अलङ्काराः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्



अलङ्कारः (Alankara) काव्यशास्त्रस्य विषयः अस्ति ।

अलङ्कारशब्दस्य व्युत्पत्तिः डुकृञ् (कृ)-धातुना अण् प्रत्ययं कृत्वा भूषणार्थे अलं-शब्देन समासं कृत्वा भवति । अलङ्कारः काव्यस्य भूषणं भवति यथा अङ्गद-कुण्डलादयः मनुष्यस्य भूषणानि भवन्ति । तथैव ते काव्यस्य सौन्दर्योत्कर्षहेतवः भवन्ति । अलङ्कारस्योपरि अनेकैः आचार्यैः विशदः विमर्शः कृतः । काव्यस्य सौन्दर्यविधायकेषु तत्त्वेषु अलङ्कारस्य कियत् स्थानम् कियत् प्राधान्यं वा इति विषये आचार्येषु मतभेदः वर्तते। परन्तु काव्योत्कर्षे अलङ्काराणाम् अत्यधिकं महत्त्वम् अस्ति इति मतं सर्वे अङ्गीकुर्वन्ति । काव्यस्य सौन्दर्यविधायकतत्त्वेषु कस्य तत्त्वस्य प्राधान्यम् आत्मतत्त्वत्वं वा इति मतमधिकृत्य काव्यशास्त्रस्य अनेके सम्प्रदायाः विकसिताः । अलङ्कारसम्प्रदायः अपि एतेषामेकः अस्ति । सम्प्रदायानां, तेषां प्रवर्तकाचार्याणां, प्रवर्तकग्रन्थानां च नामानि एतानि सन्ति -

अलङ्काराः[सम्पादयतु]

काव्याङ्गेष्वलङ्काराणां समुचितं स्थानमस्ति । भामहः, अलङ्काराः कटककुण्डलादयो यथा स्त्रीपुरुषयोश्शरीरसौन्दर्यमभिवर्धयन्ति तथा उपमादयोऽलङ्काराः काव्यशरीरस्य सौन्दर्यमभिवर्धयन्तीति कथयामास । सः रसमपि रसवदलङ्काररुपेण पर्यगणयत् । वामनः काव्यालङ्कारसूत्रवृत्तौ काव्यस्यात्मा रीतिरिति, अलङ्काराः काव्यसौन्दर्यमतिशाययन्तीति च प्रोवाच । दण्डी तु काव्यान्तस्सौन्दर्यस्यगुणाः एवाभिवर्धकाः इति, अलङ्कारास्तु काव्यस्य बाह्यशोभाकारणभूताः इति च, अकथयत् । ध्वनिकारो ध्वनिं काव्यात्मतया सिध्दान्तीकृत्य, सः ध्वनिर्वस्त्वलङ्काररसरुपेण त्रिविधो भवतीति व्याख्यातवान् । अभिनवगुप्तो पद्येऽप्यलङ्कारवैशिष्ट्यमभ्युपगतवान्, तथापि तेषां रसपर्यवसायित्वमेव युक्तं मेने । जगन्नाथपण्डितः व्यङ्ग्यरामणीयकतायामलङ्काराः प्रयोजकाः भवन्तीत्यवदत् । एवं लाक्षणिकाः केवलालङ्काराणां समुचितं स्थानमस्तीति मुक्तकण्ठमङ्गीचक्रुः ।

अर्थालङ्काराणामभावे शब्दसौन्दर्यं केवलं चित्तमावर्जयितुं न शक्नोतीति, अलङ्कारस्पर्शाऽभावे वाक्यान्यरमणीयानि भवन्तीति च केचन वदन्ति । अर्थालङ्काररहिताविधवेव सरस्वती इति, अग्निपुराणे व्याख्यातमस्ति । काव्यलक्षणकरणसमये मम्मटः, अनलङ्कृती पुनः क्वापि इत्यवदत् । तत्रापि स्फुटालङ्कारप्रतीत्यभावेऽपि नास्तिदोषः इत्येव तस्य आशयः, न तु सर्वथाऽलङ्कारविरहस्तस्याऽभिमतः । रसस्य ध्वनेश्चोपस्कारकास्सन्तोऽलङ्काराः काव्यस्य शोभामुद्दीपयन्तीत्यत्र नास्ति विप्रतिपत्तिः ।

