वर्णाश्रमव्यवस्था

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

चातुर्वर्ण्यं वेदविहितम्[सम्पादयतु]

अस्मिन् जगति यत् किमपि लिखितं साहित्यम् उपलभ्यते तस्मिन् प्राचीनतमो ग्रन्थः ऋग्वेदः इति विश्वस्य विदुषां सर्वमान्यो विचारः । ऋग्वेदस्य पुरुषसूक्ते निम्नवचनं प्राप्यते-

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरु तदस्य यद् वैश्यः पदभ्यां शूद्रो अजायत ॥

वेदोखिलो धर्ममूलम् इति वचनानुसारेण हिन्दूनां धर्मस्य मूलं वेदेषु निहितम् अस्ति । ‘वेदाः अपौरुषेयाः’, ‘वेदाः परस्याः शक्तेः निःश्वसितम्, सूक्तैः सह निर्दिष्टाः ऋषयः न सूक्तानां कर्तारः अपि तु द्रष्टारः, आकाशे भ्रमन्ति सूक्तानि ऋषयः न सूक्तानां कर्तारः अपि तु द्रष्टारः, आकाशे भ्रमन्ति सूक्तानि ऋषयः स्वस्य योगसामर्थ्येन दृष्टवन्तः ’ इत्यादिधारणाः पाश्चात्त्यशिक्षा दीक्षितान्तः करणैः ‘अन्धविश्वासः, कपोलकल्पनाः, अज्ञजनानां प्रलपितानि’ इत्यादिभिः शब्दैः अद्ययावत् संभाविताः । एते बुध्दिवादिनः प्रयोगशालायां सिध्दायां प्रक्रियायाम् एव विश्वसन्ति । प्रत्यक्षप्रमाणेन विना न सन्तोषं यान्ति । परन्तु अधुना भौतिकविज्ञानस्य ध्वनिसिध्दान्तस्य आधारेणैव उपरिनिर्दिष्टं सर्वमपि प्रतिपादनं सिध्दं तिष्ठति । अतः प्रथमं वेदानां तथा वेदपठनस्य माहात्म्यम् अवगन्तुम् अस्य ध्वनिसिध्दान्तस्य पर्यालोचनं कृत्वा तदनन्तरं चातुर्वर्ण्यस्य विवेचनं श्रेयस्करं स्यात् इति प्रतीयते ।

वेदपठनम् एवम् आधुनिकविज्ञानस्य ध्वनिसिध्दान्तः[सम्पादयतु]

परमपूज्य –जगद्गुरु-काञ्चीकामकोटीपीठाधिष्ठितैः श्रीचन्द्रशेखरेन्द्र सरस्वतीस्वामिभिः वेदपठनस्य महत्त्वम् अधिकृत्य आधुनिकविज्ञानाधिष्ठितं निरुपणम् प्रभाविरुपेण उपन्यस्तं खलु ।

