आदिवासिनः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ओरिस्साराज्यस्य काचित् आदिवासिमहिला

नगरे, ग्रामे च वासं कुर्वतः जनान् विहाय, सागरमध्ये द्वीपेषु, शैलपर्वतेषु, वनेषु, मरुभूमिप्रदेशेषु, इतरजनेभ्यः दूरे, पृथग्रूपेण वासं कुर्वन्तं , प्रत्येकसंस्कृतेः जनानां समाजं ‘आदिवासिनः’ इति निर्दिष्टवन्तः सन्ति । एतेषु समाजेषु रक्तसम्बन्धः बहुप्रमुखः भवति । व्यक्ति-व्यक्तिषु परस्परं सम्बन्धः गाढः भवति । सांस्कृतिकदृष्ट्या एतेषु अत्यन्तदृढाः नियमाः सन्ति । बाह्यजनान् सर्वदा सन्देहदृष्ट्या एव पश्यन्ति । एतस्य सामाजिकवर्गस्य संस्कृतिः, नगरस्य, ग्रामस्य च संस्कृतेः अपेक्षया नितरां भिन्ना भवति । एतेषां जनानां भाषा, जीवनक्रमः च विशिष्टः अस्ति ” । एवम् आदिवासिजनानां लक्षणानि स्थूलतया वक्तुं शक्यन्ते । भारतदेशः इव विशालस्य, सङ्कीर्णभौगोलिकरचनायाः, बहुसंस्कृतेः, बहुविधजातीनां, बहुभाषाणां सङ्गमस्य एतस्मिन देशे उपर्युक्तस्थितेः आदिवासिनाम् अभिज्ञानम् कष्टकरम् । कतिचन आदिवासिजनाङ्गानां स्वकीया भाषा अस्ति । किन्तु सर्वेषां तथा नास्ति इत्यपि ज्ञातव्यम् । सरलतया वदामः चेत् ‘जातिः’ भारतीयानां जीवने महत्त्वस्य पात्रं वहति । सर्वेषु कार्येषु जातेः व्यवस्था दृश्यते । धर्मे, सम्प्रदाये, आचरणे, भाषायाम् चापि ‘जातिः’ दृश्यते । सर्वाणि कार्याणि जातिव्यवस्थातः निर्धारितानि सन्ति । कस्यचित् व्यक्तेः नाम, वंशः, वधूवराणां चयनमपि जात्या एव निर्धरितं भवति । भारते जातेः उगमाय आर्याः कारणाः इति कल्पितमस्ति । कालक्रमेण मूलवर्णव्यवस्थायां भागाः अभवन् । एते विभागाः, उपविभागाः एव कालानन्तरे जातिः, उपजातिः इव परिवर्तनं प्राप्तवन्तः । जातिपद्धतिः समग्रभारतीयानां वैयक्तिकजीवने, सामाजिकजीवने, सांस्कृतिकजीवने च तेषां कार्याणि क्रमबद्धं कृत्वा निर्देशनं, नियन्त्रणं च करोति । एवं जातिपद्धतिः अद्य काचित् प्रमुखव्यवस्था इव वर्धिता अस्ति । भारते ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः च इत्येवं वर्णव्यवस्था अस्ति । एतान् विहाय अवशिष्टान् सामाजिकवर्गान् आदिवासिनः इति वा गिरिजनः इति वा आह्वयन्ति । एते इतरजातिजनैः सह न मिलन्ति स्म । बहुकालपर्यन्तं स्वतन्त्रतया वनेषु, पर्वतेषु च निवासं कुर्वन्तः आसन् । हिन्दूधर्मस्य प्रभावतः दूरे आसन् इति कारणतः हिन्दूधर्मस्य अंशाः सन्ति चेदपि एतेषाम् एव विशिष्टसंस्कृतेः आरम्भः अभवत् । आदिवासिजनाङ्गस्य जनाः जनन- मरण- विवाहः एवं त्रिषु सन्दर्भेषु अपि ब्राह्मणपुरोहितशाहिवर्गाय अवसरम् अदत्वा स्वतन्त्रतया निर्वहणं कुर्वन्ति । यावत् पर्यन्तम् एषा परिस्थितिः अनुवर्तते तावत् पर्यन्तं आदिवासिजनाङ्गं स्वस्य मूलस्वरूपं रक्षयितुं शक्नोति । उपर्युक्तान् सर्वान् विचारान् परिशीलयामः चेत् एते अंशाः ज्ञायन्ते यद् शिष्टसमाजेभ्यः दूरं स्थित्वा अपि तेषां अपेक्षया विभिन्नं जीवनक्रमं रूपयित्वा, स्वेषामेव विशिष्टानि सांस्कृतिकमौल्यानि अद्यपर्यन्तं रक्षयन्तः पोषयन्तः सन्ति । तादृशं निर्दिष्टं गणं ‘आदिवासिनः’ इति आह्वातुं शक्नुमः। नगरस्य संस्कृतेः प्रभावात् दूरे वनेषु, पर्वतप्रदेशेषु, द्वीपेषु निवसन्तः स्वेषामेव आचारं, विचारं, भाषां, दैवं, मूलपुरुषं, विश्वासं, वस्त्रं, मन्त्र-तन्त्रं, आहारं, पानीयं, निर्दिष्टसामाजिकनियमं रचयित्वा एते जीवन्तः सन्ति । आदिवासिनः व्यवस्थिततया कुत्रचित् तिष्ठन्तः जीवनं न कुर्वन्ति । वनेषु स्वतन्त्रतया विहरन्तः, तत्र लभ्यमानं फलं, कन्दं, मूलं, पर्णं, मधु इत्यादि वनोत्पन्नानि, मृगयया प्राप्तान् प्राणिनः च खादन्ति । स्थानान्तरव्यवसायस्य पद्धतिम् अधिकतया अनुसरन्ति । स्वेषां देवस्य आराधनार्थं गानं, नृत्यं कुर्वन्तः, नायकस्य आज्ञाः पालयन्तः, विशिष्टं वस्त्रं धरन्तः, पृथक्कलायाः सृष्टिं कुर्वन्तः, परस्परेण साहाय्येन जीवनं कुर्वन्तः सन्ति । एतेषाम् अपराधार्थं विशिष्टाः दण्डाः अपि भवति । विशेषन्यायपद्धतिं अनुसरन्ति एते । नागरिकतायाः भिन्नजीवनस्य स्थितिं सांस्कृतिकमानवशास्त्रस्य विधानेन अभ्यासकरणस्य क्रमः पाश्चात्येषु गतशतकतः आरब्धम् अस्ति । मेलिनोव्स्कि, र्याड् क्लिप् ब्रौन्, रूत्बेनेडिक्ट्, मार्गरेट् मीड् इत्यादयः विद्वांसाः एतस्मिन् विषये महत्संशोधनं कृत्वा नूतनविचारान् प्रकटितवन्तः सन्ति । एतेषां सांस्कृतिकभिन्नतायाः प्राकृतिकान्, सामाजिकान्, मानसिकान् कारणान् अन्विष्ट्वन्तः सन्ति । भारते एतदृशम् अध्ययनं कदा आरब्धम् इति निश्चितरूपेण वक्तुं न शक्यते चेदपि गतशतक्स्य आरम्भे एव विद्वांसः आदिवासिनां विषये आसक्तिं दर्शितवन्तः सन्ति इति दृश्यते। एतस्य अध्ययनस्य आसक्त्याः मूलप्रेरणा एतेषां प्रगतेः अपेक्षया तेषां विशिष्टसांस्कृतिकविषये कुतूहलमेव इति भाति । सर्. हर्बर्ट् रिस्ले पूर्णभारते प्रत्येकराज्यस्य आदिवासिनां, जातेः जनसङ्ख्यायाः, वसतिस्थानस्य च इतिवृत्तं कृतवान् अस्ति । एतावदेव न, तेषां सम्प्रदायानाम् अध्ययनं कृत्वा बृहत्सम्पुटद्वारा प्रकटितवान् अस्ति । एतानि पुस्तकानि प्रमुखतया परिशीलनसामग्री इव, शासनकार्यालयस्य उपयोगाय, समाजविज्ञानिभ्यः च उपयुक्तानि सन्ति ।

"http://sa.wikipedia.org/w/index.php?title=आदिवासिनः&oldid=270794" इत्यस्माद् पुनः प्राप्तिः