चार्वाकदर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

चार्वाकदर्शनं (Cārvāka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । बृहस्पतिः एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति । किन्त्वनेन ते भोगैकतत्पराः दुराचाराश्च आसन्निति न निर्णेतव्यम् । अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः । अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः अस्य दर्शनस्य चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव मोक्षः । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’[१] इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।

यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति

लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥

पृथिवी-अप्- तेजो-वायु -रूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् । शरीरिणः कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः । वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति इति मन्वते चार्वाकाः ।

क) पृथिव्यप्तेजोवायवः तत्त्वानि ।
ख) तेभ्यः चैतन्यम् ।
ग) चैतन्यविशिष्टः कायः पुरुषः ।
घ) कामार्थौ पुरुषार्थौ ।
ङ) मरणं मोक्षः इति संग्रहः ।

तथाहि-

देहस्य नाशो मुक्तिस्तु न ज्ञानात् मुक्तिरिष्यते ॥
अत्र चत्वारि भूतानि भूमिवार्यनलोनिलाः ।
चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
..........................(सं.द.सं)

तत्त्वज्ञानिनां कृते सृष्टेः रहस्यं अनुसन्धानस्य विषयः भवति । सर्वासु दार्शनिकविचारधारासु विषयस्यास्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।
दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्ट्या मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तकः चिन्तनं कृत्त्वा उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।
भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यते यत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति एतत् विश्वासयोग्यः न भवति । यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते । एवञ्चेत् बुद्धिभेदात् एते स्थूलबुद्धयो दार्शनिकाः स्वकीयया स्थूलबुद्ध्या यदपि अवगन्तुं क्षमन्ते,तदेव मूलतत्त्वं स्वीकुर्वन्ति ।
अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् । यद्यपि महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् । वैदिकदर्शनस्योपरि तेषां वेदविरोधिनामाचार्याणां प्रहारोऽपि सततं समजायत । अनुमानापेक्षया शब्दप्रमाणेनैव सृष्टितत्त्वानां प्रामाण्यं गृह्यते ।
सृष्टितत्त्वानां प्रामाण्यम् अनुमानापेक्षया शब्दप्रमाणेन सुतरां गृह्यते । वेदाः शब्दप्रमाणरूपाः वर्तन्ते । वैदिकवाक्यैरेव दर्शनोक्तानां जीव-जगत्-ईश्वर-ब्रह्मादितत्त्वानां प्रामाणिकता सिद्ध्यति । पुनरपि अवैदिकदर्शनेषु वेदानां प्रामाण्यं स्वीकृतं नास्ति । अवैदिकदर्शनेषु चार्वाक-जैन-बौद्धाः प्रमुखाः सन्ति । एष्वपि जैन-बौद्धयोः तत्त्वचिन्तने सूक्ष्मा दृष्टिरस्ति । चार्वाकस्तु पूर्णतया स्थूलदृष्टिरस्ति ।
