छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

छन्दो वेदस्य पञ्चमाङ्गमस्ति । वेदाः सन्ति छन्दोबद्धाः, अतः तेषामुच्चारणनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम्। छन्दोभिधेनैतेनाङ्गेन छन्दसा सर्वेषामुच्चारणस्य विधिः, तदगतिप्रकारः, तद्गानरीतिश्च विदिता भवति। तस्माद्वैदिकमन्त्रोच्चारणप्रयोजनेन तदध्ययनं पूर्वमुचितम् । विना छन्दोज्ञानं यो वेदाऽध्ययनयजनयाजनादिकार्याणि करोति, तस्य तानि सर्वाणि कार्याणि न भवन्ति फलदायकानि । स्पष्टतया कात्यायनेन उक्तम् -

'यो ह वा अविदितार्षेयच्छन्दो दैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्त्ये वा पात्यते प्रमीयते वा पापीयान् भवति।'[१]

छन्दशब्दः छद् इति धातुना निष्पन्नः। छन्दसः आद्यः प्रवर्तकः आचार्यः पिङ्गलः । पद्यरचनायाः शास्त्रस्य छन्दः इति नाम । श्रुतिगतिनिरूपकस्य छन्दसो गमनानुकूलतदङ्गत्वमुच्यते पाणिनीयशिक्षायां छन्दः पादौ तु वेदस्य इत्यनेन । विफुलफलकस्य वैदिकवाङ्मयस्य कृत्स्नार्थवगतिश्छन्दः अवलम्बते । लौकिकवाङ्मयस्य त्वर्थप्रतीतेस्सुलभसाधनत्वेनेदमुपकरोति । स्तुतिपूजाप्रसादजननाद्यनेकार्थकं छन्दो नैकधा व्याख्यायत । छन्दांसि छादनात् इति निरुक्तोक्त्या वेदार्थावारकत्वेनेदं सम्प्रायुज्यतेति । मृत्युभीतानां देवानां वेदं प्रविश्य छन्दोभिरावृतत्वमुच्यते । तदुक्तं छान्दोभिरच्छादयन्यदेभिच्छादयंस्तच्छन्दसां चन्दस्त्वम् इति । वेदमन्त्राणां बाहुल्येन छन्दोपनिबध्दत्वात् कालान्तरे वेदापरपर्यायत्वेन छन्दश्शब्दः प्रयुक्तः। अतो वैदिकार्थे छान्दसप्रयोगः, छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः इति निरुक्तवाक्यञ्च तमर्थं द्रढयति ।

श्रुतिषु छन्दसो महनीयता भृशं गीता । असुरकृतेभ्यो विघ्नबाधाभ्यो रक्षकत्वात्तस्य, तच्छक्तिशाली सैनिक इव मतम् । उक्तञ्च —

'दक्षिणतोऽसुरान् रक्षांसि त्वष्ट्रान्यपहन्ति त्रिष्टुब्जिर्वज्रो वैरविष्टुद्।'

शब्दार्थः[सम्पादयतु]

'छन्दः' इत्येतस्य पदस्य व्युत्पत्तिरियम् — छन्दयति (पृणाति) इति छन्दो वा छन्दयति (आह्लादयति) इति छन्दः अथवा छन्द्यतेऽनेनेति छन्दः । छन्दांसिच्छादनाद् इत्येतद् यास्ककथनाद् वेदार्थवाचकं छन्दः इत्येतत्पदं छद् (छादने) धातोर्निष्पन्नम् । वेदावरणकारित्वात् छन्द इत्यस्य पदस्य युक्ततां दुर्गाचार्यः आह -

'यदेभिरात्मानमाच्छादयन् देवा मृत्योर्बिभ्यतः, तत् छन्दसां छन्दस्त्वम्॥'

वाक्यमिदं छान्दोग्योपनिषद्यपि पाठभेदेन प्राप्यते।[२] 'छन्दांसि छादनात्'[३] अस्यैवार्थस्य सम्पुष्ट्यां दुर्गाचार्यस्य पूर्वोक्तवाक्यमस्ति । 

इतिहासः[सम्पादयतु]

संहिताब्राह्मणेषु छन्दोनाम्न उमुपलभ्यत्वात् प्रतीयते यच्छन्दोऽङ्गस्य अपि उत्पत्तिः वैदिकयुग एव संवृत्ता । अस्य वेदाङ्गस्य प्रतिनिधि-ग्रन्थः पिङ्गलाचार्यकृतं 'छन्दःसूत्रम्' अस्ति। छन्दःसूत्रस्य रचयिता कदा बभूव ? अस्य पर्याप्तपरिचयस्य अभावोऽस्ति । ग्रन्थोऽयम् अष्टाध्यायेषु विभक्तः सूत्ररूपेऽस्ति । प्रारम्भात् चतुर्थाऽध्यायस्य सप्तमसूत्रपर्यन्तं वैदिकच्छन्दसां लक्षणं प्रदत्तमस्ति । तदनन्तरं लौकिकच्छन्दसां वर्णनमस्ति । अस्य ग्रन्थस्य हलायुधकृता ‘मृतसञ्जीवनी' व्याख्या प्रसिद्धाऽस्ति । प्रातिशाख्येषु, विशेषतः ऋक्प्रातिशाख्यस्य षोडशपटले, अष्टादशपटले च छन्दसां विस्तृतं विवेचनमस्ति ।

छन्दोबद्धानि गद्य-पद्यानि[सम्पादयतु]

लौकिककाव्येषु छन्दसः पादबद्धतायाश्च सम्बन्धम् एतावद्घनिष्ठमस्ति यत्, पद्यष्वेव छन्दसो योजना मन्यते, तथा गद्यन्तु छन्दोहीनरचनारूपेण सर्वस्वीकृतः भवति। वैदिकच्छन्दसो विषये धारणा इयम् अमान्याऽस्ति। प्राचीनार्यपरम्परानुसारेण गद्यमपि छन्दोबद्धरचना एव मन्यते । दुर्गाचार्येण निरुक्तस्य स्ववृत्यां[४] कस्याऽपि ब्राह्मणस्य वाक्यं समुद्धृतं, यस्य आशयोऽस्ति छन्दो विना वाणी समुच्चरिता न भवति — 'नाच्छन्दसि वागुच्चरति' इति। भरतमुनिनाऽपि छन्दोविरहितं शब्दं नैव स्वीकरोति -

'छन्दोहीनो न शब्दोऽस्ति, न छन्दः शब्दवर्जितम् ॥'[५]

कात्यायनमुनेः नाम्ना प्रख्यातं ऋग्यजुष-परिशिष्टं पूर्वोक्तं तथ्यं स्वीकरोति -

'छन्दोभूतमिदं सर्वं वाङ्मयं स्याद् विजानतः।

नाच्छन्दसि न चापृष्टे शब्दश्चरति कश्चन।।'

वेदस्य न कोऽपि एवंविधो मन्त्रोऽस्ति, यः छन्दसो माध्यमेन न निर्मितोऽस्ति । फलतो यजुर्वेदस्य मन्त्रोऽपि यो हि निश्चयेन गद्यात्मकोऽस्ति, छन्दोविरहितो नास्ति । तेन हि प्राचीनाचार्याः प्रथमाक्षरादारभ्य १०४ अक्षरपर्यन्तं छन्दसां विधानं स्वस्वग्रन्थेषु कृतवन्तः।[६] ऋग्वेदस्य सामवेदस्य च सर्वे मन्त्राः छन्दोबद्धाः सन्ति । हृदयस्थकोमलभावानाम् अभिव्यक्त्याः नैसर्गिकमाध्यमं छन्द एवास्ति । अन्तःस्थलस्य मर्मस्पर्शिनो भावस्य अभिव्यक्तीकरणाय कविगणाः छन्दसा कमनीयकलेवरम् एव अन्विष्यन्ति । मन्त्राणां प्रधानमुद्देश्यं यज्ञेषु उपास्यदेवतायाः प्रसादनकार्ये एवाऽस्ति, तथेदमपि निश्चयेन वक्तुं शक्यते यद् देवतायाः प्रसादनस्य प्रमुखसाधनं मन्त्राणां गायनमेव भवितुं शक्यते । मन्त्राणां छन्दोबद्धतया ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते अतश्छन्दोऽपि वेदाङ्गत्वेन स्वीक्रियते।

शौनकविरचिते ऋक्प्रातिशाख्ये चरमभागे छन्दसां पर्याप्तं विवेचनं विद्यते । अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनामा ग्रन्थः प्रसिद्धः अस्ति ।

वैदिकच्छन्दांसि[सम्पादयतु]

वैदिकानि छन्दांसि अनेकभेदोपभेदवन्ति सन्ति । प्रधानेषु वैदिकेषु छन्दःसु इमानि गण्यन्ते —गायत्री, उष्णिक्, अनुष्टुप्, प्रकृतिः, बृहती, पङ्क्तः, त्रिष्टुप्, जगती, अतिजगती, शक्वरी, अतिशक्वरी, कृतिः, अाकृतिः, विकृतिः, संस्कृतिः, अभिकृतिः, उत्कृतिश्च ।

