जीवशास्त्रम्
जीवशास्त्रं यस्मिन् शास्त्रे विविधानां जीवानां समग्राध्ययनं विद्यते तच्छास्त्रं जीवशास्त्रं कथ्यते। समस्तप्राणिनां जीवनस्य सूक्ष्मरूपेण अवलोकनम् अध्ययनञ्च जीवशास्त्रस्य विषयः भवति।
अन्तर्विषयाः |
भूमिका[सम्पादयतु]
क्षेत्रा:[सम्पादयतु]
- चिकित्साशास्त्रम्
- शालिहोत्रशास्त्रम्
- तन्तुनाभशास्त्रम्
- जीवरासायनम्
- कोशाशास्त्रम्
- जन्तुशास्त्रम्
- सर्पशास्त्रम्
- आन्दुवंशिकीशास्त्रम्
- पादपशास्त्रम्
- पशुशास्त्रम्
इत्यादयः
इतिहासः[सम्पादयतु]
वेदेषु अपि अनेके पादपा: पशव: च वर्णिता: सन्ति। वेदेषु सोमौषधिः वनराजः इति प्रशंसितः दृश्यते। तदा जनाः अश्वत्थकाष्ठेन पात्राणां निर्माणं कुर्वन्ति स्म। महाकाव्येषु अपि भारतीयजीवशास्त्रस्य महत्त्वम् दृश्यते। तैत्तिरीयसंहितायाम् पादपानाम् अङ्गानि वर्णितानि। उदयनः पृथ्वीनिरापर्ये पादपाः जीविनः इति प्रत्यपद्यत। बौद्धतत्वज्ञानी धर्मोत्तरः न्यायविदूतिकायाम् पादपानां निद्राम् अवर्णयत् (रात्रौ पत्राणि पिदधाति)। गुणरत्नः सद्दर्शनसमुच्चये जीवीनाम् स्वभावान् विवदते स्म। पराशरः वृक्षायुर्वेदग्रन्थे प्रभासंयोगम् अवर्णयत्। पराशरः पादपगणता अभिदधाति स्म। चरकसुश्रुतौ आन्दुवंशिक्याः मूलभूतानाम् अध्ययनम् अकुरुताम्। शालिहोत्राग्निवेषौ पशुवैद्यौ आस्ताम् । सुश्रुतः अपि महान् चिकित्सकः आसीत्।