आधुनिकाः तथाकथितबुध्दिवादिनः वेदपठनस्य किमपि दृष्टं फलं नानुभूयते, अतः तत् अन्धश्रध्दायुतं निरुपयोगि कालापव्ययकारकं चेष्टितम् इति मन्यन्ते । वस्तुतः अद्यतनीम् अस्माकं मर्यादिताम् आकलनशक्तिं विचिन्त्य मानवीयबुध्देः ग्रहणशक्तेः परं स्थितस्य कस्यापि प्रतिपादनस्य निषेधः खलु स्वयमेव बुध्दिवादनिषेधः इति प्रतिभाति । प्रथमं तावत् आधुनिकविज्ञानस्य ध्वनिसिध्दान्तः सम्यक्त्या ज्ञातव्यः । आधुनिकविज्ञानानुसारं ध्वनिः नाम् स्पन्दनानि । यदि अणोः प्ररीक्षणं क्रियेत तर्हि एतत् तथ्यं स्फुटीभवेत् यत् सर्वं चराचरं वस्तुजात्म् एकात्म । अद्य विज्ञानेन एतत् प्रतिष्ठापितं यद् मनुष्यः यत् पश्यति शृणोति वा तत् सर्वं विद्युत्तरङ्गणामेव चेष्टितम् । तथा अस्माकं विचाराणां प्रक्रिया शक्तिः वा विद्युत्प्रवाहरुपा एव । सा स्पन्दनं नादं वा जनयति यः सूक्ष्मत्वात् श्रवणगम्यो नास्ति । यथा रक्तबिन्दौ सूक्ष्मा जन्तवः (bacteria) सन्ति ये नयनगोचरा न भवन्ति । विज्ञानानुसारं कापि शारीरिकी मानसिकी वा क्रिया शब्दः जनयत्येव । ध्वनिः स्पन्दनानि च एकत्र एव तिष्ठन्ति । स्पन्दनानि एव स्थूलं वस्तुजातं मानसिकीं वा अवस्थां जनयन्ति । अनेन निष्कर्षोऽयं निष्पद्यते यद् इयं सृष्टिः ध्वनितत्त्वस्य एव उत्पत्तिः । वस्तूनां भिन्नत्वं स्पन्दनानां भिन्नत्वेन समुद्भवति । भारतीयानाम् अद्वैतसिध्दान्तः एव अनेन प्रतिपादनेन पुष्टिं प्राप्नोति ।

अथ शब्दः तस्य स्पन्दनानि वा स्वयमेव नैव निर्मितानि भवन्ति । अन्यथा तानि अनिश्चितानि अस्पष्टानि तथा परस्परम् असम्बध्दानि स्युः । परं वयम् अस्यां सृष्ट्याम् एकां सुव्यवस्थां तथा वस्तूनां परस्परसम्बध्दताम् अवलोकयामः । ततः एतद् अनुमानं निष्पद्यते यत् कापि परमा शक्तिः इमां सुविचारितां योजनां निश्चित्य तदनुरुपं स्वस्य स्पन्दनैः तां निर्मितवती ।

तस्याः परमशक्तेः नाम परमात्मनः निः श्वसितरुपाः वेदाः सदाशयसम्पन्नाः जगतः कल्याणार्थम् आकाशे विचरन्तः आसन् । ऋषयः योगसामर्थ्यसम्पन्नाः मानवस्य सामान्यज्ञानकक्षाम् अतिक्रम्य विश्वात्मना साकं सारुप्यं गताः वेदमन्त्रान् दृष्टवन्तः इत्यस्ति अस्माकं धर्मस्य मूलभूता प्राचीना धारणा । अत एव वेदाः अपौरुषेयाः इति वयं मन्यामहे । अत एव एते ऋषयः मन्त्रद्रष्टारः इति अभिधीयन्ते न तु मन्त्रकर्तारः ।

यदा वयं करतलध्वनिं कुर्मः तदा स नादः आकाशे तिष्ठति । शोभनाः अशोभनाः वा क्रियाः स्वानुरुपं ध्वनिं स्पन्दनानि वा जनयन्ति । व्यतिक्रमेण उत्पादितानि स्पन्दनानि शोभनाशोभनां क्रियाम् उत्पादयन्ति । लोकेषु शुभविचारान् निर्मातुं तथाविधानि स्पन्दनानि एवं तनदुकूलाः शब्दाः निर्मातव्या भवेयुः । यदि वयम् एतादृशान् शब्दान् निर्मातुं प्रभवामः तर्हि लोकानां विचारान् संपूर्णतया शुभस्वरुपान् कर्तुं शक्ष्यामः । वेदानां मन्त्रेषु तथाविधं ध्वनिनिर्माण- सामर्थ्यं विद्यते । मन्त्रः नाम यः मननेन त्रायते । यः मनसि वारं वारं कृतेन मननेन पाठकं रक्षति । मन्त्राणां वारं वारं कृतेन उच्चारणेन नाडीषु तथाविधानि शुभानि स्पन्दनानि उत्पद्यन्ते यैः सः स्वस्य एवं जगतः अपि कल्याणं कर्तुं प्रभवति ।

