सन्धिप्रकरणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सन्धिः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

सन्धिप्रकरणम्[सम्पादयतु]

उच्चारणसमये वर्णानाम् अत्यन्तं सामीप्यं संहिता। यत्र संहिता भवति तत्र क्वचित् वर्णव्ययः भवति। अयमेव सन्धिः।

  • वर्णस्य वर्णयोः वा स्थाने यदि अन्यः वर्णः भवति सः आदेशः।
  • एकेन वर्णेन सह यदि अन्यः वर्णः अपि भवति सः आगमः।

( शत्रुवत् आदेशः। मित्रवत् आगमः।)

सन्धयः त्रिविधाः १) स्वरसन्धिः २) व्यञ्जनसन्धिः ३) विसर्गसन्धिः

स्वरसन्धिः (अच् सन्धिः)[सम्पादयतु]

यत्र द्वयोः स्वरयोः संहिता तत्र सन्धिकार्यं भवति। तत्र एकस्य वर्णस्य क्वचित् आदेशो भवति क्वचित् द्वयोः वर्णयोः। अयं स्वरसन्धिः भवति।

प्रकाराः - १) सवर्णदीघसन्धिः २) गुणसन्धिः ३) वृद्धिसन्धिः ४) यण्सन्धिः ५) पूर्वरूपसन्धिः ६) यान्तवान्तादेशसन्धिः ७) प्रकृतिभावसन्धिः

सवर्णदीर्घसन्धिः[सम्पादयतु]

  • पाणिनीयसूत्रम् - अकः सवर्णे दीर्घः

अ इ उ ऋ एतेषां वर्णानां सवर्णे परे द्वयोः वर्णानां स्थाने एकः सवर्णः दीर्घः आदिष्टः भवति। अयं सवर्णदीर्घसन्धिः।

उदा -

अल्प + अपराधः = अल्पापराधः

मुनि + इन्द्रः = मुनीन्द्रः

गुरु + उपदेशः = गुरूपदेशः

पितृ + ऋणम् = पितॄणम्

गुणसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - आद्गुणः

(ए, ओ, अर् एतेषां गुण इति नाम।) अकारस्य वा आकारस्य इकारे परे एकारः उकारे परे ओकारः ऋकारे परे अर्कारः च द्वयोः वर्णयोः स्थाने आदिष्टः भवति। अयं गुनसन्धिः।

उदा -

राम + इति = रामेति

सूर्य + उदयः = सूर्योदयः

ब्रह्म + ऋषिः = ब्रह्मर्षिः

महा + ईश्वरः = महेश्वरः

वृद्धिसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - व्रुद्धिरेचि, उपसर्गादृति धातौ

(ऐ, औ, आर् एतेषां वृद्धि इति नामः।) अवर्णस्य एकारे ऐकारे च परे द्वयोः वर्णयोः स्थाने ऐकारः ओकारे औकारे च परे द्वयोः वर्णयोः स्थाने औकारः ऋकारे ॠकारे च परे द्वयोः वर्णयोः स्थाने आर्कारः आदिष्टः भवति। अयं वृद्धिसन्धिः।

उदा -

एक + एकम् = एकैकम्

वन + ओषधिः = वनौषधिः

प्र + ऋच्छति = प्रार्च्छति

देव + ऐश्वर्यम् = देवैश्वर्यम्

यण्सन्धिः[सम्पादयतु]

  • पाणीनीसूत्रम् - इकोयणचि

(य्, व्, र्, ल् एतेषां यण् इति नाम।) इ, उ, ऋ, लृ एतेषां वर्णानाम् असवर्णे स्वरे परे य्, व्, र्, ल् वर्णाः क्रमशः आदिष्टाः भवन्ति। अयं यण् सन्धिः।

उदा -

इति + आदि = इत्यादि

मधु + अरिः = मध्वरिः

पितृ + अंशः = पित्रंशः

लृ + आकृतिः = लाकृतिः

पूर्वरूपसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - एङः पदान्तादति

पदान्ते स्थितस्य एकारस्य ओकारस्य वा ह्रस्वे अकारे परे द्वयोः वर्णयोः स्थाने पूर्वरूप्ः आदेशः भवति। अयं पूर्वरूपसन्धिः। (अवग्रहचिह्नम् - ऽ)