वैदिकच्छन्दसां विशिष्टता इयं यत्, तानि अक्षरगणनायां भवन्ति नियतानि । न तत्राक्षराणां गुरुलघुक्रमस्य कश्चिन्नियमविशेषः । उक्तञ्च कात्यायनेन - 'यदक्षरपरिमाणं तच्छन्दः॥' किञ्च लौकिकसंस्कृतस्य छन्दःसु वार्तेयं नास्ति । तत्र तु वृत्तस्य अक्षराणां गुरुता लघुता निश्चितैवास्ति। शताब्द्यनन्तरं लौकिकच्छन्दसां विकासः पूर्वोक्तेभ्यो वैदिकच्छन्देभ्यो जातः । लौकिकछन्दःसु चत्वारः चरणाः भवन्ति, किन्तु वैदिकच्छन्दःसु नियमोऽयं न भवति ।

भारतीयाचार्याणां मतानुसारेण वैदिकच्छन्दसां लक्षणनिर्धारणे अस्य तथ्यस्य नाधिकं महत्त्वमस्ति यत् तस्मिन् कोऽक्षरो लघुर्वा कोऽक्षरो गुरुरस्ति । किञ्च, अाचार्यशौनकेनास्मिन् विषये विचारः कृतः । तस्य महत्त्वपूर्णं कथनमस्ति प्रातिशाख्ये[७] अष्टाक्षरस्य पादो गायत्रेः, द्वादशाक्षरस्य पादो जागतेः, उपोत्तमाक्षरो लघुर्भवति। दशाक्षरस्य पादे वैराजेः, एकादशाक्षरस्य च पादे त्रैष्टुभे उपोत्तमाक्षरो गुरुर्भवति । वर्णिकच्छन्दः वृत्तमप्यभिधीयते । शौनकस्य इदं कथनं ऋग्वेदीयच्छन्दःसु सुसङ्गतं भवति । पाश्चात्यविद्वांसोऽपि एवंविधानां तथ्यानामाविष्कारं स्व-स्वानुशीलनेन कृतवन्तः । प्रत्येकस्य वेदस्य छन्दसां वर्णनमनुक्रमणीषु अतीव सूक्ष्मतया कृतमस्ति । कात्यायनेन ऋग्वेदीयस्य प्रत्येकस्य मन्त्रस्य छन्दसो निर्देशः सर्वानुक्रमण्यां कृतोऽस्ति ।

वैदिकछन्दःसु अक्षराणां गौरवलाघवयोः विचारम् अकृत्वैव तेषां संख्याया एव विचारः क्रियते । यदा कदा अन्यपादाक्षराणां समसंख्यकत्वे सत्यपि एकस्मिन् पादे संख्याऽल्पतरा भवति तथा कुत्राप्यधिकतरेति । अनियता इयं यथेप्सितं न भवति, अपि तु नियमत एव एवम्भवति । एक-द्वयोः अक्षरयोः अधिकता वा न्यूनता छन्दसः परिवर्त्तनस्य कारणं भवितुं न शक्यते । अनेनास्य स्वरूपस्य हानिर्न भवति । यदि कस्यापि छन्दसः एकाक्षरः ऊनो भवति, तदा तं 'निचृत्' इति कथ्यते, यदि स एव एकाक्षरः अधिको भवति, तदा तं ‘भुरिक्’ इत्यभिधीयते । नियमतः त्रिपदा अष्टाक्षरा गायत्र्या अक्षराणां संख्या ( ८ × ३ ) २४ भवति; किञ्च २३ अक्षराणां गायत्री 'निचृद्गायत्री' तथा २५ अक्षराणां 'भुरिग्गायत्री' कथ्यते। अनेन प्रकारेण यत्र द्वौ अक्षरौ यत्र हीनौ भवतः, तत्र 'विराट्' भवति, तथा यत्र द्वावक्षरौ अधिकौ स्तः, तत्र 'स्वराट्' भवति । विराट्गायत्री ( २४-२ ) २२ अक्षराणामेवं ‘स्वराड्गायत्री’ ( २४+२ ) २६ अक्षराणां भवति ।

'ऊनाधिकेनैकेन निचृद्भुरिजौ । द्वाभ्यां विराट्स्वराजौ ।'[८]

'एकद्व्यूनाधिका सैव निचूद् ऊनाधिका भुरिक् ॥'[९]

यदा कदा दृग्गोचरो भवति यत्, कस्यापि एकैवाक्षरस्य अभावे छन्दः खञ्जः प्रतीतो भवति । एतादृश्याम् अवस्थायां छन्दः नियमाबद्धं कर्त्तुम् एकैवाक्षरम् अक्षरद्वयेनावबोधनस्य अवस्था सर्वानुक्रमण्यां स्पष्टतः प्रदर्शिता अस्ति । अस्याः प्रक्रियायाः पारिभाषिकः शब्दः व्यूहनम् अस्ति । अस्य सूत्रमस्ति -

'पादपूरणार्थं क्षैप्रसंयोगकाक्षरी भावाद् व्यूहेत्'।[१०]

अर्थात् पादपूत्र्यर्थं क्षैप्रसंयोगः तथा सन्धिजन्यैकाक्षराणां पृथक्करणम् अवश्यमेव करणीयम् ।

(१) यत्र यण-सन्धिद्वारेण यकारो वकारो वा भवति तत्र तं संयुक्ताक्षरं पृथक् कृत्वा मूलाक्षरयोः उच्चारणं कर्त्तव्यम् । यथा त्रिपदा उष्णिक्छन्दसः उदाहरणे प्रदत्तमन्त्रस्य द्वितीयचरणे - 'पिबति सौम्यं मधु' इत्यस्मिन्नष्टाक्षरेषु एकाक्षरस्य अभावो विद्यते । अतः पादपूत्र्यर्थं 'सौम्यम्' इत्यस्य 'सौमिअं' भवितव्यम् । जगतीछन्दसः अन्तिमचरणे द्युमद्=दिउमद् ।। तत्सवितुर्वरेण्यं = वरेण्यमित्यत्र वरेणिअमिति।

(२) वकारस्य पृथक्करणमू - बहुसंख्यकेषु मन्त्रेषु 'त्वमि'ति पदस्य उच्चारणम् 'तुअम्' भवति । 'क्ष्विं गच्छ स्वः पते' इत्यत्र स्वः = सु अः भवितव्यम् ।

(३) रेफस्य पृथक्करणम् — अनेकेषु मन्त्रेषु इन्द्रस्य उच्चारणम् 'इन्दरा' इति भवति, यथा - 'त्वं हव्यदिन्द्रः'[११] इत्यस्य उच्चारणं भवति— 'तु अं हव्यदिन्दर' इति ।

( ४ ) 'ए', 'ओ' इत्येतयोः गुणयोः एवम्, 'ऐ एवं औ' इत्यनयोः वृद्धिस्वरस्य पृथक्करणं भवति । ज्येष्ठः = जयिष्ठः[१२], श्रेष्ठः = श्रयिष्ठः,[१३] प्रब्रह्मै त्विति[१४] = 'ब्रह्म एतु इति' एवं भवति ।

( ५ ) एकारस्य औकारस्य च अनन्तरं लुप्ताकारं ‘एङः पदान्तादति'[१५] इत्यनेन सूत्रेण पुनः स्थापनं कृत्वोच्चारणं कर्त्तव्यम् - 'इन्द्रं बाजेषु नोऽव'[१६] अत्र नोऽव = नो अव भवति । 'इन्द्रं सखायो नु संरमध्वम्'[१७] 'अनु' इत्येतस्य पदस्य पूर्णोच्चारणं भवितव्यम् ।

(६) दीर्घसन्धिजन्याकारं द्वावक्षरस्वरूपे एव परिवर्तनं कृत्वा उच्चारणीयम् ।[१८] यथा — 'वदन् ब्रह्मा वदती वनीयान्'।[१९] अत्र भवति — ब्रह्म अवदती। 'आद्याद्या श्वः श्वः'[२०], अत्र आद्याद्या - अद्य-अद्या।[२१] अत्र वात=व अत ।

कात्यायनेन सर्वानुक्रमण्याम् ऋग्वेदस्य सर्वेषां मन्त्राणां छन्दसां निर्देशः कृतः । तदनुसारेण ऋग्वेदे छन्दसां संख्या - गायत्री २४६७, उष्णिक्=३४१, अनुष्टुप्= ८५५, बृहती=१८१, पङ्क्तिः=३१२, त्रिष्टुप् = ४२५३, जगती = १३५८। सर्वसङ्कलने = ९७६७ मन्त्राः भवन्ति । प्रायः ३०० मन्त्रा अतिजगती-शक्वरी-अति-अत्यष्टिप्रभृतिषु छन्दःसु निबद्धाः सन्ति। एकपदा ऋचः ६, नित्यद्विपदा १७ च सन्ति। एवं ऋग्वेदे सर्वाधिकवारं छन्दः ‘त्रिष्टुप्' एवाऽस्ति । ततः परं ‘गायत्री'- छन्दोपि अस्ति। जगती तु अस्मादपि पश्चाद्वर्त्ति भवति । अतः त्रिष्टुप्, गायत्री, जगति एतान्येव त्रीणि लोकप्रियाणि छन्दांसि सन्ति ।