वामनः तु

सौन्दर्यमलङ्कारः
स दोषगुणालङ्कारहानादानाभ्याम्
काव्यशोभायाः कर्तारो धर्मा गुणाः
तदतिशयहेतवस्त्वलङ्काराः

इति सूत्रेषु, अलङ्कारस्वरुपं व्याख्यातवान् । काव्यशोभायाः अभिवर्धने हेतुभूताः अलङ्काराः भवन्तीति तस्याशयः ।

काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते

इति दण्डी अलङ्कारनिर्वचनमकरोत् । अलङ्कृतिरलङ्कारः, अलङ्क्रियतेऽनेन इत्यलङ्कारः, इति अलङ्कारशब्दस्य व्युत्पत्तिद्वयमस्ति । अनयोद्विर्वतीयव्युत्पत्तिरुपमाद्यलङ्काराणां विषयेऽनुगुणतया समन्वेति । ततश्च अलङ्कारो नाम अलङ्करणसाधनमित्येव विभाव्यं न त्वलङ्कार्यमिति । जगन्नाथपण्डितः स्वयं सुन्दरं सदन्योपस्कारकमलङ्कारशब्दवाच्यमवोचत् । सुन्दरत्वे सत्युपस्कारकत्वमलङ्कारत्वम् इति जगन्नाथेन प्रतिपादितम् ।

सङ्ख्याविषयः[सम्पादयतु]

अलङ्काराणां संख्याविषयेमतभेदाः दृश्यन्ते । भरतो यमकाख्यमेकं शब्दालङ्कारं, उपमादीपकरूपकाख्यान् त्रीनर्थालङ्कारांश्च प्रत्यपादयत् । अग्निपुराणेऽष्टौ, विष्णुधर्मोत्तरपुराणे सप्तदश चालङ्काराः वर्णिताः । दण्डी पञ्चत्रिंशत्, भामहोद्भटौ षट्त्रिंशत्, च अलङ्कारान् कथयामासुः । मम्मटः एकषष्टिसंख्याकान्, विद्यानाथः, षट्षष्टिसंख्याकान् (रसवदादिभिस्सप्तभिर्मेलने त्रिसप्तातिः), विश्वनाथः नवसप्ततिसंख्याकान् जयदेवः एकाधिकशतसंख्याकान्, अप्पय्यदीक्षितः एकविंशत्युत्तरशतसंख्याकान् च, अलङ्कारान् पर्यगणयन् । शोभाकरमिश्रोऽलङ्कारसंख्यामितोऽप्यवर्धयत् । भरतप्रोक्तानि भूषणानि, लास्याङ्गानि, नाट्यालङ्काराः, केचित्सन्ध्यङ्गानि चार्वाचीनैरालङ्कारिकैरलङ्कारेषु विन्यस्तानि । किमिमे सर्वेऽप्यलङ्काराः भवन्ति ? केचनालङ्काराः अलङ्कारान्तरेषु, अन्तर्भावयितुं शक्यन्ते वा ? इति विमर्शो रसगङ्गाधरे परिदृश्यते ।

विभागाः[सम्पादयतु]

अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धमाना दृश्यते । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यते । ततः भामहः काव्ये अलङ्काराणां महत्त्वम् उपलक्ष्य अलङ्कारसम्प्रदायम् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)

आदौ अलङ्कारा: द्विधा वर्गीक्रियन्ते ।

केचिदुभयालङ्काराः इति तृतीयमपि भेदमाहुः । अर्थमनपेक्ष्य शब्दं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराश्शब्दालङ्काराः उच्यन्ते । अर्थं केवलमाश्रित्य प्रवर्तमानाः अलङ्काराः अर्थालङ्काराः भवन्ति । शब्दार्थाश्रयाः अलङ्काराः उभयालङ्काराः कथ्यन्ते ।

