स्वामी चिन्मयानन्दः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
स्वामी चिन्मयानन्दः

स्वामी चिन्मयानन्दः(जीवितकालः क्रि.शा. १९१६तमवर्षस्य मेमासस्य अष्टमदिनतः १९९३तमवर्षस्य आगस्टमासस्य तृतीयदिनपर्यन्तम्) सनातनधर्मस्य संस्कृतेः मूलभूतसिद्धान्तस्य वेदान्तदर्शनस्य माहन् प्रवक्ता । एषः समग्रं भारतदेशम् अटित्वा दृष्टवान् यत् सर्वत्र धर्वसम्बद्धविषयेषु शङ्कायुताः भ्रान्ताः सन्ति इति । तन्निवारयित्वा शुद्धधर्मस्य स्थापनार्थं गीताज्ञानयज्ञम् आरब्धवान् । क्रि.श. १९५३तमे वर्षे चिन्मय मिशन् इति संस्थाम् आरब्धवान् । भगवद्गीताम् अवलम्ब्य अनेन स्वामिना कृताः उपन्यासाः तर्कबद्धाः प्रेरणादायिनः च भवन्ति स्म । अस्य प्रवचनानि श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । एषः सहस्राधिकान् सन्न्यासिनः ब्रह्मचारिणः च अस्मिन् विषये प्रशिक्षितवान् । सहस्राधिकानि स्वाध्यायमण्डलानि संयोजितवान् । विद्यालयचिकित्सालयानाम् आरम्भः इत्यादीनि अनेकानि सामाजिकसेवाकार्याणि आरब्धवान् । स्वामी चिन्मयानन्दः उपनिषत्, भगवद्गीता, शङ्कराचर्यः इत्यादिषु विषयेषु ३५अधिकान् व्याख्याग्रन्थान् व्यरचयत् । अस्य गीताभाष्यम् अतिविशिष्टम् अस्ति ।

आरभिकजीवनम्[सम्पादयतु]

चिन्मयानन्दस्य जन्म क्रि.श.१९१६तमे वर्षे मे मासस्य अष्टमे दिने भारतदेशस्य दक्षिणभागे केरळराज्यस्य माननीयकुटुम्बे अभवत् । अस्य बाल्स्य नाम बालकृष्णः इति । अस्य पिता आधुनिकन्याविभागागे न्यायाधीशः आसीत् । अस्य आरम्भिकी शिक्षा अस्य पञ्चवर्षर्षे आयुषि स्थानीये श्रीराम वर्मा विद्यालये आरब्धा । आबल्यम् आङ्ग्लमाध्यमेन बालकृष्णः शिक्षां प्राप्तवान् । चतुर्मतेः बालस्य अध्ययने अपि वेगः असीत् । अध्ययनकाले अदर्शछात्रेषु अस्य परिगणना असीत् । प्रौढशालाध्ययनं समाप्य बालकृष्णः महाराजमहाविद्यालये प्रवेशं प्राप्तवान् । तत्रापि अस्य अध्ययनं सफताम् अवाप्नोत् । तस्मिन् समये तस्य नारायणः विज्ञानच्छात्रः इति कश्चित् दीनः वयस्यः आसीत् । जीवनविज्ञानम्, वनस्पतिविज्ञानम्, रसायनविज्ञानं च बालकृष्णस्य अध्ययनविषयाः आसन् । एतस्य इण्टर् पास् करणानन्तरस्य त्रिशूरुप्रदेशे तस्य पितुः स्थानन्तरणम् अभवत् । तत्र विज्ञानविषस्य महाविद्यालयः नास्तीति नारायणः कलाविषयान् स्वीकृतवन् । किन्तु तस्मिन् अध्ययने तस्य मतिः न लगति स्म । पिता तस्यानुकूलाय गृहपाठस्य शिक्षकम् अपि व्यवस्थापितवान् । किन्तु तेनापि सः प्रभावितः नाभवत् । ततः सः स्नातकपदवीं प्राप्तवान् । किन्तु मद्रासविश्वविद्यालये स्नातक्तोत्तरपदवीं प्राप्तुं प्रवेशं न कृतवान् । ततः लखनौविश्वविद्यालयं गतवान् ।

स्नातकोत्तरपदवी[सम्पादयतु]

लघनौविश्वविद्यालये बालकृष्णस्य स्नातकोत्तरपदवीं एल्.एल्.बी. पदवीं च कर्तुमपि अवकाशः अनुमतः । तत्र एषः क्रि.श. १९४०तमे वर्षे प्रवेशम् अकरोत् । आङ्ग्लसाहित्यस्य अध्ययने रुचिं प्रदर्शितवान् । तस्य अध्ययने एव अधिककलाः गच्छति स्म । लखनौविश्ववद्यालयस्य अध्ययनं समाप्य बालकृष्णः पत्रकारस्य कार्यं कृतवान् । अस्य आङ्ग्ललेखाः मि.ट्रेम्प् इति काव्यनाम्ना प्रकाशिताः भवन्ति स्म । एतेषु लेखेषु बालकृष्णः समाजस्य दीनानां शोषितानां चित्रणं करोति स्म । एतेन् तत्कालीनसर्वकारस्य धनिनां च उपहासः भवति स्म ।

अभिरुचिः[सम्पादयतु]