उदा -

के + अपि = केऽपि

को + अपि = कोऽपि

सो + अयम् = सोऽयम्

रामो + अवदत् =रामोऽवदत्

यान्तवान्तादेशसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - एचोऽयवायावः

ए, ओ, ऐ, औ इत्येतेषां वर्णानां स्थाने स्वरे परे अय्, अव्, आय्, आव् इत्येते आदेशाः क्रमशः भवन्ति। अयं यान्तवान्तादेशसन्धिः।

उदा -

हरे + ए = हरये

नै + अकः = नायकः

विष्णो + ए = विष्णवे

उभौ + अपि = उभावपि

प्रकृतिभावः[सम्पादयतु]

  • पाणिनीसूत्रम् - प्लुतप्रगृह्या अचि नित्यम्

वर्णयोः यत्र सन्धिः न भवति सः प्रकृतिभावः। ईकारात्, ऊकारात्, एकारात् वा द्विवचनात् स्व्ररे परे सन्धिः न भवति। अयमं प्रकृतिभावः।

उदा -

हरी + एतौ = हरी एतौ

साधू + ऊचतुः = साधू ऊचतुः

व्यञ्जनसन्धिः (हल्सन्धिः)[सम्पादयतु]

यत्र द्वयोः व्यञ्जनयोः संहिता तत्र सन्धिकार्यं भवति। अयं व्यञ्जनसन्धिः भवति। क्वचित् व्यञ्जनाक्षरस्य स्वरे परेऽपि व्यञ्जनसन्धिः भवति।

प्रकाराः - १) श्चुत्वसन्धिः २) ष्टुत्वसन्धिः ३) जश्त्वसन्धिः ४) अनुनासिकसन्धिः ५) अनुस्वारसन्धिः ६) परसवर्णसन्धिः ७) ङमुडागमसन्धिः ८) छत्वसन्धिः

श्चुत्वसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - स्तोः श्चुना श्चुः।

सकारतवर्गयोः शकारे चवर्गे च परे शकारचवर्गौ एव क्रमशः आदेशौ स्तः। अयं श्चुत्वसन्धिः।

उदा -

तत् + च = तच्च

गुणिन् + जयः = गुणिञ्जयः

मन्दास् + चरितम् = मन्दाश्चरितम्

रामस् + शेते = रामश्शेते

ष्टुत्वसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - ष्टुना ष्टुः।

सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ स्तः।

उदा -

तत् + टीका = तट्टीका

रामस् + षष्टः = रामष्षष्टः

जिस् + णुः = जिष्णुः

पतत् + डयते = पतड्डयते

जश्त्वसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - झलां झशोन्ते।

पदान्ते स्थितस्य वर्गीयप्रथमाक्षरस्य स्वरे परे अथवा अनुनासिकं विहाय मृदुव्यञ्जने परे तस्य वर्गस्य तृतीयवर्णः आदिष्टः भवति। अयं जश्त्वसन्धिः।

उदा -

सत् + गुणः = सद्गुणः

प्राक् + एव = प्रागेव

षट् + एते = षडेते

अप् + धिः = अब्धिः

अनुनासिकसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - यरोनुनासिकेऽनुनासिको वा।

पदान्ते स्थितस्य वर्गीयप्रथमवर्णस्य अनुनासिकाक्षरे परे तस्य तस्य वर्गस्य पञ्चमवर्णः आदिष्टः भवति। अयं अनुनासिकसन्धिः।

उदा -

वाक् + मयः = वाङ्मयः

षट् + मुखः = षण्मुखः

चित् + मयः = चिन्मयः

उत् + नसः = उन्नसः

अनुस्वारसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - मोऽनुस्वारः।

पदान्ते विद्यमानस्य मकारस्य व्यञ्जने परे मकारस्य स्थाने अनुस्वारः आदिष्टः भवति।

उदा -

देवम् + वन्दे = देवं वन्दे

एवम् + रूपेण = एवं रूपेण

परसवर्णसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - अनुस्वारस्य ययि परसवर्णः वा पदान्तस्य।