अनुप्रासयमकादयश्शब्दालङ्काराः उपमारुपकादयोऽर्थालङ्काराः, पुनरुक्तवदाभासलाटानुप्रासादयः, उभयालङ्काराः भवन्ति । भोजः सरस्वतीकण्ठाभरणे शब्दालङ्काराः बाह्याः, अर्थालङ्काराः आभ्यन्तराः इति व्याजहार । जाति- गति- रीति- वृत्ति- च्छाया –मुद्रा –शय्यादयोऽपि शब्दालङ्काराः एवेति निश्चिकाय । औचित्यमनुसृत्य प्रयुक्ताश्शब्दालङ्काराः पाठकानामानन्दमभिवर्धयन्ति । संस्कृतकवयो वनयुध्दवर्णनादि सन्दर्भेषु शब्दालङ्कारान्बहुविधान् समायोजितवन्तः । आन्ध्रभाषाकवयोऽपि वन- जल- क्रिडा- पुष्पापचय-प्रभृति वर्णनेषु शाब्दालङ्कारप्रीतिमदर्शयन् । वस्तुतश्छन्दोयुक्ता रचनैव शब्दालङ्काररुपा इति केचिद्वदन्ति । अर्थालङ्काराणां योजनेन कवेः प्रतिभाकौशलमतीवाऽभिव्यज्यते । आनन्दजनकाः भावरामणीयकचमत्काराः एव मूलमलङ्काराणाम् । यद्यप्यलङ्कारास्समग्रलक्षणलक्षिताः भवन्ति, तथापि तेषामङ्गिसैन्दर्यजनकता यदि न स्यात्तदा तेऽलङ्काराणां प्रधानं कार्यमिति वदन्त्यालङ्कारिकाः । अलङ्काराः यदा ललनाशरीरमधिष्ठाय सौन्दर्यमभिवर्धयन्ति तदैव तेऽलङ्काराः शब्दवाच्या भवन्ति, न तु पेटिकास्थिता अलङ्काराः । एवं रसध्वन्युपरस्कारकाणामेवालङ्काराणामलङ्कारता सिध्यति । अन्यथा ते केवलमर्थचित्रा भवन्ति । केचित् रसमप्यलङ्कारं भावयन्ति । तन्न युक्तम् । यतो रसो न कमप्यलङ्करोति । अपि तु स्वयमलङ्कार्यो भवति । यो हयप्रधानो जायमानः अन्यमलङ्करोति स एवालङ्कारशब्दव्यपदेश्यो भवति । अतो रसः केवलमलङ्कार्यो भवति, न त्वलङ्कारः ।

प्रतापरुद्रीयेऽलङ्काराणां विभागः[सम्पादयतु]