दर्शनशास्त्रस्येतिहासे चार्वाकदर्शनस्य आद्यं स्थानमस्ति । अनेन चार्वाकदर्शनस्य प्राचीनताऽपि सिद्ध्यति । अस्य प्राचीनतया इदमपि स्पष्टीभवति यत् यथा यथा मानवसभ्यताया विकासो जातः तथा तथा तस्याः संस्कृतौ आचारविचारयोश्च परिष्कारो बभूव । सभ्यतया विकासेन सह सृष्टिविज्ञानादयो दार्शनिकसिद्धान्ता अपि सूक्ष्मतत्त्वानुसन्धाने प्रवृत्ता भवितारः, किन्तु सभ्यतायाः प्रारम्भे दर्शनशास्त्रस्य स्थूलतत्त्वानि प्रचलितानि स्युरित्यपि पन्तुं शक्यते ।
यदि चार्वाकाः स्थूलविचारपर्यन्यतमेवात्मनः चिन्तनस्य श्रेयस्करत्वं मन्यन्ते तर्हि को दोषः? वस्तुतः चार्वाकाणां एषा हठधर्मिता तु तन्मतस्य पुरातनम् अस्तित्वं द्योतयति । चार्वाकाणां स्थूलदृष्टेर्मान्यताया आधारः को भवितुं शक्नोति । दर्शनस्य तात्विकविश्लेषणेन तन्निर्धारणं स्यात् ।
प्रारम्भे इदं दर्शनं लोकायतनाम्ना प्रसिद्धमासीत् । लोकायतानां परपक्षखण्डनमतिरिच्य नान्यः कश्चन सिध्दान्तः आसीत् । ते लोकायतिका वेदनिन्दका आसन् । अन्येऽपि तत्कालिकाः विचारका एभ्यः खिन्ना आसन् । जैनबौद्धाभ्याम् अपि एषा निन्दा विहिता । चार्वाकदर्शनमिति नामकरणे किमपि सुदृढं प्रमाणं नास्ति । आचार्यबृहस्पतेः शिष्याश्चार्वाका आसन्,अतः एतेऽपि चार्वाका इत्युच्यन्ते । परलोक-पाप-पुण्यादीनां चवर्णादपि इमे चार्वाकाः स्युः । एतेषां वाक् चारु अस्तीत्येव एते चार्वाका इति कथ्यन्ते ।
देवगुरुः बृहस्पतिरेव अस्य मतस्य प्रवर्तनं कृतवान् । बृहस्पतिप्रवर्तितेऽस्मिन् दर्शने स्वभाववाद- यदृच्छावाद-नियतिवाद-कालवाद-भौतिकवादाश्च अवधारणारूपेण विकसिताः सन्ति । एष्वपि स्वभाववादश्चार्वाकानाम् अतीव सन्निकटमस्ति । यतो हि स्वभाववादे कारणकार्यभावस्य आवश्यकतैव नास्ति । कालवादे भाग्यस्य महत्त्वं स्वीकृतमस्ति । नियतिवादे आकस्मिकताया ग्रहणं विधीयते । आकस्मिकघटनाभिः सह ऐक्यं यदृच्छावादोऽभिधीयत।
चार्वाकसिद्धान्तस्योल्लेखो रामायणमहाभारतयोरपि उपलभ्यते । वाल्मीकीयरामायणे लोकायतिकानां प्रसङ्गोऽस्ति । लोकायतिकाः मिथ्यावादिनः आसीत् । महाभारते देह एव आत्मा इति सिद्धान्तवादिनां लोकायतिकानां सिद्धान्तानां प्रतिपादनप्रसङ्गे चतुर्भ्यो भूतेभ्योः चैतन्यस्य उत्पत्तिः, प्रत्यक्षमात्रस्य प्रामाण्यञ्च प्रतिपादिते ।
चार्वाकदर्शनस्य मूलग्रन्थः सूत्रशैल्याम् उपनिबद्ध आसीत् । अस्य रचना आचार्येण बृहस्पतिना विहिता । अस्य तथ्यस्योल्लेखः प्राप्यते, किन्तु सः सूत्रग्रन्थोऽनुलब्धोऽस्ति । डाँ. उमेशमिश्रेण चार्वाकदर्शनस्य पञ्चदशसूत्राणि विविधभाष्यग्रन्थेभ्यः टीकाग्रन्थेभ्यश्चोद्धृतानि सन्ति । एतदतिरिच्य ‘भागुरि’ कृतस्य टीकाग्रन्थस्यापि उल्लेखं इतिहासकाराः कुर्वन्ति । भट्टजयराशिकृतस्य तत्त्वोपल्पवसिन्धु नामकस्य अन्य ग्रन्थस्य विषयेऽपि विज्ञायते । अस्मिन् ग्रन्थे चार्वाकसिद्धान्तानां विस्तरेण विश्लेषणं कृतमस्ति ।

चार्वाकदर्शनस्य तत्त्वमीमांसा[सम्पादयतु]