वेदमन्त्रेषु निहिता विश्वकल्याणकरी शक्तिः तदनुकूलनादतरङ्गाणां स्पन्दनानां वा निर्माणे एव निर्भरा अस्ति । अतः वेदमन्त्राणां विशिष्टोच्चारैः एव पठनम् आवश्यकं भवति । वेदानां शब्देषु कापि मन्त्रशक्तिः विद्यते । तत्र अर्थस्य न तथा महत्त्वं यथा उच्चारितशब्दैः निर्मितस्य नादविशेषस्य । वेदमन्त्रोच्चारणे उदात्त-अनुदात्त-स्वरितभेदैः स्वराणां प्रयोगः कृतो वर्तते । उच्चारणे कापि त्रुटिः मा भूत् इत्यतः पद-क्रम- जटा-घनादयः वेदपठनस्य विकृतयः कल्पिताः सन्ति । यदि एकः अपि शब्दः अशुध्दस्वरेण उच्चारितः स्यात् तर्हि अर्थस्य अनर्थः भवितुम् अर्हति । तत्र तैत्तिईयसंहितायाम् उक्तम् (२-४-१२)

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥

त्वष्टा देवानां स्थपतिः केनापि कारणेन इन्द्रस्य उपरि क्रुध्दः सन् तत्प्रतिशोधकामनया इन्द्रहन्तारं पुत्रम् अवाप्तुं यज्ञमेकं प्रारभत । ‘इन्द्रशत्रुर्वर्धस्व’ इति त् अत्र प्रयुक्तो मन्त्रं अशुध्दस्वरैः उच्चारितः विपरीतं फलं ददौ । ‘त्वष्टुः पुत्रः इन्द्रस्य हन्ता वर्धताम्’ इत्यस्य स्थाने ‘इन्द्रः त्वष्टुः पुत्रस्य हन्ता वर्धताम्’ इत्यर्थः निष्पन्नः । एवम् अशुध्दोच्चारणेन त्वष्टा स्वपुत्रस्य वधस्य कारणम् अभूत् ।

अत्र अविश्वासमनस्कानां कृते विस्तृतं विवरणम् आवश्यकं प्रतीयते । श्रीमद्भगवद्गीतानुसारम् अर्जुनः भगवतः विराटस्वरुपं द्रष्टुम् ऐच्छत् । किन्तु साधारणेन चक्षुषा न तत् शक्यम् आसीत् । अतः भगवता दिव्या दृष्टिः तस्मै प्रदत्ता । तत्रोक्तम्-

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ११-८ ॥

तथैव ऋषयः दिव्यश्रोत्रेण वेदमन्त्रान् अशृण्वन् ।

एकशतवर्षेभ्यः प्राक् –अर्थात् आकाशवाणीयन्त्रस्य आविष्कारात् पूर्वं –ध्वनितरङ्गणां विद्युच्चुम्बकीयतरङ्गेषु रुपान्तरं तथा आकाशवाणीयन्त्रे पुनरपि विद्युच्चुम्बकीयतरङ्गाणाम् ध्वनितरङ्गेषु रुपान्तरम् इत्यादीनां नूतनाविष्काराणाम् अज्ञातत्वात् –अविश्वासप्रचोदितैः जनैः दूरदेशात् केषांचित् शब्दानां श्रवणम् अशक्यं सर्वथा भ्रमपूर्णः अन्धविश्वासोऽयं केवलं कल्पनाविलासः इत्यादिवाक्ताडनैः संभावितं स्यात् । तत्र इदमपि मनसि निधेयं यत् यावत्कालपर्यन्तं क्षेपणयन्त्रस्य तरङ्ग-आयामः (wave length) ग्रहणयन्त्रस्य तरङ्ग-आयामेन साकं न संवदति तावत्कालपर्यन्तम् आकाशवाणीयन्त्रमपि विशिष्टम् अपेक्षितं ध्वनिं श्रावयतुं न शक्नुयात् । यदि अभयोः यन्त्रयोः तरङ्ग-आयामौ किंचिन्मात्रमपि विसंवदेताम् तर्हि अन्यस्य एव केन्द्रस्य कार्यक्रमाः श्रुतिपथं यायुः ।