भेदाः[सम्पादयतु]

वेदे प्रयुक्तेषु छन्दःसु लघु-गुरु-मात्रायाः अनुसरणं नैव क्रियते । केवलम् अक्षराणामेव गणना भवति। फलतः सर्वाण्येव वैदिकछन्दांसि। अक्षरच्छन्दांसि एव सन्ति । अस्य द्वौ प्रमुखभेदौ स्तः -

(१) केवलमक्षरानुसारि छन्दः - प्रकारेऽस्मिन् केवलम् अक्षरगणना भवति, येषु छन्दःसु पादविभाजनस्य आवश्यकता न भवति, तानि च केवलानि अक्षरगणनानुसारीणि छन्दांसि मन्यन्ते ।

(२) पादाक्षरगणनानुसारि - प्रकारेऽस्मिन् अक्षराणां पादेषु नियमततया विभाजनस्य व्यवस्था वर्तते, अर्थादत्र पादे स्थितानामक्षराणां गणनायाम् उपरि अाग्रहोऽस्ति ।

सङ्ख्या[सम्पादयतु]

वैदिकच्छन्दसां मुख्यभेदानां विषये मतैक्यं नास्ति। किञ्च समस्तानां वैदिकच्छन्दसां संख्या २६ मन्यन्ते । एतेषु प्रारम्भिकानि पञ्चच्छन्दांसि वेदे अप्रयुक्तानि सन्ति । तानि परित्यागावशिष्टानि छन्दांसि त्रिसप्तकेषु विभज्यन्ते।

गायत्रीच्छन्दः[सम्पादयतु]

गायत्री प्रथमं छन्दोऽस्ति । अस्य प्रत्येकस्मिन् पादे षडक्षराणि भवन्ति । अतः प्रथमं सप्तकं गायत्र्याः छन्दसः प्रारभ्यते । अस्मात्पूर्ववर्त्तीनि पञ्चच्छन्दांसि 'गायत्रीपूर्वपञ्चकम्' इति नाम्ना ख्यातमस्ति । एतेषां नामानि निम्नप्रकारेण सन्ति -

मा (अक्षर-संख्या ४), प्रमा ( अ० सं० ८ ), प्रतिमा ( अ० सं० १२ ), उपमा ( अ० स० १६), समा (अ० सं० ३० ) च। एतानि नामानि ऋक्प्रातिशाख्यानुसारेण एव सन्ति ।[२२] किञ्च भरतस्य नाटयशास्त्रे इमानि छन्दांसि क्रमशः - उत्त-अत्युक्त-मध्यम-प्रतिष्ठा-सुप्रतिष्ठा इत्यादिभिः नामभिः विख्यातानि सन्ति।[२३]

(क) प्रथम-सप्तकस्य सप्तच्छन्दांसि सर्वत्र तुल्यान्येव सन्ति । एतेषां नामानि सन्ति - गायत्री ( २४ अक्षराणि ), उष्णिक् ( २८ अ० ), अनुष्टुप् ( ३२ अ०), बृहती ( ३६ अ०), पङ्क्तिः ( ४० अ० ), त्रिष्टुप् (४४ अ०) जगती ( ४८ अक्षराणि ) च।

(ख) द्वितीयसप्तकस्य सप्तच्छन्दसां नामानि - 'अतिच्छन्दः' इति नाम्ना ख्यातानि सन्ति । अस्य अक्षरसंख्या पूर्वापेक्षया चतस्रः अधिका वर्तते । यथा - (१) अतिजगती = ५२ अक्षराणि; (२) शक्वरी = ५६ अ०; (३) अतिशक्वरी = ६० अ०; (४) अष्टिः = ६४ अ°; (५) अत्यष्टिः ६८; (६) धृतिः = ७२ अ०; (७) अतिधृतिः =७६ अ°।

(ग) तृतीयससकस्य ससच्छन्दसां नामानि - (१) कृतिः =८० अक्षराणि; (२) प्रकृतिः= ८४ अ०; (३) अाकृतिः =८८ अ०; (४) विकृतिः=९२ अ°; (५) संस्कृतिः =९६ अ०; (६) अभिकृतिः=१०० अ०; (७) उत्कृतिः = १०४ अ०।

सप्तकस्य विभिन्ननामानि सन्ति । भरतस्य नाटयशास्त्रे[२४] एतेषां नामानि क्रमशः दिव्य-दिव्येतर-दिव्यमानुषेत्यादीनि सन्ति ।

अभिनवगुप्ताचार्यस्तु अस्य नामकरणस्य सड्केतं स्वकीये 'अभिनवभारती' नामके ग्रन्थे कृतवान्। प्रथमसप्तकस्य छन्दसां प्रयोगो देवानां स्तुत्यवसरे क्रियते । अतो दिव्यनाम्ना ख्यातमिदमस्ति । मानवसम्बन्धिषु स्तुतिषु बहुशः प्रयुक्तत्वेन द्वितीयसप्तकं दिव्येतरत् अर्थात् मानवनाम्ना ख्यातमस्ति । दिव्यः, मनुष्यः च उभयप्रकाराभ्यां व्यक्तिभ्यां प्रयुक्तत्वेन तृतीयसप्तकं दिव्यमानुषनाम्ना प्रख्यातमस्ति ।

लौकिकच्छन्दसां विकासः एभ्य एव वैदिकच्छन्दोभ्यः जातः । संस्कृतकवयः श्रुतिमाधुर्यं तथा सङ्गीतमय-आरोहावरोहश्च ध्यात्वा एतेषु छन्दःसु अक्षराणां गौरवं लाघवञ्च नियमेन आबद्धं कृतवन्तः । अन्येषां लौकिकाऽऽविष्कतॄणां नामानि विलुप्तानि जातानि । किञ्च अनुष्टुप्छन्दसः आविष्कर्त्ता महर्षेर्वाल्मीकेः नाम प्रसिद्धमस्ति । वैदिकत्रिष्टुप्छन्दसः एव एकाक्षराणां छन्दसां, विशेषतः इन्द्रवज्रोपेन्द्रवज्रयोः उदयः बभूव । जगतीच्छन्दसो द्वादशाक्षरच्छन्दसां वंशस्थादीनां, सामगानां च प्रियः शक्वरीतो वसन्ततिलकायाः उत्पत्तिर्बभूव । अनेनैव प्रकारेण अन्येषां लौकिकच्छन्दसाम् उदयो ज्ञातव्यः।

छन्दसां विवरणम्[सम्पादयतु]

प्रथमसप्तकस्य निर्दिष्टच्छन्दसां भेदः केवलमक्षरानुसारिषु छन्दःसु उपलब्धो भवति । एतानि छन्दांसि अष्टप्रकारकाणि भवन्ति । दैव-आसुर-प्राजापत्यअार्ष-याजुष-साम्न-आार्च-ब्राह्म-प्रभृतीनि । एतेष्वप्यष्टसु छन्दःसु द्वे चातुष्के स्तः । प्रथमचतुण्णां छन्दसां प्रथमचतुष्कम्, अन्तिमचतुर्णां छन्दसां द्वितीयं चतुष्कं च भवति । प्रथमचतुष्कस्य दैव-अासुर-प्राजापत्यादीनां त्रयाणां छन्दसां यावन्ति अक्षराणि भवन्ति, तावन्ति एव अार्षच्छन्दःसु भवन्ति, यत् अस्य चतुष्कस्य अन्तिमं छन्दः अस्ति । अनेनैव प्रकारेण द्वितीयचतुष्कस्य याजुष-साम्न-अाचार्णां छन्दसाम् अक्षराणां सम्मिलिता संख्या अस्य चतुष्कस्य अन्तिमच्छन्दसि ब्राह्मे समुपलब्धा भवति । यथा - गायत्र्या दैव-आसुर-प्राजापत्य-भेदेषु क्रमशः १, १५, ८ च अक्षराणि भवन्ति, अस्य च सम्मिलिता संख्या २४ आर्षच्गायत्र्यां भवति । अनेन रूपेण गायत्र्या याजुष-साम्न-अार्षभेदेषु क्रमशः ६, १२, १८ अक्षराणि भवन्ति, यस्य सम्मिलिता संख्या ३६ अक्षराणां ब्राह्मी गायत्र्याम् उपलब्धा भवति । एतेषु सर्वेषु अार्षप्रकारेषु एव वेदेषु सर्वप्रधानं तेषां बहुशः प्रयोगः भवति । उदाहरणानि यथा — उष्णिक् (अष्टाक्षराणि) = यजुर्वेदे[२५], बृहती ( षट्त्रिंशदक्षराणि ) = यजुर्वेदे[२६], पङ्क्तिः ( चत्वारिंशदक्षराणि ) तत्रैव[२७], त्रिष्टुप् (चतुश्चत्वारिंशदक्षराणि ) तत्रैव[२८], जगती ( अष्टचत्वारिंशदक्षराणि ) तत्रैव[२९]

