भाषाविज्ञानम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भाषाविज्ञानं केवल साहित्यसम्पत्तिसमृद्धायाः एव भाषायाः अध्ययनं नहि करोति अपितु साहित्यिकसम्पत्तिविरहितायाः अपि भाषाया: वैज्ञानिकमध्ययनं करोति । भाषाविज्ञानस्य सम्बन्ध: कस्याश्चन भाषाया: केनचन कालविशेषेणैव साकं नहि भवति अपितु तस्य सर्वेषां कालानां भाषाविषयकाणां तत्वै: साकं भवति । भाषाविज्ञानं भाषाया: कस्याश्चन तत्वानि सङ्लय्य तानि चाश्रित्य सिद्धान्तानामपि निर्धारणं करोति । अस्मिन्नध्ययने ध्वनिनामुच्चारणस्य, अक्षराणां, शब्दानां, पदानां वाक्यानां च संरचनाया विवेचनं क्रियते ।

ध्वनिविज्ञानम्[सम्पादयतु]

मानवभाषाया: अध्ययनस्य प्रमुखो विषय: ध्वनि: विद्यते । समपूर्णा भाषा ध्वन्याश्रिता भवति। अत एव भाषाविज्ञानेऽपि ध्वनेरध्यनस्य महत्वपूर्णस्थानं भवति। ध्वनिविज्ञाने मानवशरीरस्य उच्चरणोपयोगिनाम् अवयवानां परिचय: क्रियते। तानि चाङ्गनि निम्नाङ्कितानि सन्ति -

१.स्वरयन्त्रम् २. मुखम् ३. जिह्वा, ४. ताल्वादिकं च।

ध्वनीनामुच्चारणस्थानस्य उच्चारणप्रयत्नस्य दृष्ट्यापि वर्गीकरणं क्रियते। तदनन्तरमिदमपि विचार्यते यत् तेषु ध्वनिषु कदा-कदा केन-केन च प्रकारेण विकास: सञ्जातः इति। तानेव ध्वनिविकासानाश्रित्य केचन निश्चिता: ध्वनिनियमा अपि क्रियन्ते। अत एव ध्वनिविज्ञानस्य इमे विषया: सन्ति-उच्चरणावयवा:, ध्वनीनां संख्या, ध्वनीनां वर्गीकरणम्, ध्वनिविकाराणां दिश:, तासां कारणानि ध्वनिनियमाश्च।

पदविज्ञानम्[सम्पादयतु]

पदपदार्थं निरूपयता महर्षिणा पाणिनिनाऽभिहितम् - ‘सुप्तिङ्न्तं पदम्’ । तथाविधा: वर्णा: पदशब्देनाभिधीयन्ते येषां वर्णसमूहानामन्ते सुप्विभक्तिनामथवा तिङ्विभक्तिनां संयोगो भवति। आचार्यविश्वनाथेन अपि अभिहितम्-‘वर्णा: पदं प्रयोगार्हानन्वितैकार्थबोधका:’ इति । अस्मिन् पदविज्ञाने नानाविधानां पदानामध्ययनं क्रियते। यथा-संज्ञा सर्वनाम-क्रियाक्रियाविशेषणादिकानाम्, धातुरूपाणाम्, शब्दरूपाणाम् । अनेनैव साकमस्मिन् विज्ञाने पदानां मूलम्, पदानां व्युत्पप्ति: पदानां वाक्येषु प्रयोगा:, पदानां काले-काले सञ्जातं रूपपरिवर्तनम्, पदानां वाक्येषु देशकालानुसारेण विकारादिका: विवेच्यन्ते । पदानि एव भाषाया: मूलभूतानि सन्ति। अत एव पदविज्ञानं भाषाविज्ञानस्य मूलभूतं विद्यते ।

वाक्यविज्ञानम्[सम्पादयतु]

अनेकेषां सार्थकानाम् अन्वितानाञ्च पदानां समूहो वाक्यमित्यभिधीयते । वाक्यस्य स्वरूपं निरूपयता आचार्येण विश्वनाथेनाभिहितम् - ’वाक्यं स्याद् योग्यताकाङ्क्षासत्तियुक्त: पदोच्चय:’ इति। अयमाशयो यत् पदानां समूह एव वाक्यमित्यभिधीयते । परन्तु तस्मिन् पदसमूहे वैशिष्ट्यत्रयमपोक्षितं भवति वाक्यत्वाय -