अथ प्र्श्नोऽयं मनसि समुद्भवति यद् या शक्तिः आकाशवाणीसदृश निर्जीवयन्त्रे विद्यते तां किं मनुष्यदेहः प्राप्तुं शक्नुयात् । तत्र भोजनशयनादि व्यवहारान् परित्यज्य नितान्तकेन्द्रितध्यानपुरः सरम् अनुष्ठितेन तपसा जनितेन योगसामर्थ्येन तथाविधा शक्तिः प्राप्तिसुलभा इति विज्ञानाधिष्ठितयोगशास्त्रस्य सिध्दान्तः । आधुनिके युगे एतादृशाः कल्पनातीताः अद्भुताः आविष्काराः विज्ञानेन उपस्थापिताः यत् यथा पूर्व्ं नेपोलियनमहाभागस्य तथा अद्य निज्ञानस्य अपि कोषे ‘अशक्यम्’ इति शब्दः नैव विद्यते इति वक्तुं शक्यते ।

अत्र योगसाधनाम् अधिकृत्य अपि किंचित् विवेचनम् उपयुक्तं स्यात् । अस्माकम् आरोग्यम् भावनाः वा कथं निश्चीयन्ते ? अस्माकं नाडीषु प्रवहमानः विशिष्टः वायुः श्वासोच्छवासप्रक्रियायां यानि स्पन्दनानि उत्पादयति तेषु अस्माकम् आरोग्यम् निर्भरं भवति । ये योगाभ्यासेन श्वसनक्रियां नियन्तुं शक्नुवन्ति ते विस्मयावहमात्रया आरोग्यसम्पन्नाः सन्ति । यदि एतादृशानां योगिनां रक्तवाहिनी छिद्यते तर्हि रक्तस्रावः न भवति । अनेकदिवसपर्यन्तं समाधिस्थाः पृथिव्यां निखाताः हृदयक्रियायाम् एवं नाडीस्पन्दने स्तब्धतां गतेऽपि जीवन्ति, सर्पविषेण न प्रभाविताः भवन्ति इति अद्य आधुनिके युगेऽपि वयं द्रष्टुं पारयामः । तत्र कारणं तु श्वसनप्रक्रियायां नाडीस्पन्दननियन्त्रणम् ।

श्वासः न केवलं शरीरार्थम् अपि तु मनसः कृतेऽपि आवश्यकः । मानवस्य नाडीषु स्थितानि स्पन्दनानि चेतनायां भावनाः प्रवृत्तीः वा उत्पादयन्ति । व्यतिक्रमेण मनसि याः काश्चन भावनाः सन्ति ताः नाडीषु स्पन्दनानि जनयन्ति । यदि मनसि काः अपि भावनाः न विद्यन्ते तदा मुखमण्डले कापि आभा दृष्टिपथम् आयाति । यदि वयं नाडीः नियमयितुं शक्नुमः तर्हि वयं भावनानाम् उपरि स्वामित्वं स्थापयितुं पारयामः । विचाराणाम् उद्गमस्थानं प्राणिकशक्तिः (Vital energy) उभे अपि एकमेव । शुभाशुभविचाराः नाड्यः विविधस्पन्दनेषु निर्भराः वर्तन्ते । यदा वयं देवप्रतिमासंनिधौ उपविशामः तदा श्वासोच्छवासप्रक्रिया स्थिरा एवं शान्ता वर्तते । किन्तु यदा वयं क्रुध्दाः कामातुराः वा स्मः तदा श्वासानां वेगः प्रवर्धते । भारतीयानाम् इदं योगशास्त्रं श्वासोच्छ्वासप्रक्रियायाः तथा नाडीस्पन्दनानां नियन्त्रणस्य शास्त्रम् ।