ऋग्वेदच्छन्दः[सम्पादयतु]

ऋक्षु प्रयुक्तच्छन्दसां गणना पादबद्धाक्षरैः भवति। आर्षच्छन्दसां भेदोपभेदस्य वर्णनं शास्त्रेषु कृतमस्ति ।

(१) गायत्री - अस्मिन् छन्दसि पादत्रयं भवति । किञ्चास्मिन् एकपादादारभ्य पञ्चपादपर्यन्तं परिदृश्यते । फलतः ऋग्वेदे एकपदा, द्विपदा, त्रिपदा, चतुष्पदा, पञ्चपदा इत्यादिस्वरूपेषु गायत्रीच्छन्दः समुपलब्धमस्ति । किञ्चात्र मुख्यतया त्रिपदा गायत्र्याः प्राचुर्यमस्ति । अस्य छन्दसः निम्नलिखिताः भेदाः भवन्ति।

(क) त्रिषु पादेषु एकैकाक्षरस्य यदा न्यूनता भवति, तदा तच्छन्दः पादनिचृद्गायत्री कथ्यते।

(ख) यदा त्रयोऽपि पादाः क्रमशः एकैकाक्षरेण वर्द्धन्ते ( ६+७+८= २१ अ० ), तदा सा गायत्री 'वर्धमाना' कथ्यते ।

(ग) अस्य विपरीतपादाक्षरा गायत्री (८+७+६=२१ अक्षराणि ) प्रतिष्ठा नाम गायत्री प्रख्याताऽस्ति।

(घ) यदा पादेषु ७+१०+७=अक्षराणि भवन्ति, तदा सा यवमध्या गायत्री कथ्यते ।

(ङ) यवमध्यातो। विपरीतपादाक्षरा गायत्री ( ९+६+९=२४) पिपीलिकामध्या नाम गायत्री प्रख्याताऽस्ति ।

(२) उष्णिक् - अस्मिन् २८ अक्षराणि, पादत्रयं च भवति । गायत्र्याः अस्मिन् चतुर्णामक्षराणामाधिक्यं भवति । अक्षरक्रमेण पादविचारे अस्यापि नानाभेदाः भवन्ति ।

(क) पुर उष्णिक - प्रथमे पादे द्वादशाक्षराण्यन्तिमे पादद्वये अष्ट-अष्ट अक्षराणि भवन्ति।[३०]

(ख) ककुबुष्णिक् - अस्मिन् छन्दसि मध्यमे पादे द्वादशाक्षराणि भवन्ति, प्रथमे चान्ते पादे अष्ट-अष्टाक्षराणि भवन्ति।[३१]

(ग) परोष्णिग् अथवा उष्णिक् - अन्तिमे पादे द्वादशाक्षराणि भवन्ति, प्रथमे द्वितीये च पादे अष्ट-अष्टाक्षराणि भवन्ति।[३२]

(घ) पिपीलिकामध्या उष्णिक् - पादेषु क्रमशः ११+६+११ = २८ अक्षराणां सत्ता भवत्यस्मिन्।[३३]

(३) अनुष्टुप् - अस्मिन्नक्षराणां संख्या द्वात्रिंशदस्ति । अत्र प्रधानतः चत्वारः पादाः भवन्ति । किञ्च त्रिपादानुष्टुप्-छन्दसां संख्या पर्याप्ताऽस्ति । अस्यानेके भेदप्रभेदा भवन्ति।

(क) विराड् अनुष्टुप् - त्रिपादेषु अक्षरसंख्याः क्रमशः १०+१०+१० = ३० भवन्ति।[३४]

(ख) विराड् अनुष्टुप् – पादत्रयेषु अक्षरसंख्या प्रत्येकस्मिन् पादे एकादशैव।[३५]

(ग) चतुष्पादानुष्टुप् - अस्य छन्दसः प्रत्येकस्मिन् पादे अष्टावष्टाक्षराणि एव भवन्ति । ऋग्वेदे चास्यानेकान्युदाहरणानि सन्ति ।

(४) बृहती - अस्मिन् छन्दसि अक्षराणां संख्या ३६ तथा चत्वारः पादः भवन्ति । अस्य प्रधानभेदा निम्ननिर्दिष्टा: सन्ति।

(क) पुरस्ताद् बृहती - पादेषु अक्षराणां संख्या क्रमशः १२+ ८-+८ + ८ = ३६ भवन्ति।[३६]

(ख) उरोबृहती अथवा स्कन्धोग्रीवी अथवा न्यङ्कुसारिणी — द्वितीये पादे द्वादशाक्षराणि, अवशिष्टे पादे अष्टाक्षराणि भवन्ति । ८+ १२+८+८ = ३६।[३७]

(ग) पथ्याबृहती - तृतीयपादे द्वादशाक्षराणि अन्त्ये पादे अष्टावष्टाक्षराणि भवन्ति ८+८ + १२+८= ३६ ।[३८]

(घ) उपरिष्टाद् बृहती — अन्तिमे पादे द्वादशाक्षराणि शेषे च अष्टावष्टाक्षराणि भवन्ति । ८+८+८ + १२= ३६।[३९]

(ङ) सतोबृहती, महाबृहती - त्रयः पादा द्वादशाक्षराणां भवन्ति । १२+१२+१२= ३६।[४०] एतत् छन्दः ऋक्सर्वानुक्रमण्याम् 'ऊर्ध्वबृहती'-नाम्ना ख्यातमस्ति ।

(५) पङ्क्ति-बृहती - अस्मिन् छन्दसि, चतुर्णामक्षराणां वर्धनाद् एवास्य निर्माणं भवति (४० अक्षराणि भवन्ति) । प्रायोऽस्मिन् चत्वारः पादा भवन्ति । पञ्चपादाः पङ्क्तिरतिस्वल्पा अस्ति । अस्य निम्नलिखिताः प्रमुखभेदा भवन्ति।

(क) विराट्पङ्क्तिः - दशदशाक्षराणां चत्वारः पादा भवन्त्यस्मिन् । १० + १० + १०+१० = ४० अक्षराणि।[४१]

( ख ) सतोबृहतीपङ्क्तिः - अस्मिन् चत्वारः पादा भवन्ति । प्रतिपादं अक्षराणां संख्या १२+८+१२ +८=४० भवन्ति ।[४२]

(ग) विपरीताः पङ्क्तयः - अस्मिन् पूर्वलक्षणस्य विपरीतं लक्षणं भवति । ८+- १२+८+१२=४० अक्षराणि[४३]

(घ) अास्तारपङ्क्तिः - यस्मिन् ८+ ८+१२+१२=४० अक्षराणां सत्ता क्रमशः पादेषु भवन्ति।[४४]

(ङ) प्रस्तारपङ्क्तिः - यत्र पूर्वस्मात् लक्षणाद् विपरीतं लक्षणं भवति। अर्थात् १२+१० +८+८=४० अक्षराणां सत्ता भवति, तत्र प्रस्तारपङ्क्तिः छन्दो भवति।[४५]

(च) संस्तारपङ्क्तिः - अस्मिन् छन्दसि क्रमशः १२+८+८+१२= ४० अक्षराणां पादा भवन्ति।[४६]

(छ) विष्टारपङ्क्तिः - यत्र ८+१२ + १२+८ अक्षराणां क्रमशः पादा भवन्ति।[४७]

(ज) पथ्यापङ्क्तिः - यत्र अष्टाक्षराणां पञ्चपादा भवन्ति।[४८] समस्तेन्द्रसूक्तम् अस्मिन्नेव छन्दसि निबद्धमस्ति ।

(६) त्रिष्टुप् - अक्षराणां संख्या ४४ पादानाञ्च संख्या चतस्रो भवन्ति । अस्य प्रधानभेदाः सन्ति-

(क) त्रिष्टुप् - अस्मिन् एकादशाक्षराणां चत्वारः पादा भवन्ति।[४९]

(ख) अभिसारिणी - यस्मिन् १०+१० + १२+१२= ४४ अक्षराणि भवन्ति ।[५०]

(ग) महाबृहती - अस्य पञ्चपादेषु क्रमशः १२+८+८+८+ ८ = ४४ अक्षराणि भवन्ति ।[५१]

(घ) यवमध्या-त्रिष्टुप् - अस्य पञ्चपादेषु क्रमशः ८+ ८+१२+ ८+ ८=४४ अक्षराणि भवन्ति।[५२]

(७) जगती - अस्मिन् ४८ अक्षराणि तथा चत्वारः पादा भवन्ति । अथात् प्रत्येकस्मिन् पादे द्वादशाक्षराणि भवन्ति।[५३] अस्योपभेदाः -

( क ) उपजगती - अस्य प्रथमे पादद्वये १२ दशाक्षराणि भवन्ति, अन्तिमे पादद्वये ११ अक्षराणि भवन्ति ( १२+१२+११+११=४६) । उपजगती नाम्ना प्रसिद्धमिदं छन्दोऽस्ति।[५४]