अनुस्वारस्य वर्गीयव्यञ्जने परे तस्य वर्गस्य पञ्चमवर्णः आदिष्टः भवति। अयं परसवर्णसन्धिः।

उदा -

अं + कितः = अङ्कितः

दं + डः = दण्डः

इदं + च = इदञ्च

आनं + दः = आनन्दः

ङमुडागमसन्धिः[सम्पादयतु]

  • पाणिनीसूत्रम् - ङमो ह्रस्वादचि ङमुण्नित्यम्।

ह्रस्वस्वरात् परं विद्यमानानां ङ्, ण्, न् एतेषां वर्णानां स्वरे परे द्वित्यं भवति। अयं ङमुडागमसन्धिः।

उदा -

वसन् + अस्ति = वसन्नस्ति

रुदन् + उपविशति = रुदन्नुपविशति

कुर्वन् + एव = कुर्वन्नेव

रुदन् + इति = रुदन्निति

छत्वसन्धिः[सम्पादयतु]

अनुनासिकं विहाय वर्गीयव्यञ्जनानां पुरतः विद्यमानस्य शकारस्य स्वरे अथवा ह्, य्, व्, र्, ल्, परे शकारस्य स्थाने छ्कारः आदिष्टः भवति। अयं छत्वसन्धिः।

उदा -

तत् + शिवः = तच्छिवः

उत् + श्वासः = उच्छ्वासः

एतत् + शास्त्रम् = एतच्छास्त्रम्

तत् + श्रुत्वा = तच्छृत्वा

विसर्गसन्धिः[सम्पादयतु]

विसर्गस्थाने सादेशेन, विसर्गलोपेन, रेफेन, उत्वेन च विसर्गसन्धयः भवन्ति।

प्रकाराः - १) सकारादेशः २) उकारादेशः ३) रेफादेशः ४) विसर्गलोपः

सकारादेशः[सम्पादयतु]

विसर्गात्परं यदि क-ख प-फ वर्णान् वर्जयित्वा कर्कशव्यञ्जनानि भवन्ति तदा विसर्गस्थाने सकारस्य आदेशः भवति।

उदा -

कः + चित् = कश्चित्

रामः + तत्र = रामस्तत्र

रामः + षष्ठः = रामष्षष्ठः

धनुः + ठङ्कारः = धनुष्ठङ्का

उकारादेशः[सम्पादयतु]

ह्रस्वाकारात् परं विसर्गः ततः परम् अकारः मृदुव्यञ्जनं वा भवेत् चेत् विसर्गस्थाने उकारः भवति।

उदा -

देवः + अयम् = देवोऽयम्

रामः + अत्र = रामोऽत्र

शिवः + वन्द्यः = शिवो वन्द्यः

रामः + जयति = रामो जयति

रेफादेशः[सम्पादयतु]

अ आ कारौ विहाय इतरेभ्यः स्वरेभ्यः परं विसर्गः ततः परं स्वरः अथवा मृदुव्यञ्जनं भवति चेत् विसर्गः रेफत्वेन परिणमते।

उदा -

गुरुः + इच्छा = गुरुरिच्छा

मुनिः + नमति = मुनिर्नमति

रविः + उदेति = रविरुदेति

वधूः + एषाः = वधूरेषा

विसर्गलोपः[सम्पादयतु]

आकारात् परं विद्यमानस्य विसर्गस्य पुरतः स्वरः अथवा मृदुव्यञ्जनं भवेत् चेत् विसर्गस्य लोपः भवति। अकारात् परं विद्यमानस्य विसर्गस्य पुरस्तात् अकारं विना इतरेषु स्वरेषु आगतेषु विसर्गः लुप्यते।

उदा -

देवाः + यान्ति = देवा यान्ति

सुराः + नम्याः = सुरा नम्याः

अर्जुनः + उवाच = अर्जुन उवाच

वेदः + इति = वेद इति

उल्लेखः[सम्पादयतु]

  • संस्कृतव्याकरणप्रभा
"http://sa.wikipedia.org/w/index.php?title=सन्धिप्रकरणम्&oldid=272037" इत्यस्माद् पुनः प्राप्तिः