रुपक- परिणा सन्देहादयः (१६) प्रतीयमानौपम्याः । एष्वौपम्यं व्यङ्ग्यतया भासते न तु वाच्यतया ।
समोसोक्ति – पर्यायोक्ति – आक्षेप- परिकरादयः (१०) प्रतीयमान वस्तुकाः । एषु वस्तु व्यङ्ग्यतयाऽवभासते ।
रसवत् –प्रेय –ऊर्जस्वि- समाहित – भावोदय- भाव शान्ति – भावसन्धि – भावशबलताः (८) प्रतीयमानरसभावाः । एतेषु रसभावाः व्यङ्ग्यतयाऽभिव्यज्यन्ते । :शिष्टाः उपमादयोऽलङ्काराः (४०) अस्फुटप्रतीयमानौपम्यरसभावाः । एषु वस्तु – रस –भाव- औपम्यादयोऽस्फुटतया केवलं प्रतीयन्ते ।
  1. साधर्म्य – विरोधादि मूलकतयाऽलङ्कारा द्वादश विद्या विभक्ताः । रुपक परिणामादयः (७) अभेद प्रधान साधर्म्याः ।
  1. दीपकतुल्ययोगितादयः (८) भेदप्रधानसाधर्म्याः ।
  1. उपमा – अनन्वयादयः (४) भेदाऽभेदप्रधानसाधर्म्याः ।
  1. एवं साधर्म्यमूलकाः अलङ्कारा (१९) एकोनविंशति भेदभिन्नाभवन्ति ।
  1. उत्प्रेक्षाऽतिशयोक्त्य्लङ्कारौ (२) अध्यवसायमूलौ ।
  1. उपमेयं वाच्यतयाऽनुक्त्वा उपमानमात्रमुक्त्वा तयोरभेदकथनमध्यवसायः उच्यते ।
  1. विभावना विशेषोक्त्यादयः (१०) विरोधमूलाः । एषु कार्यकारणवैरुध्यमुपलक्ष्यते ।
  1. यथासंख्य- परिसंख्य- प्रभृतयः (५) वाक्यन्यायमूलाः भवन्ति । वाक्यन्यायमीमांसाशास्त्रसम्बध्दाः भवन्ति ।
  1. परिवृत्ति- प्रत्यनीक –प्रभृतयः (८) लोकव्यवहारमूलाः ।
  1. काव्यलिङ्ग – अनुमान –अर्थान्तरन्यासाः (३) तर्कन्यायमूलाः ।
  1. कारणमाला एकावली – मालादीपकसाराः (४) श्रृङ्खलावैचित्र्यमूलाः । हारस्थानां मौक्तिकानां रत्नादीनां च पौर्वापर्यसम्बन्धेन सौन्दर्यातिशयो यथा भवति तद्वदत्रापि वैचित्र्यं भवति ।
  1. व्याजोक्ति- अपह्नवौ (२) विशेषणवैचित्र्यमूलकौ भवतः ।
  1. शिष्टाः श्लेषादयः (३) केवलालङ्काराः भवन्ति । अत्र न कस्यापि न्यायादेरपेक्षा वर्तते ।

केचित् पुनः शास्त्रीयांशानां प्रवेशमालम्ब्य अलङ्कारान् व्याकरणमूलकाः, मीमांसामूलकाः, न्यायशास्त्रमूलकाः, वेदान्तशास्त्रमूलकाः इति व्यभजन् । प्राचीनालङ्कारिकाः केचिदुपमायाः, अन्ये वक्रोक्तेः, अपरे श्लेषस्य च प्राधान्यमदुः । वामनः, उपमालङ्कारं सर्वालङ्कारबीजभूतममन्यत । अतोऽयमुपमागर्भानलङ्कारान् विस्तरेण प्रत्यपादयत् । अर्वाचीनाः आलङ्कारिकाः वामनमतमेवाऽनुसरन्तः, स्वीयग्रन्थेषु उपमायाः प्राथम्यं प्राधान्यं चाकल्पयन् । दण्डी बहून् उपमालङ्कारभेदानकथयत् । अप्पय्यदीक्षितश्चित्रमीमांसायां –

उपमैका शैलूषी संप्राप्ता चित्र भूमिका भेदान् ।
रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥

इति प्रतिपादयन् उपमाया व्यापकतामकथयत् । भामहस्सर्वेऽप्यलङ्काराः वक्रोक्तयः एवेति संभावयामास । वक्रोक्तिर्नाम स्वभावविरुध्दाः चमत्कारसंशोभिताः च विकटोक्तिरेव । तथा विकटतया कथनेनैव चमत्कारोदयो भवति, पाठकानामानन्दोऽप्यभिवर्धते । वक्रोक्ते रभावादेव स्वभावोक्तिं भामहोऽलङ्कारतया न स्वीचकार । कुन्तको भामहस्य वक्रोक्तिवादमभ्युपगम्य, वक्रोक्तिरेव काव्यजीवितमिति सिध्दान्तयामास । मम्मटः अतिशयोक्तिं सर्वालङ्कारबीजभूतामभावयत् । अस्य अतिशयोक्तिः, भामहाभिमताः वक्रोक्तिश्च अभिन्ने एव ।