(ख) महासतोबृहती - अस्मिन् छन्दसि कश्चन त्रिषु पादेषु अष्टावष्टाक्षराणि भवन्ति, अवशिष्टयोर्द्वयोः पादयोः च द्वादश-द्वादशाक्षराणि भवन्ति ।[५५] इदमेव छन्दः ‘पञ्चपदा' जगतीत्यपि कथ्यते ।

(ग) महापङ्क्तिजगती - अस्मिन् छन्दसि अष्टावष्टाक्षराणां षट्पादा भवन्ति।[५६]

द्वितीयस्य तृतीयस्य च सप्तकस्य छन्दः ‘अतिच्छन्दः' इति नाम्ना प्रख्यातमस्ति । आचार्यशोनकस्य वेङ्कटमाधवस्य च कथनानुसारेण द्वितीयसप्तकस्य छन्दासि ऋग्वेदे समुपलब्धानि भवन्ति । तृतीयसप्तकस्य छन्दसामत्र नितरामभावोऽस्ति। अत: ऋकसर्वानुक्रमण्यां तृतीयसप्तकस्योल्लेखो न लभते। ऋक्प्रातिशाख्ये आचार्यशौनकस्य स्पष्टकथनमस्ति - 'सर्वादशत्रयीष्वेता, उत्तरास्तु सुभेषजे'।[५७] वेङ्कटमाधवोऽप्यस्य तथ्यस्योल्लेखं कृतवान् -

'चतुरधिकच्छदांसि दर्शितानि चतुर्दश।

यानि दशतयीष्वासन् उत्तराणि सुभेषजे॥'

द्वितीयसप्तकस्य छन्दांसि

(१) अतिजगती - द्वापञ्चाशदक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति। उदा०-'तमिन्द्र जोहवीमि मघवानमुप्रम् ॥'[५८]

(२) शतावरी - षट्पञ्चाशदक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति । उदा०-'प्रोष्वस्मै'।[५९]

( ३ ) अतिशक्वरी-षष्टिः (६०) अक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति (१६+१६+१२+८+८) । उदा०—'सुषुमा यातमद्रिभिः'।[६०]

(४) अष्टिः - (६४) चतुःषष्टिरक्षराणामस्मिन् छन्दसि पञ्चपादा भवन्ति ( १६+१६+१६+८+८) । उदा०–'त्रिकदुकैषु महिषो यवाशिरम्'।[६१]

(५) अत्यष्टिः - अष्टाषष्टिरक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति (१२+१२+८+८+८+१२+८=६८) उ० – 'अदशिगातुरवे वरीयसी'।[६२]

(६) धृतिः - द्वासप्ततिरक्षराणामस्मिन् छन्दसि सप्तपादा भवन्ति (१२+ १२+८+८+ ८+१६+ ८=७२)। उ०-‘सखे सखायमस्या०' ।[६३]

(७) अतिधृतिः - षट्सप्ततिरक्षराणामस्मिन् छन्दसि अष्टपादा भवन्ति । । उदा०-'स हि सर्घो न मारुतम्'।[६४]

ऋक्प्रातिशाख्ये ऋग्वेदस्य सर्वाधिकायतस्य द्वयोः ऋचोनिर्देशोऽस्ति।[६५] यदि अविकर्षं भवति, अर्थाद् व्यूहाभावे सति 'अवर्मह इन्द्र' (ऋ० १॥१३३॥६) सर्वाधिकायता ऋचा भविष्यति, या भाष्यकारस्य उव्वटस्य मतानुसारेण सप्ततिः अक्षराणां छन्दो भविष्यति । विकर्षे सति 'स हि सर्घो न मारुतम् (ऋ० १॥१२७॥६) सर्वाधिकाऽयता ऋग् भविष्यति, उव्वटानुसारेण षट्सप्ततिः अक्षराणाम् अस्यामृचि अष्टपादा भवन्ति ।

छन्दसि विभागाः[सम्पादयतु]

वैदिकलौकिकभेदेन द्विविधस्य छन्दसो द्वितीये गणमात्राक्षरभेदेन पुनस्त्रैविध्यम् । तत्र गणच्छन्दः आर्यादिः । मात्राच्छन्दः वैताल्यादिः । अक्षरच्छन्दः श्र्यादिः । त्रिष्वपि पुनस्त्रेधा समार्धसमविषमभेदेन विभागः । समे दण्डकसाधारणाभ्यां द्वैविध्यम् । इत्थं भेदोपभेदविशिष्टानां छन्दसां गुरुलघुभावव्यवस्थया सहासङ्ख्यप्रकाराः सम्भवन्ति । तस्मादेतेष्वन्यतमस्याविनाभावतयैव वाङ्मयस्थितिः ।

वैदिकच्छन्दसां प्रयोजनमाह आचार्योवटः –
स्वर्यं यशस्यमायुष्यं पुण्यं वृध्दिकरं शुभम् ।
कीर्तिमृग्यं यशस्यञ्च छन्दसां ज्ञानमुच्यते ॥ इति

जपयज्ञानुष्ठानेऽस्य प्राशस्त्यं ब्रवीति कात्यायनः – ‘यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यति प्रवा मीयते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्’ इति । देवतास्तुतौ वेदार्थनिर्णये, ऋषिनिर्णये, देवतानिर्णये यागनिर्णये च वैदिकच्छन्दसामनितरसाधारणप्रयोजनं वर्तते ।

वैदिकच्छन्दसामक्षरनियमो भवति । अत्राह कात्यायनः ‘यदक्षरपरिमाणं तच्छन्दः इति । पादनियमश्चात्र एकपादादष्टपादान्तश्छन्दसां प्रवर्तते । लौकिकच्छन्दसां तु लघुगुरुगणनियमः चतुः पादनियमश्च वैदिकाद्वैलक्षण्यं भजते । वेदे गायत्रीतः छन्दांसि समुपलभ्यन्ते । तत्र चतुर्धा वर्गः क्रियते ।

१. प्राग्गायत्रीछन्दः पञ्चकम्

मा – प्रमा –प्रतिमोपमा – समासंज्ञकान्यत्र छन्दांसि भवन्ति क्रमेण ४-८-१२-१६-२० अक्षरान्वितानि । विराड्दशायाम् (अक्षरद्वयस्य न्य़ूनतायाम्) क्रमेणैतानि हर्षिकसर्षीकासर्वमात्राविण्ड्कामासंज्ञकानि भवन्ति ।

२. प्रथमसप्तकम्

अत्र गायत्र्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टपूछन्दांसि वर्तन्ते । एतेषां प्राजापत्यदैवासुरार्षयाजुषसाम्नार्चब्राह्मसंज्ञका भेदा भवन्ति ।

३. द्वितीयसप्तकम्

इदमतिच्छन्द इत्युच्यते । अतिजगती-शक्वरी –अतिशक्वरी- अष्टि-अत्यष्टि –धृति –अतिधृतिसंज्ञकानि ।

४. तृतीयसप्तकम्

कृति- प्रकृति- आकृति- विकृति- संस्कृति –अभिकृति- उत्कृतिसंज्ञकानि छन्दांसि अत्र वर्तन्ते ।

लौकिकच्छन्दसां विकासश्चैभिर्वैदिकच्छन्दोभिरभवत् । कविभिः श्रुतिमाधुर्यं सङ्गीतस्यारोहावरोहक्रमञ्च मनसि निधाय गौरवं लाघवञ्चाक्षराणां विलोक्य छन्दांसि समुदभाव्यन्त । लौकिकच्छान्दसामुद्भावकेषु आनुष्टुभच्छन्दो निर्मातृकविवाल्मीकेरादिमत्वमङ्गीक्रियते । अन्येषां छन्दसामुद्भावकाः तद्ग्रन्थानुपलब्धेः न स्मर्यन्ते इति केषाञ्चिदभिप्रायः ।

अनुष्टुबादिनानाच्छन्दोभिः पुराणानि, काव्यानि, स्तोत्राणि दर्शनग्रन्थाः प्रशास्तिः लौकिकविषयाश्च य्वरच्यन्त विरच्यन्ते च । लौकिकवाङ्मये अधिको भागः पद्यात्मकच्छन्दसोपनिबध्दः । पद्यात्मकच्छन्दसः प्रचुरतयावलम्बने उद्देश्यञ्चास्ति ।

गेयता – ‘गद्यानुमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः’ इति वचनानुसारं गेयबन्धो बन्धान्तरमतिशेते । रागसंयोगो हि गेयतापादको भवति, अतः पद्यकाव्यनिर्माणप्रवृत्तिराधिक्येन सम्भवति । गद्येऽपि पद्यबन्धोऽवलम्बते कविभिः । रुपकेषु पद्यरचनाया इदमेव गेयत्वं कारणम् । प्रयुक्तच्छन्दसोऽपि गेयताविरहे हतवृत्तत्वाख्यः काव्यदोषः परिगण्यते । यथा ‘हन्तसततमेतस्या हृदयं भिन्ते मनोभवः कुपितः इत्यत्र लक्षणानु श्रवणेऽप्यश्रव्यरुपहतवृत्तत्वदोषमामनन्दि काव्यविदः । तस्माद्गेयताप्रयोजनकेऽपि च्छन्दसि गेयत्वमनिवार्यमित्याशयः ।