चार्वाकदर्शनानुसारं तत्त्वानां स्थूलं दृष्टिभूतं स्वरूपमेव यथार्थम् अस्ति । तेषां स्थूलतत्त्वानां स्वरूप-लक्षण-प्रयोजनादि विचाराः चार्वाकदर्शने वैशद्येन विहितोऽस्ति । चार्वाकदर्शनानुसारं पृथ्वी-जलं-वायुः-तेजश्चेति चत्वार एव प्रमेयपदार्थाः भवन्ति । एभ्य एव चतुर्भ्यः स्थूलस्य ब्रह्माण्डस्य रचना विहिता । परवर्तिभिश्चार्वाकैः आकाशमनः प्रा- णादीनामपि प्रमेयपदार्थेषु एव परिगणनं कृतम् । अनेन अनुमीयते यत् अतिस्थूलवादिनः चार्वाका अतिप्राकृता आस- न् ।
एभ्य एव मूलतत्त्वेभ्यः अस्य दृश्यमाणस्य जगतः शरीरस्य ज्ञानेन्द्रियाणां कर्मेन्द्रियाणाञ्चोत्पत्ति- र्भवति । उत्त्पत्तेः क्रमसन्दर्भे चार्वाकः मौनमस्ति । सृष्टौ कस्यापि अदृष्टस्य कुत्रापि कारणता नास्ति । अतएव इदं ज- गत् चतुर्ण्णां भूतानाम् आनुपातिक-समन्वयस्य आकस्मिकः परिणामोऽस्ति ।
जीवनस्य सम्बन्धेऽपि चार्वकाणामयमेव सिद्धान्तोऽस्ति यत् शरीरस्य अभावे चैतन्यं नैव तिष्ठति । शरीरस्य सत्तायामेव चैतन्यस्य सत्ता सिद्ध्यति । अनेन शरीरमेव चैतन्यरूपं आत्माऽस्तीति स्पष्टं भवति । यथा पदा- र्थनाम् उचितसम्मिश्रणस्य परिणामस्वरूपं किण्वादिद्रव्येभ्यो मदशक्तिराविर्भवति तथैव पृथिव्यादि भूतचतुष्टयस्य संयोगात् चैतन्यं स्वत एवोत्पद्यते ।
चार्वाकदर्शनस्य विकासक्रमे स्थूलात् सूक्ष्मं प्रति तत्त्वचिन्तनस्य प्रवृत्तिर्जाता । अतः परवर्तिभिः कैश्चित् चार्वाकैः इन्द्रियाण्येवात्मा इति सिद्धान्तमुपस्थाप्य देहात्मवादस्य खण्डनं कृतम् । कैश्चिदाचार्यैः प्रामाण्यवा- दस्यपि स्थापना कृता । केचन चार्वाकाः मनः एव आत्मेति साधयामासुः । तथापि चार्वाकमतानुयायिनां स्थूला दृ- ष्टिरन्तर्मुखी न सञ्जाता ।

चार्वाकस्य प्रमाणमीमांसा[सम्पादयतु]