सैषा सर्वैव वक्रोक्ति रनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥

इति भामहः वक्रोक्तेः प्राधान्यं समुदघोषयत् । सर्वेऽप्यलङ्काराश्श्लेषसंस्पर्शेन शोभातिशयं पुष्णन्तीति केचिदमन्यन्त । श्लेषः पुष्णाति सौभाग्यं प्रायो वक्रोक्तिषु स्थितम् । इति वाक्यमत्रप्रमाणम् ।

अलङ्काराणां माहात्म्यात् काव्यानां प्रौढत्वं सौन्दर्यं चाभिवर्धते । उपमाद्यलङ्काराः वर्ण्यवस्तुषु विद्यमानमप्रत्यक्षं सौन्दर्यं प्रत्यक्षं विधाय परामनुभूतिमनुभावयन्ति । अधरकिसलय इत्युक्ते अधरे विद्यमानं मार्दवमारुण्यं च प्रत्यक्षीभूय मानसमानन्दयति । एवमलङ्काराः अपरिचितेऽपि वस्तुनि विद्यमानं स्वरुपं स्वभावं च प्रत्यक्षकल्पं विधायानुभूतौ स्थापयन्ति । वयं न कदापि गवयाख्यं मृगं दृष्टवन्तस्तथापि, गोसदृशो गवयः इत्युक्ते गवयस्य स्वरुपस्वभावौ विज्ञायेते । अलङ्काराः वर्णस्य भावस्य स्पष्टतां सम्पादयन्ति, निरुप्यमाणस्य वर्णांशस्य वैशद्यं च प्रकाशयन्ति । तेन च सहृदयानां मनांसि रञ्जितानि भवन्ति । विद्यानाथो मम्मटस्य –

उपस्कुर्वन्ति तं सन्तं येऽङ्गद्वारेण संश्रिताः ।
हारादिवदलङ्कारा स्तेऽनुप्रासोपमादयः ॥

इति श्लोकमेवं व्यवृणोत् । करचरणाद्यवयवगतैर्वलयनूपुरादिभिर्यथा अवयवी अलङ्क्रियते, तथा काव्यावयवभूतशब्दार्थनिष्ठैरनुप्रासोपमादिभिरलङ्कारैरङ्गिभूतं काव्यमलङ्क्रियते इति ।

अलङ्कारास्सौन्दर्याधायकाः इति सत्यमेव, तथापि तेषामुपनिबन्धने कविभिस्सातिशयं सावधानैर्भाव्यम् । अन्यथाऽलङ्काराः गडुप्रायास्सन्तो विकृतिभूताः भवन्ति । प्रतिभाशालिनः कवयो न कदापि प्रयत्नपूर्वकमलङ्कारसंयोजनमिच्छन्ति । ते सहजतयैव सिद्ध्यन्ति तेषाम् । काव्यप्रतिपाद्यानां रसभावानामुपस्कारकतया अलङ्काराः यदा निवेश्यन्ते तदैव काव्यस्य शोभामतिशाययन्ति । सन्निवेशस्य अनुगुणतया प्रयुक्ताश्शब्दालङ्काराः अपि सौन्दर्यपोषकाः जायन्ते । असमयेऽनुचिततया प्रयुक्ताः अलङ्काराः पाण्डित्यविशेषस्य प्रतिभा विलासस्य च प्रकाशकास्सन्तोऽपि, आत्मभूतस्य ध्वनेर्भञ्जकाः भवन्ति, काव्यस्य च कृत्रिमतामापादयन्ति । तादृशालङ्कारसम्पन्नानि काव्यानि चित्रकाव्यानीति व्यपदिश्यन्ते ।