भावप्रकाशनम् – भावाभिव्यञ्जनफलकः शब्दप्रयोगः । भावस्तु अन्तस्यः स्वप्रकाशकापेक्षी । तत्प्रकाशिका वाक् संस्कारपूता स्यात् । संस्कृता सा भावस्य प्रकाशने समर्था भवति । तत्र च्छान्दाआश्रीयते कविभिः । नाट्यशास्त्रे छन्दो विधाननामके चतुर्दशेऽध्याये मुनिर्भरतः –

वाचि चत्नस्तु कर्तव्यो नाट्यस्येयं तनुः स्मृता ।
अङ्गनेपथ्यतत्त्वानि वाक्यार्थं व्यञ्जयन्ति हि ॥
वाङ्मयानीह शास्त्राणि वाङ्निष्ठानि तथैव च ।
तस्माद्वाचः परं नास्ति वाग् हि सर्वस्य कारणम् ॥

इत्यत्रच्छन्दसा वचस्संस्कारं समसूचयत् । अनुष्टुबादिच्छन्दसामवान्तरभेदेषु भावानुकूलतया तत्तद्वृत्तानि समाश्रयन्ते विपश्चितः । भक्त्यभिव्यञ्जने शिखरिणीमवलम्बन्ते । शाङ्करभगवत्पादाः ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्’ इत्यादिना सौन्दर्यलहरीं भक्तिपरवशतापादिनीमनेन वृत्तेन रचयामासुः । उपेन्द्रवज्रा –इन्द्रवज्रा- वसन्ततिलकादि वृत्तान्यप्याश्रयन्ते भावानुकूलानि । विप्रलम्भशृङ्गारे ‘कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः इत्यादिना कविः कालिदासः मन्दाक्रान्तावृत्तमालिङ्गति । माधुर्यगुणेन मन्दं मन्दं सहृदयहृदयं समाक्रान्तं न भवति न । शार्दूलविक्रीडिते वृत्ते तु कवयो रमन्ते सर्वविधभावानुकूलतया अस्यावलम्बनं सन्दृश्यते । स्तोत्र काव्य- प्रशस्तिप्रभृतयो रचनाविशेषा विरच्यन्तेऽस्मिन् वृत्ते भीरिशः । मैसूरु- ओडेयर् कृष्णराजस्य आस्थानस्थं कविर्नञ्जुण्डः छन्दोनिरुपके यशोभूषणकाव्ये वृत्तरत्नावलीनामके शार्दूलविक्रिडितं वृत्तमुदाहरति –

तापं मा सृज सन्ततं गुणनिधे माराधुना ते शरान्
सूर्या श्वप्रतिमानवेगमहितान् मर्मच्छिदः प्राणिनाम् ।
क्लान्ताहं विरहेण कृष्णनृपतेस्सोढुं कथं शक्नुयाम
एणी क्षोणितले सहेत किमहो शार्दूलविक्रीडितम ॥

कृष्णराजभूपालविरहतापमसहमाना नायिका मन्मथं प्रत्येवं वदति । कविश्छन्दोमय्या वाण्या भूपतेः यशो वर्णयति । एवमेवात्र नाना छन्दोभिः राज्ञो कीर्तिर्वर्णिता । आचार्यानन्दवर्धनः ‘शोकः श्लोकत्वमागतः इति मानिषादां छन्दोवाणीं वाल्मीकेरुदाहरति । तेन हि शोकभावाभिव्यञ्जकं काव्यं छन्दसोपनिबध्दं खलु । विस्तृतार्थसङ्घुम्फनम् – विस्तृतार्थप्रकाशकसूत्रसम्निभतया छन्दः प्रवर्तते लोके । भगवान् व्यासःपुराणानि, महाभारतम्, वाल्मीकिः रामायणम्, कुमारिलभट्टाः वार्तिकञ्च अनुष्टुपछन्दसा उपन्यबध्नन् । कवयो दार्शनिकाश्च सागरायमानार्थसन्दोहं छन्दश्शरीरिकुर्वन्तीति नो सन्देहः धारणानुकूल्यम् – पद्यानां कण्ठस्थीकरणं न गद्यानामिव दुश्शकम् । पठनावसर एव हृद्गतानि भवन्ति तानि । अत एव ज्योतिषग्रन्था अन्ये च छन्दसोपनिबध्दा वर्तन्ते । रुच्युत्पादकता – छन्दोपनिबध्दानां कृतीनां पठनोन्मुखता सुलभतया सम्भवति । अत एव सहृदयानां ग्रहणमिव कवीनां निर्माणे प्रवृत्तिरपि पद्यकाव्यस्य प्राचुर्येण दृश्यते । अर्थगाम्भीर्यसम्पादनार्थमपि तद्विविच्य प्रयुज्यते छन्दः । अभिज्ञानशाकुन्तले भर्तृकुलप्रस्थिताम् आपन्नसत्त्वां शकुन्तलां महर्षिः काश्यपः इष्टजनांशंसापरेण ऋक्छ्न्दसा आशास्ते –

अमी वेदिं परितः कलृप्तधिष्णयाः
समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपध्नन्तो दुरितं हव्यगन्धैः
वैतानास्त्वां अह्नयः पावयन्तु ॥ इति

वर्णगुणफलनिर्णयः[सम्पादयतु]

छन्दसां सुप्रयोगस्तु वर्णगणफलज्ञानपूर्वको वर्तते । काव्यं कल्पान्तरेऽपि कीर्तिप्रदायि भवतीत्यतः कविप्रयुक्ता वर्णमयाः शब्दा निर्मलाः शुभफलदा भवेयुरिति कव्युपदेशः । अकारादिक्षकारान्तवर्णाः केचन शुभदाः केचनाशुभदा इति पूर्वाचार्याणां सिध्दान्तः । वृत्तरत्नाकरस्य नारायणभट्टकृतव्याख्यायां वर्णफलानां विषये आचार्यभामहमतस्योल्लेखो वर्तते । तथा हि –

अवर्णात्सम्पत्तिर्भवति मुदिवर्णाध्दनशता-
न्यवर्णादख्यातिः सरभसमृवर्णाध्दरहितात् ।
तथा ह्येचः सौख्यं ङ्ञणरहितादक्षरगणात्
पदादौ विन्यासाद् भरबहलहाहाविरहितात् ।

तथा –

कः खो गो घश्च लक्ष्मीं वितरति
वियशो ङस्तथा चः सुखं छः
प्रीतिं जो मित्रलाभं भयमरणकरौ
झञौ टठौ खेददुः खे ।
दुः शोभां ढो विशोभां भ्रमणमथ च
णस्तः सुखं यश्च युध्दम्
दो धः सौख्यं मुदं नः
सुखभयमरणक्लेशदुःखं पवर्गः ।
यो लक्ष्मीं रश्च दाहं व्यसनमय
लवौ शः सुखं षश्च खेदं
सः सौख्यं हश्च खेदं विलयमपि च
लः क्षः समृध्दिः करोति ।
संयुक्तं चेह न स्यात्सुखमरणपटु-
र्वर्णविन्यासयोगः
पद्यादौगद्यवक्त्रे वचसि च
सकले प्राकृतादौ समोऽयम् ॥

गणानामपि फलं निरुपितं छन्धः कौस्तुभे –

क्रमतः श्रीवृध्दिमृतिप्रयाणरिक्तत्वरुग्यशोमोदान् ।
यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोक्तृभ्यः ॥

अत एव कविभिः – कालिदासेन वागर्याविवेति, अस्त्युत्तरस्यां दिशीति च, माघेन श्रियः पतिरिति, भारविणा श्रियः कुरुणामिति काव्यादौ सर्वत्र भद्रवाचका देववाचकाः शब्दाः प्रायुज्यन्त । तस्मादाह भामहाचार्यः –

देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ।
ते सर्वे नैव निन्द्याः स्थुर्लिपितो गणतोऽपि वा ॥

इति । एतादृशपयोगे लिपितो न दोष इति तस्याभिप्रायः । वर्णगणफलानामाधारभूतेंऽशः कः? किं वा प्रमाणम् ? इति तु निश्चपचं वक्तुं नैव शक्यते । अथाप्येवमूहितुं शक्यं यत् काचन प्राचीना सरणिरासीद्यत्र शास्त्रीयबीजाक्षराणां फलदायकत्वं स्वीकृत्य तत्तद्वीजाक्षरफलान्येव वर्णानामप्यारोपितानीति छान्दः कौस्तुभे –

मयरसतजभनसंज्ञाश्छान्दस्यष्टौ गणास्त्रिवर्णाः स्युः
भूम्यम्बूवह्निवायुव्योमार्कसुधांशुनागदेवास्ते ।
महीजलानलान्तकाः स्वरर्यमेन्दुपन्नगाः
फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥

इति गणाधिदेवता निरुपिताः एवाञ्च सफलानां वैदिकानां तन्मूलकानां लौकिकानाञ्चच्छन्दसां वाङ्मयव्यापिता अनितरसाधारणा वरीवर्ति । किञ्च

म्यरस्तजभ्नगैर्ग्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥

अतश्छन्दस्वती वाङ्मयी सारस्वतरन्ताकरविस्तराय भूमिका बोभवीतीति सदाशयः ।

त्रिविधवृत्तानि[सम्पादयतु]

"पदं चरणम्, तद् अर्हतीति पद्यम्"

पद्यं द्विविधम्-

१- वृत्तम् [गणैर्नियन्त्रितम्, यथा- इन्द्रवज्रा, वियोगिनीत्यादीनि छन्दांसि]

२- जातिः [मात्राभिर्नियन्त्रिता, यथा- आर्या, गीतिरित्यादीनि छन्दांसि]

इदं च वृत्तं समवृत्तम्, अर्धसमवृत्तम्, विषमवृत्तम् इति भेदेन त्रिविधं भवति।

समवृत्तं यथा- अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।

तच्छन्दश्शास्त्रतत्वज्ञाः समं वृत्तं प्रचक्षते॥

अर्थात् -

यस्य पद्यस्य चत्वारः अपि पादाः तुल्यलक्षणेन लक्षिताः भवन्ति, तच्छन्दः छन्दशास्त्रतत्वज्ञाःसमं वृत्तं प्रवदन्ति।

यथा-

स्रग्धरादीनि छन्दांसि।

अर्धसमवृत्तं यथा-

प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत्।

द्वितीयस्तुर्यवत् वृत्तं तदर्धसममुच्यते॥

अर्थात्-

यस्य पद्यस्य प्रथमपादेन समानः तृतीयपादः भवेत् अपि च द्वितीयपादवच्चतुर्थः पादः भवेत्तदा

अर्धसममुच्यते।

यथा-

वियोगिनीत्यादीनि छन्दांसि ।

विषमवृत्तं यथा-

यस्य पादचतुष्केऽपि लक्ष्मभिन्नं परस्परम्।

तदाहुर्विषमं वृत्तं छन्दश्शास्त्रविशारदाः॥

अर्थात्-

यस्य पद्यस्य चतुर्ष्वपि पादेषु भिन्नं भिन्नं लक्षणं संघटते तदा छन्दश्शास्त्रविशारदाः

विषमं वृत्तं प्राहुः।

यथा-

चतुरूर्ध्वादीनि छन्दांसि।

यतिः[सम्पादयतु]

पद्यानां कथनप्रसङ्गे जिह्वायाः विश्रान्तिः यत्र अपेक्षिता भवति तत्स्थानमेव यतिस्थानमिति कथ्यते।

"यतिर्जिह्वेष्टविश्रान्तिः" इति यतिसामान्यलक्षणम्।

विच्छेदविरामाद्यैः शब्दैरपि यतिर्ज्ञायते। काव्यादर्शकारेण यतिविषये उक्तम्-

श्लोकेषु नियतस्थाने पदच्छेदं यतिं विदुः।

तदपेतं यतिभ्रष्टं श्रवणोद्वेजन यथा॥

अर्थात्-

श्लोकेषु निश्चिते स्थाने पदच्छेदमेव जनैः यतिर्बुध्यते। यतिरहितं यतिभ्रष्टं वा श्रवणाय उत्तेजनात्मकं भवति,

अर्थात् श्रुतिकटुर्भवति।

विशेषः-

पदभङ्गे सति यतिः न करणीया, तथा कृते सति यतिभङ्गदोषः भवति अपि च अर्थानुसन्धाने प्रतिबन्धिका भवति।

काव्येषु अर्थानुसन्धानं प्रधानं भवति, अतः यतिभङ्गदोषः न सह्यते एव।

यथा-

नमस्तस्मै महादेवा-य शशाङ्कधारिणे।

यतिः कुत्र?

यतिः कुत्र भवेत् इति जिज्ञासायाम् उच्यते-

छन्दसां लक्षणेषु अब्धिभूतरससूर्यादयः लौकिकसंज्ञाः साङ्केतिकरूपेण यतिं निर्दिशन्ति।

अब्धिभूतरससूर्यादीनां लोके यथा प्रसिद्धिर्वर्तते तथा यतिर्भवति। अर्थात् लोके अब्धयः चत्वारः,

द्वादशसूर्याः, सप्ताश्वाः च प्रसिद्धाः सन्ति। एतेषां सङ्ख्यानुगुणा यतिर्भवति।

यत्र लक्षणेषु साङ्केतिकशब्दाः न सन्ति अर्थात् यतिर्निष्टा नास्ति तत्र पादान्ते यतिश्चिन्तनीया।

उक्तञ्च-

अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः।

अपि च

यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः। इति

लघुगुरुविचारः[सम्पादयतु]

सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः।

वा पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रिको ऋजुः॥

अर्थात्-

अनुस्वारेण युक्ताः यथा- अं, कम्, खम् इत्यादयः,

विसर्गान्ताः यथा- अः, कः, खः इत्यादयः,

दीर्घाः यथा- आ, ई, ऊ इत्यादयः, { अत्र दीर्घग्रहणं प्लुतस्यापि उपलक्षणं वर्तते }

संयोगपरकाः ह्रस्ववर्णाः यथा- कृष्णः विष्णुः इत्यादिषु स्थिताः ऋ, इ इत्यादयः वर्णाः च एते सर्वे गुरवः भवन्ति । अर्थात् एते गुरुसंज्ञकाः भवन्ति ।

अत्र विशेषः-

विसर्गान्तः इति कथनं जिह्वामूलीयोपध्मानयोः उपलक्षणम्। परं वृत्तरत्नाकरस्य टीकाकारस्तु-"युक्तपरश्चेति व्यञ्जनोपध्मानीयजिह्वामूलीयपराणाम् उपलक्षणम् " इत्याह।

चिह्नविचारः[सम्पादयतु]

वक्ररेखा गुरोश्चिह्नं सरला तु लघोस्तथा।

गुरुरेको गकारस्तु लकारो लघुरेककः॥

अर्थात्- गुरो गुरोश्चिह्नं वक्ररेखा { ऽ } भवति। लघोः तु सरलारेखा [ । ] भवति। गकारः गुरुबोधकः भवति। लकारस्तु लघुबोधकः भवति ।

गणपरिचयः[सम्पादयतु]

अत्र अष्टौ गणाः भवन्ति, त्रयाणां अक्षराणाम् एकः एकः गणः भवति। ते च गणाः एवंप्रकारेण सन्ति।

१- यगणः

२- मगणः

३- तगणः

४- रगणः

५- जगणः

६- भगणः

७- नगणः

८- सगणः

एतान् गणान् बोधयितुम् एकं लघुसूत्रम् इव वर्तते यत्र च सर्वेषां गणानां समावेशः वर्तते। सूत्रम्-

" यामाताराजभानसलगा "

इदञ्च सूत्रं सम्यक्तया स्मरणीयं यतो हि अत्र गणविषये सर्वम् उक्तं वर्तते। साररूपेण वदामश्चेत् इत्थं निष्कर्षः आगच्छति।

गणनाम बोधकशब्दाः चिह्नानि

१- यगणः यमाता ।ऽऽ

२- मगणः मातारा ऽऽऽ

३- तगणः ताराज ऽऽ।

४- रगणः राजभा ऽ।ऽ

५- जगणः जभान ।ऽ।

६- भगणः भानस ऽ।।

७- नगणः नसल ।।।

८- सगणः सलगा ।।ऽ

अयम् एव विषयः प्रकारान्तरेण अपि कथ्यते। यथा-

आदिमध्यावसानेषु भजसा यान्ति गौरवम्।

यरता लाघवं यान्ति मनौ तु गुरुलाघवम्॥

अर्थात्-

क्रमेण भजसा [भगणः, जगणः, सगणः] आदिमध्यावसानेषु गौरवं यान्ति । तथैव यरता [यगणः, रगणः, तगणः] आदिमध्यावसानेषु लाघवं यान्ति। मगणः सर्वगुरुः नगणश्च सर्वलघुः भवति।

अन्यप्रकारेणापि श्रूयते-

मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ।

जो गुरुः मध्यगतो रलमध्यःसोऽन्तगुरुः कथितोऽन्तलघुस्तः।।

लक्षणसमन्वयप्रकारः[सम्पादयतु]

प्राथम्येन गणपरिचयः सम्यग् अभ्यसनीयः, तदा एव वयं लक्षणेषु उदाहरणेषु वा

लक्षणानां सङ्गतिं कर्तुं शक्नुमः।

यथा उदाहरणरूपेण शार्दूलविक्रीडितं छन्दः स्वीकुर्मः-

शार्दूलविक्रीडितछन्दसः लक्षणम्-

"सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्"

