संस्कृतसाहित्यशास्त्रम्
इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी
- इदमन्धं तम: कृस्नं जायेत भुवनत्रयम् ।
- यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥
एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक: शब्द: प्रतिभाति । अत एव अर्थे शक्यतावच्छेदकस्येव शब्दस्यापि विशेषणतया भानमिति शब्दविद:, तदुक्तं भर्तृहरिणा –
- न सोऽस्ति प्रत्ययो लोके य: शब्दादनुगमादृते ।
- अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥
एवं शब्दार्थयो: अविनाभावस्य सत्त्वादेव महाकविना कालिदासेन। पार्वतीपरमेश्वरयो: उपमानत्वेन वागर्थयो: निर्देश: कृत: नान्ययो: कयोश्चित् ।
यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।
काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । अलङ्कारशास्त्रमिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।
अस्मिन् शास्त्रे प्राधान्येन विचारणीयं भवति काव्यम् । ततश्च काव्यं लक्ष्यं भवति, शास्त्रं चेदं लक्षणम् इत्येतदुक्तं भवति । काव्यविचारपरेऽस्मिन् शास्त्रे काव्यस्य लक्षणम्, तस्य प्रयोजनम्, तस्य कारणम्, वाच्य-लक्ष्य-व्यङ्ग्यरूपम् अर्थत्रैविध्यम्, व्यञ्जनेति व्यतिरिक्तवृत्ते: सयुक्तिकं समर्थनम्, रसादि:, काव्यगता दोषा:, तद्गता: गुणा:, शब्दविन्यासरूपा रीति:, यमकोपमादयोऽलङ्कारा:, कविसमयश्चेति विषया मुख्यतया विमृष्टव्या भवन्ति ।
काव्ये आत्मस्थानीय: पदार्थ: क इत्यस्मिन् विषये मतभेदात् नानासिद्धान्ता: आविर्भूता: सन्ति । तत्र भामहादय: प्राचीना: काव्ये आत्मस्थानीयम् अलङ्कारं वदन्ति । वामनो रीतिम् । आनन्दवर्धनो ध्वनिम् । कुन्तको वक्रोक्तिम् । क्षेमेन्द्र औचित्यम् । अभिनवगुप्तादयस्तु रसम् । इमे षट् सिद्धान्ता: प्रस्थानशब्देन व्यवह्रियन्ते । सम्प्रदाय इत्यनेनापि शब्देन एषां व्यवहार: । । क्रमेण तानि प्रस्थानानि यथा –
- अलङ्कारप्रस्थानम् - भामह-जयदेव-रुद्रटादय: ।
- रीतिप्रस्थानम् - वामन: ।
- वक्रोक्ति: - कुन्तक: ।
- ध्वनि: - आनन्दवर्धन: ।
- औचित्यप्रस्थानम् - क्षेमेन्द्र: ।
- रसप्रस्थानम् - अभिनवगुप्तः-मम्मटः- विश्वनाथादय: प्रायेण सर्वेरपि अर्वाचीनाः आालङ्कारिका: ।
तत्र अलङ्कारो नाम शब्दनिष्ठ: अर्थनिष्ठो वा कश्चित् शोभाकारी धर्म: । रीतिर्नाम पदविन्यास: । ध्वनिर्नाम प्रधानो व्यङ्ग्य: । वक्रोक्तिर्नाम प्रतिभावशात् भङ्ग्यन्तरेण प्रतिपादनम् । औचित्यं गुणालङ्कारादीनाम् आनुरूप्यम् । रसो नाम विभावानुभावव्यभिचारिभि: अभिव्यक्तो रत्यादि: । यद्यपि एषां स्वरूपे क्वचित् विप्रतिपत्ति: वर्तते तथापि सामान्येन इदमभिधानमिति मन्तव्यम् ।
साहित्यशास्त्रे यद्यपि बहवो विमर्शका: प्रसिद्धा: सन्ति । न तेषां सवेर्षां विवरणमत्र कर्तुं शक्यम् । तथापि विख्यातानां कतिपयानाम् आलङ्कारिकाणां नामानि काश्चित् तेषां कृतयो जीवितकालश्च प्रायेण निरूप्यते, यथा