आनन्दवर्धनः काव्येऽलङ्कारप्रयोगसन्दर्भे कविना पालनीयान् नियमान् समीक्षाप्रकारांश्च निरवोचत् । अलङ्कारास्समुचिते समये स्वीकरणीयाः । ते अप्रयत्नसिध्दा भवेयुः । ते रस परन्त्रतया विन्यसनीयाः । अलङ्कारस्याद्यन्तं पोषणं कर्तव्य मित्यभिनिवेश सत्याज्यः । अलङ्कारा स्सर्वदाऽङ्गभूता भवेयुः । प्रतिभावतां कवीनां काव्येषु, अलङ्कारा अपृथग्यत्न निर्वर्त्य महमहमिकया परापतन्ति । मनोरञ्जकानां वाक्प्रकाराणा मनन्ततयाऽलङ्कारा अपि, अनन्ता भवेयुः । तेषां प्रत्येकशो निरुपणं दुस्साधमेव भवति । परं प्राचीना आलङ्कारिका अलङ्काराणां स्वरुपस्वभावयो राविष्करणे, तेष्वन्योन्यभेदानां प्रतिपादने, तदीयाना मवान्तरभेदानां निरुपणे च महान्तं कौशलं प्रदर्शयामासुः ।

सर्वेऽलङ्कारा अभिधारुपा भवन्तीति केचित् ब्रुवन्ति । ते च ध्वने रङ्गभूता ध्वनिसम्बन्ध संशोभिता स्सन्त एव मनोहरा भवन्ति । अर्थ रामणीयकस्य कदाचित् व्यङ्ग्यार्थो मूलहेतु र्भवति । एवं वाच्यार्थोऽपि कदाचित् हेतुभूतो भवेत् । ततश्च रमणीयार्थ प्रतिपादन तत्परः कविः, सदा ध्वनावेव केवल मनुरक्तिं विहाय मध्ये मध्ये गुणीभूतव्यङ्ग्य मार्ग मप्यनुसरति । समासोक्ति – अप्रस्तुतप्रशंसा- दीपक् –परिकरादयोऽलङ्कारा गुणीभूतव्यङ्ग्या एव भवन्ति । ध्वनि रङ्गी, अलङ्कार्यश्च भवति । अलङ्कारोऽङ्गभूतः । कदाचि द्यदि व्यङ्ग्यभूतस्य, अलङ्कारस्य प्राधान्यं तदा स ध्वनि रेव भवति । व्यङ्ग्यस्याऽप्राधान्ये च गुणीभूतव्यङ्ग्यो भवति । अलङ्काराणां ध्वन्यङ्गतया निवेशने एव कविभिः, सदा प्रयत्नो विधेयः ।

अलङ्काराणामुत्पत्तिः[सम्पादयतु]

यस्यां कस्या मपि भाषायां काव्य सम्बन्धिनां गुणालङ्कारादीनां बीजानि सहजतयैव निविष्टानि भवन्ति । तान्येव बीजानि काव्येषु कविभिः परिष्कृतानि सन्ति स्पष्टतां प्राप्य पाठकेष्वानन्दं जनयन्ति । सामान्यानां जनानां सम्भाषणेऽपि विना प्रयत्न मलङ्कारा स्सहजतया परापतन्तो दरीदृश्यन्ते । “ प्रक्षालनाध्दि पङ्कस्य् दूरा दस्पर्शनं वरम्”, “ भुजङ्ग एव जानीते भुजङ्ग चरणम्” "अयं राक्षसः” "तस्य स एव सदृशः” इत्यादिषु व्यवहारेषु, अलङ्कारै स्साकं छन्दसोऽपि बीजानि दृश्यन्ते । प्रपञ्चवाङ्मय एव प्रथम इति वक्तव्यः ग्रन्थः ऋग्वेदः । तत्र बहवः काव्यगुणाः प्रसिध्दा अलङ्कारा श्च लक्ष्यन्ते ।