योग्यता[सम्पादयतु]

योग्यानां पदानां समूहो वाक्यमित्यभिधीयते । यथा अग्ने: योग्यता दाहक्रियायामेवाऽस्ति, न तु सिञ्चनक्रियायाम्। अत एव अग्निना सिञ्चतीति वाक्यं न भवितुमर्हति, अपितु जलेन दह्यतीति वाक्यं न भवितुमर्हति, अपितु जलेन सिञ्चतीत्येव वाक्यम्।

आकाङ्क्षा[सम्पादयतु]

अनेनैव प्रकारेण साकाङ्क्षाणामेव पदानां समूहो वाक्यमित्यभिधीयते, न तु निराकाङ्क्षाणाम्। यथा ’रामो गच्छतीत्येव वाक्यम्, न् तु राम: श्याम: मोहना:’ इति पदानां समूहो वाक्यं भवितुमर्हति, एतेषां पदानाम् आकाङ्क्षारहितत्वात्।

आसत्तिः[सम्पादयतु]

अननैव प्रकारेण पदेषु वाक्यत्वायासत्तिरप्यावश्यकम्। सा चासत्तिरपि द्विप्रकारकौ - कालकृता स्थानकृता च । कालकृताऽऽसत्तेरभावादेव अद्याभिहितस्य राम: इति पदस्य दिनान्तरेऽभिहितेन ’गच्छति’ इति पदेन साकं वाक्यता नहि जायते। इत्थमेव ’रामो गिरिर्भुङ्क्ते अग्निमान्’ इति पदानां समूहेऽपि वाक्यत्वं नास्ति स्थानकृतऽऽसत्तेरभावात्। अत: ’रामो गिरिरग्निमान्’ इत्यनेन प्रकारेण पदानां क्रमेण भाव्यम् । अस्मिन् पदविज्ञाने वाक्यरचनाविषयको विचार: प्रस्तूयते, वाक्यानां भेदाश्चाधीयन्ते । अत्र वाक्यानाम् ऐतिहासिकं तुलनात्मकमध्येयनमपि प्रस्तूयते।

अर्थविज्ञानम्[सम्पादयतु]

शब्दार्थयो: शब्दविद: अभोदसम्बन्धं स्वीकुर्वन्ति । सर्वे शब्दा: सार्थका: भवन्ति । मानवा: तान्-तान् अर्थानेवोद्दिश्य, तान् बोधयितुं तेषां-तेषां शब्दानां प्रयोगं कुर्वन्ति । निरर्थकानां शब्दानामुच्चारयिता विक्षिप्त अथवा मूर्ख इत्यभिधियते। गौ: शब्दस्य प्रयोग: गोत्वावच्छिन्नाया: व्यक्ते: बोधनायैव क्रियते। इत्थं ज्ञायते यत् यदि शब्दा: शरीरभूतास्सन्ति तदा अर्था: तेषामात्माभूता: । येन प्रकारेणात्मानं विना शरीरं नश्यति, तेनैव प्रकारेण शब्दानामपि सार्थकता अर्थैरेव भवति। अत एवार्थविज्ञानं भाषाविज्ञानस्यातीव महत्वपूर्णमङ्गं वर्तते । अर्थविज्ञाने यथा अभियुक्तशब्दस्य प्रयोग: प्राचीने काले प्रामाणिकपुरुषरूपस्यार्थस्य बोधनाय क्रियते स्म, किन्तु वर्तमाने काले तस्य शब्दस्य प्रयोग: सातसपुरुषस्य बोधनाय क्रियते। इत्थं शब्दानाम् अर्थपरिवर्तनानि तेषामर्थपरिवर्तनानां कारणानि प्रभृतयो विषया: अर्थविज्ञानस्य विषया: सन्ति ।

"http://sa.wikipedia.org/w/index.php?title=भाषाविज्ञानम्&oldid=274121" इत्यस्माद् पुनः प्राप्तिः