यथा उपरि निर्दिष्टम् ऋषिभिः योगसामर्थ्येन दृष्टान् वेदमन्त्रान् सुरक्षितान् विधातुकामैः शास्त्रकारैः समाजव्यवस्थायां स्वतन्त्रः ब्राह्मणवर्णः निर्मितः । ब्राह्मणः गुरोर्मुखात् एव वेदोच्चारणं श्रुत्वा मन्त्रान् सस्वरान् कण्ठस्थान् करोति । लिखितग्रन्थस्य पठनेन विशिष्टप्रकारकम् उच्चारणं नैव कर्तुं शक्यम् । अत एव वेदमन्त्राः श्रुतिशब्देन निर्दिश्यन्ते । वेदमन्त्राणाम् उच्चारणेन उत्पन्नाः ध्वनितरङ्गाः स्पन्दनानि वा न केवलं पाठकस्य अपि तु जगतः कल्याणं कर्तुं प्रभवन्ति इति अस्माभिः दृष्टपूर्वमेव । अथ सामान्यजनाः तथाकथितबुध्दिवादिनः वा वेदरक्षणस्य महत्त्वं याथार्थ्येन आकलयितुं न पारयन्ति इति तु सत्यम् । परन्तु यथा वयं विज्ञानस्य आविष्काराणां विषये वैज्ञानिकानां शब्दे विश्वसिमः तथैव वेदशास्त्रपारंगतानाम् अपि शब्दाः विश्वासार्हा एव मन्तव्याः । नान्यः पन्थाः विद्यते ।

वर्णाश्रमव्यवस्था भारतस्य वैशिष्ट्यम्[सम्पादयतु]

चातुर्वर्ण्यम् अधिकृत्य पुरुषसूक्तवचनम् अनुसृत्य मनुरपि आह-

लोकानां तु विवृध्द्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥१.३१ ॥

एवं श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन उक्तम्-

चातुर्वर्ण्यं मया सृष्टं गुण्कर्मविभागशः । ४.१३ ॥

एतेभ्यः वचनेभ्यः मार्गदर्शनं प्राप्य शास्त्राकारैः एतेषाम् आधारेण किंविधः विचारः कृतः स्यात् इति अनुमातुं शक्यते ।

एते शास्त्रकाराः यदा ‘सर्वेऽपि सुखिनः सन्तु’ इति बुध्द्या मानवकर्तव्यस्य निर्धारणार्थं प्रवृत्ताः तदा तैः द्विविधो विचारः आवश्यको मतः । प्रथमं तावत् एकैकः मनुष्यः समष्टेः अङ्गभूतत्वेन अवतिष्ठते द्वितीयतश्च तस्य व्यक्तिशः अपि जीवनं वरीवर्ति । यथा उन्नतव्यक्तिः एव समाजस्य कल्याणं कर्तुं प्रभवेत् तथा उन्नतस्य एव समाजस्य अङ्गभूतः कश्चित् याथार्थ्येन स्वोन्नतिं साधयितुं पारयेत् । एवं व्यष्टिसमष्ट्योः उन्नतिः परस्परसापेक्षा इति सम्यग् अवधार्य प्राचीनैः विविधाः नियमाः उपदिष्टाः । तत्र समष्टिदृष्ट्या तैः वर्णधर्मः उपदिष्टः व्यष्टिदृष्ट्या च आश्रमधर्मः । समष्टिदृष्ट्या कस्यचित् कर्तव्ये अनिर्णीते व्यष्टिगतं कर्तव्यं नैव निर्णेतुं शक्यते इति तु स्पष्टमेव । वर्णाश्रम-व्यवस्था इत्यत्र प्रयुक्तयोः वर्णाश्रमशब्दयोः आनुपूर्वीम् आलोक्य समष्टेः अविरोधेन व्यष्टेः उन्नतिः अभिप्रेता आसीत् शास्त्रकाराणाम् इति वक्तुं शक्यते । समष्टेः सुस्थितिं सम्पादयितुं तैः पुरुषशरीरम् आदर्शत्वेन पुरतः स्थापितम् । शरीरस्य ते ते अवयवाः परस्परसहकार्येण श्रमविभागम् कृत्वा वर्तन्ते । यदा कस्यचित् पादः कण्टकेन विध्दो भवति तदा मस्तिष्कं हस्तं प्रेरयति, हस्तश्च तत्र गत्वा कण्टकं निष्कासयति । इयं सम्पूर्णा प्रक्रिया स्वाभाविकतया सहजतया च सम्पद्यते । तत्र विभिन्नानाम् अवयवानां परस्परसहकार्यव्यवहारे एकसूत्रता च लक्षणीया खलु । एवं पुरुषवत् एकात्मभावेन समाजस्य अवस्थानम् इष्टं चेत् तर्हि समाजघटकैः अपि परस्परसहकार्येण श्रमविभागं कृत्वा वर्तितव्यम्, तत्र मनुष्याणां काश्चन मूलप्रवृत्तीः समाजस्य च विविधाः आवश्यकताः सूक्ष्मेक्षिकया अवधार्य तैः मानवसमूहं चतुर्धा विभज्य तेभ्यः पृथक् पृथक् कर्तव्यानि उपदिष्टानि ।