चार्वाकदर्शने प्रमेयतत्त्वानां स्थूलं स्वरूपमेव वास्तविकं स्वीकृतम् । अतः स्थूलपदार्थानां ज्ञानाय तत्र प्रत्यक्षमेवोपयुक्तम् अमन्यत । ये इन्द्रियप्रत्यक्षस्य विषयाः न सन्ति, ते काल्पनिका एव भवन्तीति न्यायेन प्रत्यक्षस्यैव प्रामाण्यं चार्वाकमतेऽभिमतम् । पञ्चज्ञानेन्द्रियेः शब्द-स्पर्श-रूप-रस-गन्धानां पञ्चैव विषयाणां ज्ञानं भवति,अतः पञ्चैव सत्तात्मकपदार्थाः सन्ति । एभ्योऽतिरिक्तं किमपि विषयं कल्पनामात्रमेव प्रतीयते । तस्य च प्रामाणिकता नास्ति ।
सर्वेषु भारतीयदर्शनेषु इन्द्रियातीतानां परोक्षणाञ्च पदार्थानां ज्ञानाय अनुमानस्य प्रामाण्यं स्वीकृतं, किन्तु चार्वाकमतेऽनुमानस्य प्रामाण्यं नास्ति । यतो हि अनुमानजन्यं ज्ञानं केवलं सम्भावनात्मकमेव भवति न तु निश्चयात्मकम् । सम्भावना सर्वदा सत्यमेव स्यादिति नास्ति नियमः । चार्वाकैः कार्यकारणभावोऽपि नैव स्वीकृतः । यतः प्रत्यक्षयोः सुख-दुःखयोः कारणम् अप्रत्यक्षरूपेण कल्पितं पापपुण्यादिकं नास्ति । इदमावश्यकं नास्ति यत् कश्चित् बुद्धिजीवी परिश्रमी च मनुष्यः केवलं पूर्वकृतपुण्यबलेनैव सुखी वर्तते अथवा कश्चित् बुद्धिहीनोऽलसश्च पूर्वकृतपुण्याभावे अथवा पूर्वकृतपापैरेव दुःखी वर्तते इति वक्तुं न शक्यते । मानवः बुद्धेर्न्यूनाधिक्यकारणात् कार्यप्रवृत्तौ स्वभावतः कदाचित् सुखी कदाचिच्च दुःखी भवतीति चार्वाकाः कथयन्ति ।
पापपुण्ययोः कृते सदसत्कर्मणां व्याप्तिं नैयायिका अपि स्विकुर्वन्ति, किन्तु तेषामेषा व्याप्तिः सिद्धा नास्ति । यतो हि कस्यपि कार्यस्य उत्पतौ किमपि कारणं नैव भवति । स्वभावेनैव कार्यस्य निष्पत्तिर्भवति । अन्यथा कण्टकेषु दृश्यमानायाः तीक्ष्णतायाः को हेतुरीति तत्त्वान्वेषणे कश्चिद् हेतुरवश्यमुपलभ्येत । स च हेतुलभते एव न, अतः कार्यकारणभावस्य सिद्धौ अपि हेत्वभावो दृश्यते ।
सृष्टिप्रलययोरपि कार्यकारणभावो नास्ति । चतुर्ण्णां भूतानाम् आनुपातिकसम्मिश्रणादेव जगत् स्वयमेवास्तित्वम् आप्नोति । तस्य चानुपातिकस्थितेर्विलयात् प्रलयो भवति । किन्तु जगतः आविर्भावतिरोभावौ प्राणिपदार्थानां संयोगवियोगौ च स्वाभाविकावेव स्तः । कार्यकारणयोः साहचर्यस्य सिद्धेरभावात् अनुमानानां प्रमाणं नास्ति, कार्यकारणभावोऽप्यसिद्धोऽस्ति ।
चार्वाकदर्शने शब्दोऽपि प्रमाणत्वेन न स्वीकृतः । कश्चित् जनः सर्वथा सत्यमेव वदतीति तस्य सत्यनिष्ठायां निर्भरमस्ति । शब्दोऽपि पुनरनुमानतुल्यः । वेदानामपि प्रामाण्यं नास्ति, यतो हि वेदेष्वपि बहूनि विरोधीनि वचनानि प्राप्यन्ते । अनेके निरर्थकाः शब्दाः अपि वेदेषु प्रयुक्ताः सन्ति । एतदतिरिक्तं वेदेषु एतादृशानाम् पदार्थानां वर्णनमपि प्राप्यते, येषां प्रत्यक्षं सम्भवं नास्ति । एवञ्चेत् परस्परविरोधिनां निरर्थकानां काल्पनिकानां च विषयाणां निरूपणम् येषु विहितं तेषां वेदे कथं प्रामाण्यं स्यात्? वैदिककर्मकाण्डैस्तु इदमेव प्रतीयते यत् कैश्चित् धूतैरेव लोकप्रवञ्चनार्थं स्वार्थसाधनाय वा वेदानां रचना विहिता ।

त्रयी वेदस्य कर्त्तारो भण्ड-धूर्त्त-निशाचराः ।
जर्फरी-तुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥

चार्वाकदर्शनस्य आचारमीमांसा[सम्पादयतु]