सूर्यो देवी मुषसं रोचमानां ।
मर्यो न योषामभ्येति पश्चात् ॥

इति वर्णनं सूर्यसूक्ते वर्तते । यथा मर्त्यस्सुन्दरीं युवतिं पश्चादनुसरति तथा सूर्योऽपि रोचमानां उषोदेवीमनुस्रतीति भावः । अन्यत्र 'मात्रा स्नातानुलिप्तायुवति रिव त्व मात्मनः शरीर लावण्यं सर्वेभ्यः प्रदर्शयसि’ एव माद्यर्थकानि सूक्तानि उपमालङ्कार शोभितानि ऋग्वेदे तत्र तत्रोपलभ्यन्ते । निरुक्ते यास्काचार्यः “ अथ उपमाः” इत्युपक्रम्य द्वादशविधान् उपमाभेदान् प्रतिपादितवान् । अनेन तस्मिन्नेव काले, अलङ्कारशास्त्रस्य विकासोऽवर्तत इत्यनुमातुं शक्यते । श्रीमद्रामायणॆ महाभारते पाणिनीयादिषु च, अलङ्कार प्रशंसा दृश्यते । वात्स्यायन निर्मितेषु कामसूत्रेषु, चतुष्षष्टि कलास्वन्यतमत्वेन परिगणितस्य क्रियाकल्पस्य व्याख्याता "काव्यालङ्कार इत्यर्थः” इति विवरण मकरोत् । ललितविस्तर ग्रन्थे क्रिया कल्पकलायाः प्रस्तावो वर्तते । क्रिस्तु शतक प्रारम्भे निर्मितेषु केषुचित् संस्कृतभाषा शासनेषु शब्दालङ्कारा गुणा श्च प्रस्तुताः । अनन्तरकाले काव्य रुपकादिषु शब्दार्थालङ्कारा बहुशः प्रयुक्ताः । आलङ्कारिका स्सर्वान् तानलङ्कारान् क्रोडीकृत्य, परिशील्य तेषु विद्यमानान् भेदान् अवान्तरभेदां श्च न्यरुपयन् । त्रिचतु स्संख्याका एवालङ्काराः प्रारम्भे वर्तमाना आसन् । कालक्रमेणाऽलङ्काराणां संख्या शताधिका संजाता ।

अलङ्काराणामभावेऽपि कवे श्चातुर्य वशात् रसाः प्रतीयेरन् । केषुचित्स्थलेषु रसानां पुष्टिं सम्पादयन्त्यलङ्काराः । परं रस एवाऽलङ्कारेषु गर्भितो भवतीति वक्तु मयुक्तम् । कदाचित् शब्दालङ्कारा रस भञ्जका अपि भवेयुः । अत स्तेषां प्रयोगे कविभि स्सावधनै र्वर्तनीय मस्ति ।मुक्ताहारादयो यथाऽङ्गभूतानां कण्ठादीनां शोभां जनयन्तोऽन्ततः, अङ्गिन श्शोभां सम्पादयन्ति तथा काव्याङ्गभूत शब्दार्थानां वैचित्र्यं प्रथमं सम्पाद्य, यमकोपमादयोऽलङ्काराः, पर्यन्तेऽङ्गिभूतस्य रसस्य काव्यस्य च सौन्दर्य मभिवर्धयन्ति । यदि तत्र रसो न भवेत्तदाऽलङ्काराः केवलं शब्दार्थ वैचित्र्य मात्र सम्पादका भवन्ति । एव मलङ्कारा गुण- रीति- वृत्त्या द्यपेक्षया नात्यन्तप्रधाना इति वक्तुं शक्यते । तथापि लाक्षणिका स्सर्वे काव्येऽलङ्काराणां समुचितं स्थान मस्तीत्येवाङ्गीकुर्वन्ति । रसादिभ्यः व्यङ्ग्याच्च् भिन्नः, शब्दार्थयो रन्यतर माश्रित्य प्रवर्तमानः, परम्परया प्रधानेन रसादिना सम्बध्दः चमत्कृति सम्पादकः पदार्थ एवाऽलङ्कारः ।