पूर्वम् अस्मिन्नेव लक्षणे लक्षणसमन्वयं कुर्मः।

सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्

ऽ ऽ ऽ, ।। ऽ, । ऽ ।, ।।ऽ, ऽ ऽ ।, ऽ ऽ । ऽ

यतिविषयेऽपि लक्षणे एव पश्यामः। सूर्ये अर्थात् द्वादशाक्षरेषु यतिः, पुनश्च अश्वे अर्थात् सप्तमेषु यतिः करणीया।

उदाहरणम्-

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

अर्थः -

पावकः[अग्निः] जलेन, घर्मः छत्रेण, मदयुक्तो हस्ती तीक्ष्णाङ्कुशेन, गोरासभौ दण्डेन, व्याधिः भेषजचिकित्सया, विषं च

विविधमन्त्रप्रयोगैः शाम्यति । इत्थं लोके सर्वस्य अपि शास्त्रविहितं औषधम् अस्त्येव परन्तु मूर्खजनस्य लोके प्रतीकारः एव न दृश्यते।

लक्षणसमन्वयप्रकारस्तु पूर्वोक्तः एव।

यथा-

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

[मगणः, सगणः, जगणः, सगणः, तगणः तगणः]

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्धभौ।

ऽ ऽ ऽ । । ऽ ।ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम्,

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।।

ऽ ऽ ऽ । । ऽ । ऽ । । । ऽ ऽ ऽ । ऽ ऽ । ऽ

एवम् एव सर्वत्र स्वयं कल्पनीयम्। यतिविषयेऽपि पूर्वोक्तक्रमः स्मरणीयः।

प्रसङ्गानुगुणं छन्दः[सम्पादयतु]

छन्दांसि[सम्पादयतु]

अनुष्टुप्छन्दः आर्याछन्दः वियोगिनिच्छन्दः पुष्पिताग्रा इन्द्रवज्राछन्दः उपेन्द्रवज्रा उपजाति
दोधकम् रथोद्धता मौक्तिकमाला तोटकम् भुजङ्गप्रयातम् द्रुतविलम्बितम् वंशस्थम्
स्रग्विणी प्रहर्षिणी वसन्ततिलकाछन्दः मालिनी पञ्चचामरम् शिखरिणी हरिणी
मन्दाक्रान्ता पृथ्वी शार्दूलविक्रीडितम् स्रग्धरा पङ्क्ति: प्रमाणिका माणवकम्
विद्युन्माला स्त्री नारी कन्या तनुमध्या शशिवदना विद्युल्लेखा
वसुमती मदलेखा कुमारललिता चित्रपदा विद्युन्माला मधुमती हंसरुतम्
समानिका वितानम् हलमुखी भुजगशशिभृता शुद्धविराट् पणवनाम मयूरसारिणी
रुक्मवती =चम्पकमाला मत्ता मनोरमा उपस्थिता सुमुखी। दोधकम्। शालिनी।
वातोर्मी। भ्रमरविलसिता। रथोद्धता। स्वागता। वृत्ता। भद्रिका। श्येनिका।
मौक्तिकमाला। उपस्थितम्। चन्द्रवर्त्म वंशस्थम् । इन्द्रवंशा। तोटकम्। द्रुतविलम्बितम्।
पुटम्। प्रमुदितवदना। कुसुमविचित्रा। जलोद्धतगति:। विभावरी। स्रग्विणी। प्रियंवदा।
मणिमाला। ललिता। मौक्तिकदाम। प्रमिताक्षरा उज्ज्वला वैश्वदेवी जलधरमाला।
नवमालिनी प्रभा मालती तामरसम्। क्षमा=चन्द्रिका=उत्पलिनी प्रहर्षिणी असम्बाधा।
रुचिरा। प्रहरणकलिका। मत्तमयूरम्। मञ्जुभाषिणी। चन्द्रिका। अपराजिता। शशिकला।
कामक्रीडा प्रभद्रकम् एला चन्द्रलेखा ऋषभगजविलसितम् वाणिनी पञ्चचामरम्
वंशपत्रपतितम् हरिणी मन्दाक्रान्ता नर्कुटकम् कुसुमितलतावेल्लिता मेघविस्फूर्जिता सुवदना
स्रग्धरा भद्रकम् अश्वलालितम् मत्ताक्रीडा तन्वी क्रौञ्चपदा भुजङ्गविजृम्भितम्। (भुजङ्गविलसितम्।)
अपवाह:

गणस्वामिनः फलानि च[सम्पादयतु]

        मो भूमिः श्रियमातनोति य जलं वृद्धिं र चाग्निर्मृतम्,

सो वायुः परदेशदूरगमने त व्योम शून्यं फलम्।

जः सूर्यो रुजमादधाति विपुलं भेन्दुर्यशो निर्मलम्,

नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः।।

क्रमः गणनाम स्वरूपम् देवता फलम्
यगणः ।ऽऽ जलम् वृद्धिः
मगणः ऽऽऽ पृथ्वी लक्ष्मीः
तगणः ऽऽ। नभः शून्यं फलम्
रगणः ऽ।ऽ अग्निः मरणम्
जगणः ।ऽ। सूर्यः रोगः
भगणः ऽ।। शशिः यशः
नगणः ।।। स्वर्गः सुखम्
सगणः ।।ऽ वायुः विदेशगमनम्

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. ( सर्वानुक्रमणी १।१ )
  2. ( १।४।२)
  3. (नि० ७॥१९)
  4. (७/२)
  5. ( ना० शा० १४॥४५ )
  6. (‘वैदिकछन्दोमीमांसा’ पृ० ८९, रच० युधिष्ठिरमीमांसक )
  7. १७॥३९
  8. ( सर्वानुक्र० पृ० २ )
  9. ( ऋक् प्रा० १७॥२ )
  10. (सर्वा० ३६)
  11. ऋ० ७॥१९॥२
  12. ( ऋ० ७॥६५॥१ )
  13. ऋ°( ७l९३।१ )
  14. ( ऋ० ७॥३६॥१ )
  15. (पाणि० ६॥१॥१०९ )
  16. ( ऋ० १॥७॥४ )
  17. ( ऋ० १०॥१०॥३६ )
  18. षड्गुरुशिष्यस्य पूर्वोक्तसूत्रस्य वृत्तिर्द्रष्टव्या पृ० ६३
  19. ( ऋ० १०॥११७॥७ )
  20. ( ऋo ८।।६१।१७ )
  21. ऋo ७॥४०॥६
  22. ( १७/१७ )
  23. भरतस्य ना० शा० १४।।४६
  24. (१४।११३)
  25. ८॥९ ( बृहस्पति***ऋध्यासम् )
  26. ४/७ ( आापोदेवी’** स्वाहा )
  27. ८॥१२ ( यस्ते’**भक्षयामि )
  28. ८।१८ (सुगावो देवा***स्वाहा) , ८॥१६ ( संवर्चसा***विलिष्टम् )
  29. ८॥३० ( पुरुदस्मो***स्वाहा )
  30. (ऋक्० ७॥६६॥१६ )
  31. (उदा० ऋकू० ५॥५३॥५)
  32. ( ऋ० १॥७९॥४ )
  33. (ऋक्० १०॥१०५॥|२ )
  34. (उदा० ऋकू० ७॥२२॥४)
  35. (ऋ० ३॥२५॥४)
  36. ( ऋ० १०॥९३॥१५ )
  37. ( उदा० ऋ० ८।।१।१ )
  38. ( ऋ० ८।१।१ )
  39. ( ऋ० १॥१२६॥७ )
  40. ( उदा० ऋ० ९॥११०॥९ )
  41. ( उदा० ऋ० ८॥९६॥४ )
  42. ( उदा० ऋ० १/३६/१८)
  43. ( ऋ० ८॥४६॥१२ )
  44. ( उदा० ऋ० १०।२१।१ )
  45. ( उदा० ऋ० १०॥९३॥९ )
  46. ( उदा० ऋ० १०॥१७२॥|२ )
  47. ( उदा9 ऋ० १०।१४०॥१ )
  48. ( उ० ऋ० १।८१।१ )
  49. ( उ० ऋ० ५॥४१।१ )
  50. ( उ० ऋ० १०॥२३॥५)
  51. ( उ० ऋ० ८॥३५॥२३ )
  52. ( उ० ऋ० ६॥४८॥४ )
  53. (उ० ऋ० ५।११।। १)
  54. ( उ० ऋ० १०।२३।४ )
  55. ( उ० ऋ० ६॥४८।।६ )
  56. ( उदा० ऋ० ८।४७।१ )
  57. ( १६॥८७-८८ )
  58. ( ऋ० ८॥९७॥१३ )
  59. (ऋ० १०/१३३/१)
  60. (ऋ० १/१३७/१)
  61. ( उदा० ऋ० २।२२।१ )
  62. ( ऋ० १॥१३६॥२ )
  63. (४।१।३।)
  64. ( ऋ० १।१२७६ )
  65. ( १७॥४६-४७ )
"https://sa.wikipedia.org/w/index.php?title=छन्दः&oldid=473266" इत्यस्माद् प्रतिप्राप्तम्