क्रि.श. १९४८तमे वर्षे बालकृष्णः ॠषिकेशं गतवान् । भरवर्षस्य योगियतयः च कियत् लोकोपयोगिनः इति दृष्टुमिच्छति स्म । तत्र गत्वा स्वामिनः शिवानन्दस्य विषये ज्ञातवान् । सः दक्षिणभारतस्य जनः आङ्ग्लभाषां सम्यक् जानाति इति ज्ञातम् । अतः बालकृष्णः तस्य आश्रमम् आगच्छत् । तत्र स्वामिनः शिवानन्दस्य अनुमतिं प्राप्य अन्यान्तेवासिभिः सह वासम् अकरोत् । यद्यपि बालकृष्णः कस्मिञ्चिदपि धार्मिककर्मणि न विश्वासिति स्म किन्तु श्रद्धालुः पुरुषः इव आश्रमवासिनाम् अनुकरणं करोति स्म । एषः प्रातः काले गङ्गास्नानं करोति स्म । सायं सामूहिकप्रार्थनायां सम्मिलति स्म आश्रमस्य कार्येषु अपि हस्तौ प्रसारयति स्म ।

दीक्षा[सम्पादयतु]

अस्मिन् एव समये स्वामिना शिवानन्देन प्रभावितः बालकृष्णः तेन सन्न्यासदीक्षां स्वीकृतवान् । अनेन अस्य नाम स्वामी चिन्मयानन्दः अभवत् । ग्रन्थालयात् ग्रन्थान् प्राप्य गुरोः मार्गदर्शनेन एकैकशः अध्ययनं कर्तुम् आरब्धवान् । पठितम् आदिनम् अपि समयः अपर्याप्तः भवति स्म । तदानीन्तने काले आश्रमे विद्द्युद्दीपव्यवस्था नासीत् । अतः रात्रौ पठितुं सुकरं न भवति स्म । चिन्मयानन्दः दिने अधीतविषयाणां चिन्तनं रात्रौ गुरुभिः सह करोति स्म । कालक्रमेण अस्य अध्ययनं गहनं भूत्वा गभीरचिन्तनेषु व्यस्तः अभवत् । अस्य एतादृशीं स्थितिं ज्ञात्वा स्वामी शिवानन्तः चिन्मयानन्दः उपनिषदाम् अध्ययनार्थं स्वामिनः तपोवनवर्यस्य निकटं प्रेषितवान् । तस्मिन् समये स्वामी तपोवनः उत्तरकाश्यां वसति स्म । तस्य साहचर्ये ८वर्षाणि उषित्वा वेदन्तस्य अध्ययनम् अकरोत् । तपवनस्वामी कस्मिञ्चिदपि अन्यकार्येषु व्यस्तः नासीत् अतः प्रतिदिनम् एकहोरां पाठयति स्म । अवशिष्टे समये शिष्यः चिन्मयानन्दः चिन्तनं मननं च करोति स्म । अत्र बौद्धिकं व्यावहारिकं च अध्ययनम् आसीत् । स्वस्य गुरोः शिक्षानुसारं संयमी विरक्तः शान्तः च भवितुम् अभ्यासः करणीयः आसीत् । अस्य परिणामवशात् स्वामिनः चिन्मयानन्दस्य स्वभागः परिवर्तितः अनेन सह जगतः विषये अस्य अभिप्रायः अपि परिवर्तितः ।

देहत्यागः[सम्पादयतु]

स्वामी चिन्मयानन्दः क्रि.श. १९९३तमे वर्षे आगस्टमासस्य तृतीये दिने अमेरिकादेशस्य सेण्डियागो नगरे भौतिकं शरीरं त्यक्तवान् ।

लोकसेवा[सम्पादयतु]

अध्ययनसमाप्तेः समनन्तरं स्वामिनः चिन्मयानन्दस्य मनसि लोकसेवायाः विचारः प्रबलः अभवत् । तपोवनस्वामिना अनुमतिं स्वीकृत्य दक्षिणभारतस्य दिशि मुखमुपस्थाप्य पुण्यपत्तनम् (पूणे) आगच्छत् । तत्र स्वस्य परिकल्पनायाः प्रथमज्ञानयज्ञाम् अकरोत् । अयं कश्चन नूतनः प्रयोगः । आरम्भे श्रोतॄणां सङ्ख्या न्यूना असीत् । किन्तु क्रमेण् अवर्धत । एकमासस्य ज्ञानयज्ञास्य पश्चात् मद्रास् (चेन्नै) अत्वा तत्र द्वितीयं ज्ञानयज्ञम् आरब्धवान् । यज्ञस्य प्रचारमपि स्वयं करोति स्म । दिनेषु गच्छत्सु तस्य सहायाः केचन सम्मिलिताः । तान् सर्वान् मेलयित्वा संस्थायाः रूपमकरोत् । कालक्रमेण पञ्चदशदिनानां दशसिनानां च ज्ञानयज्ञस्य कार्यक्रमाः अयोजिताः । आरम्भे भारतस्य महानगरेषु प्रचाल्यमानं ज्ञानयज्ञं सर्वत्र विस्तारितम् अभवत् । ज्ञानयज्ञस्य अभ्यर्थना एतवती अधिका अभवत् एकेन सर्वत्र यज्ञं सञ्चालयितुम् अशक्यम् अभवत् । अतः स्वामी चिन्मयानन्दः मुम्बैसान्दीपनी इति सङ्घटनम् अस्थापयत् । अनेन ब्रह्मचारिणां प्रशिक्षणम् आरब्धवान् । वर्षत्रयं प्रप्तशिक्षाः ब्रह्मचारिणः लघु लघु ज्ञानयज्ञानि कर्तुम् उपाक्रमन्त । अस्मिन् समये दिएशे १७५ज्ञानयज्ञकेन्द्राणि विदेशेषु उप४०केन्द्राणि कार्यरतानि अभवन् । एतेषु केन्देषु स्वामि १५०शिष्याः च कार्यं कुर्वन्ति स्म । एषा सङ्ख्या प्रतिवर्षं वर्धते स्म ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=स्वामी_चिन्मयानन्दः&oldid=275324" इत्यस्माद् पुनः प्राप्तिः