चार्वाकदर्शनानुसारम् अर्थः कामश्चेति द्वौ पुरुषार्थौ भवतः । धर्म-मोक्षयोः पुरुषार्थरूपता तैः नाभिहिता । यतो हि धर्मस्तु पाखण्डमात्रमस्ति, मोक्षश्च कल्पनामात्रं विद्यत इति कारणात् । परलोक एव न दृश्यते,तदा मोक्षः कथं संभवेत् । पुनर्जन्मसिद्धान्तोऽपि चार्वाकमते कल्पनामात्रमस्ति,अतः मृत्युरेव मोक्षोऽस्तीति तत्र पुरुषार्थसंज्ञायाः किमपि औचित्यं नास्ति । पुरुषार्थस्तु पुरुषस्य जीवनाय भवति स च अर्थः कामो वा । धर्मस्य नाम्ना यः शारीरिकक्लेशो गृह्यते स मूर्खतामात्रमस्ति । अर्थोपार्जनाय यदि शरीरस्य उपयोगः स्यात्, तदा तु तस्यौचित्यम् अस्ति, यतो हि अर्थं विना कश्चिद् लोकव्यवहारो नैव प्रवर्तेत ।
यथा अर्थस्य महत्ता मानवजीवने स्वीकृता, तथैव शरीरेन्द्रियाणां कृते ये विषयाः सन्ति तेषां यथेच्छमुपभोगे एव शरीरस्य उपयोगिता लक्ष्यते तस्मात् कामोऽपि पुरुषार्थोऽस्ति । कामस्यसेवनं विना शरीरं निरुद्धेश्यं स्यात्, अर्थस्य सेवनं विना च जीवनं लोकव्यवहारो वा निरर्थकं स्यात् अत एव अर्थकामयोः पुरुषार्थरूपता सुसिद्धाऽस्ति । चार्वाकैः धार्मिकानुष्ठानां संस्काराणाञ्च क्रियाकलापेषु निस्सारतां प्रदर्श्य तेषां निन्दाऽपि विहिता । तैः ये तर्काः प्रस्तुतास्तेषां तर्काणां सहसा किमप्युत्तरं न लभ्यते ।
उदाहरणार्थं वैदिकयज्ञादिषु पशुबलिर्यदि स्वर्गं प्रददाति तर्हि पशुस्थाने कथं न कस्यचिदपि आत्मीयस्य बलिर्दद्यात्? श्राद्धादिक्रियाणां किं प्रयोजनमस्ति? मृतपूर्वजानां निमित्तं पिण्डदानतर्पणाद्याः क्रियाः कथं मृतानामुपकारं कर्तुं शक्नुवन्ति? किं निर्वाणमुपगतो दीपोऽपि तैलदानात् प्रज्ज्वलितो भवति? अतः पूर्वजानां तृप्तेः कल्पनया क्रियामाणानां श्राद्धादीनां क्रियाणां निष्प्रयोजनत्वं सुस्पष्टमस्ति ।
चार्वाकदर्शने धर्माधर्मयोर्मान्यता नास्ति । न च पापपुण्ययोः कल्पनाऽस्त्र क्रियते । चार्वकाणां जीवनपद्धतिः समग्ररूपेण अर्थकामयोरेवाधारिताऽस्ति । सर्वथा धर्मस्य परित्यागं कृत्वा अधर्मस्य चिन्तनं विना अर्थोपार्जनं कामोपभोगश्च उभावेव करणीयौ इत्येतत् चार्वाकस्य मूलभूतम् उद्देश्यं प्रतीयते । भोगायतनमिदं शरीरम् अन्ततः कष्टापन्नं भवति,अतो जीवितावस्थायां कदापि दुःखानिवृत्तिः सम्भवा नास्ति । फलस्वरूपं शरीरत्यागरूपिणं मरणमेव चार्वाकमते मोक्ष इति कथितः । मृत्योः पश्चादेव जीवस्य शारीरकदुःखनाम् निवृत्तिर्भवति । भौतिकं सुखमेव वस्तुतः सुखमस्ति । तदतिरिक्तं पारलौकिकं सुखन्तु कल्पनामात्रमेवास्ति । एवञ्चेद् भौतिकसुखमेव चार्वाकमते मानवजीवनस्य उद्देश्यमस्ति । भौतिकसुखस्य सर्वोपरिताया निदर्शनं चार्वाकस्य अधोलिखितायामेव उक्तौ भवति । -

यावज्जीवेत्सुखं जीवेत ऋणं कृत्वां घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥

एवं चार्वाकदर्शनस्य आचारसंहितां दृष्ट्वा यद्यपि एकान्तिकदुःखनिवृत्तिरूपस्य उद्देश्यस्य पूर्तिस्तु अनेन सम्भवा नास्ति, तथापि दार्शनिकदृष्ट्याऽस्य प्रमाणप्रमेयमीमांसा नितान्तं गहनाऽस्ति । विशेषतो व्याप्तिखण्डनं पर्याप्तं युक्तियुक्तं बौद्धिकश्रमसाध्यं च वरीवर्ति । वैदिककर्मकाण्डस्य खण्डनविशेषयेऽपि या युक्तयः तर्काश्च चार्वाकैः प्रस्तुतास्ते अकाट्रयसिद्धान्तरूपेण अद्यपि मीमांसायोग्याः सन्ति ।

आधाराः[सम्पादयतु]

  1. चार्वाकदर्शनम्
"http://sa.wikipedia.org/w/index.php?title=चार्वाकदर्शनम्&oldid=267076" इत्यस्माद् पुनः प्राप्तिः