केचन पुरुषाः ईश्वरप्रदत्तगुणगणवशाद् बिध्दिप्रधानं कार्यं कर्तुं प्रवृत्ताः भवन्ति । अतः समाजसेवाकाङ्क्षिभिः तैः जनानाम् अज्ञानं नाशयितव्यम् इति ते आदिष्टाः । केचन पुनः पराक्रमपराः बलसम्पाद्यं कार्यं कर्तुं प्रभवन्ति । ते समाजे अवस्थितम् अन्यायं दण्डशक्त्या वारयितुम् आज्ञापिताः । अन्ये पुनः स्वप्रवृत्तिवशादेव सस्योत्पादनम् एवम् अर्थसम्बन्धिनः क्रयविक्रयादिव्यवहारान् सुगमतया कर्तुं पारयन्ति । ते समाजे परिदृश्यमानम् अभावम् अपनेतुं निर्दिष्टाः । अपरे पुनः श्रमसाध्यानि शिल्पादीनि कर्माणि कर्तुं पटवो दृश्यन्ते । ते च समाजे वर्तमानाम् असुविधां दूरीकर्तुं नियुक्ताः । एताः मूलभूताः चतस्रः प्रवृत्तीः दीर्घनिरीक्षणपुरः सरम् अभ्यस्य ब्राह्मण-क्षत्रिय-वैश्यशूद्रेषु चतुर्षु वर्णेषु विभाजनं परिकल्पितम् पूर्वैः ऋषिभिः । एवं समष्टेः कल्याणार्थं शिक्षक- रक्षक- पोषक- सेवकाः इति चत्वारः समूहाः नियोजिताः । तदेतद् बुध्दि-बल-अर्थ-श्रमप्रधानं चतुर्विधं वर्गीकरणं अत्यन्तं तर्कशुध्दं प्रत्यक्षावगमं च प्रतीयते । युरोपखण्डस्य इतिहासेऽपि एतादृशानामेव चतुर्विधानां वर्गाणाम् एकैकस्य अनेनैव क्रमेण प्राबल्यं संजातम् उपलभ्यते । प्रथमं तावत् ज्ञानमात्रशक्तयः धर्मोपदेशकाः धर्मप्रमुखपोपमहाशयस्य नेतृत्वे प्रबलाः आसन् । तेषाम् अङ्गुलिनिर्देशे राजानः धनवन्तश्च नृत्यन्ति स्म । तदनन्तरं तेषां प्रभुत्वं दूरम् अपसार्य राजानः सामन्तगणाश्च स्वस्य सैन्यबलेन प्रबला बभूवुः । तत्पश्चात् धनिकवर्गेण विज्ञानप्रदत्तयन्त्रैः उत्पादने एकाधिकारंण् संस्थाप्य अर्थबलेन जनतन्त्राख्यां च प्रणालीम् उररीकृत्य राजशक्तिः दूरतोऽपसारिता । भाण्डवादाख्यां च पध्दतिम् आश्रित्य समाजे स्वस्य प्रभुत्वं संस्थापितम् । तदनन्तरम् उत्पादनं तु श्रमसापेक्षम् इति सम्यक् ज्ञात्वा श्रमिकवर्गेण धनिकवर्गस्य प्रभुत्वम् आह्वानपूर्वकं दूरतः अपसारितम्। साम्यवादाख्यां प्रणालीं निर्माय स्ववर्चस्वं केषुचन प्रदेशेषु संस्थापितम् । वर्णनाद् अस्मात् पूर्वैः ऋषिभिः कृतं समाजस्य चतुर्विधं वर्गीकरणं तर्कशुध्दमेव आसीत् इति सिद्यति । सेयं वर्णाश्रमव्यवस्था भारतस्य वैशिष्ट्यचर्शकं तत्त्वम इति सगर्व्ं मन्यन्ते स्म तदानींतनाः इति निम्नश्लोकात् स्पष्टं भवति –