शब्दप्रधानः अलङ्कारः शब्दालङ्कारः, अर्थप्रधानः अलङ्कारः अर्थालङ्कारः । शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति ।

अर्थालंकारेषु भ्रान्तिमान अलंकारॊ यथा- समता अथवा सादृश्‍यकारणात् कस्मिश्चित् वस्‍तौ अन्‍यवस्‍तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्‍यते । साम्‍यादतस्मिस्‍तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थित: ।

अर्थात् यत्र समानता कारणात् कस्मिश्चित् वस्‍तौ कविकल्‍पनया कस्‍यचित् अन्‍यस्‍य वस्‍तो: निश्‍चयात्‍मकं ज्ञानं भवति तत्र भ्रान्तिमान् अलंकार: भवति । उदाहरणम् - मुग्धा दुग्‍धधिया गवां विदधते कुम्‍भानधो बल्‍लवा: । कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्‍ता अपि ।। कर्कन्‍धुफलमुच्चिनोति शबरी मुक्‍ताफलाशंकया । सान्‍द्रा चन्‍द्रमसो न कस्‍य कुरूते चित्‍तभ्रमं चन्द्रिका ।।

प्रस्‍तुतोदाहरणे चन्‍द्रमस: मयूखे दुग्‍धस्‍य, कुवलये कुमुदस्‍य एवं च कर्कन्‍धुफले मुक्‍ताफलस्‍य कविकल्‍पनया भ्रान्तिपूर्णं वर्णनं कृतमस्ति अ‍त: अत्र भ्रान्तिमान् अलंकार: अस्ति ।

अर्थालंकार: - दृष्‍टान्‍त अलंकार:

वाक्‍ययो: उपमानोपमेयायो: प्रतिबिम्‍बनं दृष्‍टान्‍त अलंकार: कथ्‍यते ।

दृष्‍टान्‍तस्‍तु सधर्मस्‍य वस्‍तुन: प्रतिबिम्‍बनम् । अर्थात् द्वयो: वाक्‍ययो: धर्मयुक्‍तवस्‍तो: (उपमानस्‍य च उपमेयस्‍य च) बिम्‍बप्रतिबिम्‍बभाव: दृष्‍टान्‍तअलंकार: कथ्‍यते । तात्‍पर्यमस्ति यत् यत्र उपमेय, उपमानभूतयो: वाक्‍ययो: धर्मयुक्‍तउपमेयउपमानयो: प्रतिबिम्‍बनं वर्णितं भवति तत्र दृष्‍टान्‍तअलंकार: भवति ।

विशेष: - बिम्‍ब-प्रतिबिम्‍बभाव: - 'द्वयोरर्थयोर्द्विरुपादानं बिम्‍बप्रतिबिम्‍बभाव:' । एकस्‍य अर्थस्‍य शब्‍दद्वयेन अभिधानं वस्‍तुप्रतिवस्‍तुभाव: ।

द्वयो: अर्थयो: द्वि: उपादानं बिम्‍ब‍प्रतिबिम्‍बभाव: ।। -आचार्य विश्‍वनाथ: ।

दृष्‍टान्‍तपदस्‍योत्‍पत्ति: - 'दृष्‍टोन्‍तो निश्‍चयो यत्र स दृष्‍टान्‍त: ।' उदाहरणम् - अविदितगुणापि सत्‍कविभणिति: कर्णेषु वमति मधुधाराम् । अनधिगत परिमलापि हि हरति दृशं मालतीमाला ।।

प्रस्‍तुतोदाहरणे 'सत्‍कविभणिति' उपमेयं, 'मालतीमाला' उपमानं च अस्ति । एतयो: मध्‍ये बिम्‍ब-प्रतिबिम्‍बभाव: अस्ति अथ च एतयो: गुणा: अपि बिम्‍बप्रतिबिम्‍बभावं वहन्ति अत: दृष्‍टान्‍तअलंकार: अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=अलङ्काराः&oldid=266277" इत्यस्माद् पुनः प्राप्तिः