमाणं कतिमानं प्राप्नोति । यथा यथा वायुः क्षीयते तथा त्तथा शब्दः अपि लघु भवति । यदा भाजने वायुः शून्यं भवति, तदा विद्युद्घण्डायाः ताडनं दृश्यते, किन्तु तस्य शब्दः बहिः नागच्छति । अतः शून्ये आकाशे शब्दः न प्रसरति। पुरातनाः ’ शब्दगुणकमाकाशम् ’ इति कथयन्ति स्म । किन्तु तत् न सत्यम् ।


द्युतितरङ्ग-शब्दतरङ्गयोः अन्यः व्यत्यासः विधते । द्युतितरङ्गाः वायौ अतिशीघ्रं प्रसरन्ति । तेषां वेगः द्रवे घनवस्तुनि वेगाबाहुल्यं वहति । अनिलेषु वेगः कनिष्ठतमः । अस्यापि परीक्षणं साध्यम् । धूमशकट निलयं गत्वा, शकटस्य आगमशब्दः प्रथमतः मार्गगत अयःश्लाकेषु श्रूयते, तदनन्तरं वायौ । द्युतितरङ्गानामपेक्षया शब्दतरङ्गानां वेगः अत्यल्पः । अस्यापि प्रात्यक्षिकं साध्यम् । वर्षकाले विद्युतः प्रभां प्रथमतः पश्यन्ति जनाः, किञ्चित् कालानन्तरं मेघगर्जनं शृण्वन्ति किल । अनेनैव शब्दः पश्चादागच्छति इति निश्चीयते, शब्दवेगं सरलप्रयोगेन मातुं शक्यते । त्वद्गृहात् तव मित्रस्य गृहं प्रथमतः निखवरतया निर्धारय । उदाहरणार्थं दूरं १.१ किलोमीटर् भवतु। त्वं गृहस्य उपरिभागे स्थित्वा स्फोटकमेकं स्फोटय । यदा तव मित्रं स्फोटकस्य कान्तिं पश्यति, तदा घटियन्त्रं चालयतु । क्षणत्रयानन्तरं ( 3 seconds) सः शब्दं शृणोति चेत्, शब्दः तद्दूरं क्रमितुं एतावान् कालः अवश्यकः इति ज्ञायते । तदा शब्दस्य वेगः १.१ कि . मि /३ सेकेंड् = 1100 मी /3 = 366. 67 मी/से. भवति.।


अस्य प्रयोगस्य विविधवातावरणेषु पुनरावर्तनं करणीयम् । तदा एतत् स्पष्टं भवति यत् शब्दवेगः वातावरणस्य उष्णताम्, आर्द्रतां च अवलम्बते । एताभ्यां सह शब्दस्य तीव्रता कम्पन संख्यामनुसरति । तत्रापि यदि शब्दमूलं श्रोतुः समीप मागच्छति तदा तीव्रता वर्धयन्ति इव दृश्यते । शब्दमूलस्य अपसरणेन तीव्रतायाः ह्रासः अनुभूयते । एषः ’डाप्लर् परिणामः’ इति प्रसिद्धः । एनं परिणाममुपयुज्य वाहनानां वेगं विचारयन्ति, अतिवेगचालकानां शिक्षां दास्यन्ति च । एषः परिणामः द्युतिकिरणेषु अपि संभवति, किन्तु तस्य अतिवेगेन दर्शनं कष्टम् । शब्दस्य प्रतिफलनं चान्यं प्रमुखं लक्षणम् । पुरातनेषु देवालयेषु अस्य उपयोगः कृतः । स्तंभेषु स्वराणामाविर्भावः, अनेकवारं शब्दस्य पुनरावर्तिः इत्यादि रोचकाः अनुभवाः तत्र प्राप्यन्ते । यदि शब्दतरङ्गाः समानरूपेण पुनः पुनः प्रादुर्भवन्ति, तदा मधुरं शब्दं श्रुणुमः । इदमेव सङ्गीतम् । यदि समानरूपिता नास्ति तदा कठोरं भवति । विविधशब्दानां नामानि संस्कृते एवं सन्ति ।

शब्दग्राहकः मनुष्यकर्णः
जन्तवः शब्दाः
सिंहस्य गर्जनम्
वस्त्रपर्णानां मर्मरः
अश्वस्य हेषा
धेनोः विष्फारः
मेघस्य स्तनितम्
शुनकस्य भषणम्
पक्षिणः कूजनम्
भूषणानां शिञ्जितम्
वीणायाः क्वणतिः
गजानां बृंहणम्
डक्कादयः झर्झरः

शब्दस्यापेक्षया प्रकाशः बहुदूरं प्रसरति । शब्दतरङ्गेषु मध्यवर्तितः कणाः तरङ्गप्रसारस्य दिशायामेव कम्पयन्ति । एतादृशेषु तरङ्गेषु शक्तिव्ययः अधिकं वर्तते । अत एव वयं दूरस्य दृश्यं पश्यामः, किन्तु शब्दः न श्रूयते । आकाशवाणिदूरदर्शनादिषु शब्दतरङ्गान् विद्युत्कान्तीयतरङ्गानां साहाय्येन प्रेषयन्ति ।

एवमस्ति शब्दतरङ्गानां सामान्यपरिचयः । शब्दतरङ्गैः विना निर्जीवमिव भासते जगत् । अतः ’शब्दब्रह्म’ इति प्रयोगः वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=शब्दः&oldid=283923" इत्यस्माद् पुनः प्राप्तिः