वर्णाश्रमविभागोऽयं यस्मिन् देशे न विद्यते ।
स म्लेच्छदेशो विज्ञेयः …………….॥

वर्णाः[सम्पादयतु]

कर्तव्यानि[सम्पादयतु]

वस्तुतः प्रत्येकस्मिन् त्रयोऽपि गुणाः सत्त्वरजस्तमांसि न्यूनाधिक्येन सन्ति एव । परन्तु प्राधान्येन व्यपदेशः इति न्यायेन यस्य यो गुणः अधिकः तस्य नाम्ना स अभिधीयते । यथा ब्राह्मणः सात्त्विकः, क्षत्रियश्च राजसः इत्यादि । श्रीरामकृष्णमठस्य स्वामिनः श्री –आत्मानन्दमहोदयाः गीतायाः टीकायां यद् चतुर्णामपि वर्णानां प्रतिशतं गुणप्रभावम् उपन्यस्यन्ति तद् मनोरञ्जकं खलु । कर्म मानसिकतायाः उपरि अवलम्बितम् अस्ति । ब्राह्मणेन शमदमपवित्रता इत्यादिरुचिना भाव्यम् । रुच्यनुसारं क्रियापि आवश्यकी । कर्मानुरुपा मानसिकतापि भवति ।

वर्णः जन्मना एव चिश्चीयते[सम्पादयतु]

केचन आधुनिकाः मन्यन्ते यद् जन्मना वर्णे निश्चिते यः शूद्रः स सर्वदा शूद्रः दलितः पतितः एव स्यात् । एष तु तस्योपरि महान् अन्यायः भवेत् । अतः इदमेव कथनं युक्तियुक्तं यद् मूलतः चातुर्वर्ण्यं गुणकर्मशः नाम गुणानां (merits) एवं कर्मणां (professions) विचारं कृत्वा निश्चीयते स्म । पश्चात् निहितस्वार्थैः वर्णैः शूद्रान् उत्पीडयितुं जन्मना वर्णः इति तत्त्वम् उद्घोषितम् इति । तत्रोच्यते । सर्वथा तर्कदुष्टोऽयं विचारः । क्षणमेकम् अवधार्यताम् । बालकस्य जनिं प्राप्तस्य गुणाः कर्माणि वा न दृष्टिपथम् आयान्ति । वस्तुतः अष्टादशवर्षीयस्य कस्यचित् गुणाः कर्माणि वा निर्धारयितुं शक्यन्ते । तथैव अष्टादशवर्षीयस्य कस्यचित् गुणाः कर्माणि वा निर्धारयितुं शक्यन्ते । तथैव बालकस्य शिक्षा तु प्रायः पञ्चमवर्षात् प्रारभ्यते । तदा जन्मप्रभृति तस्य कः वर्णः । कस्य वर्णस्य अनुसारं तस्मै शिक्षा दातव्या । तथैव यदि परिणते वयसि कश्चित् कारणवशात् स्वस्य व्यवसायं –शिक्षकः सैनिकः वणिक् इति क्रमेण परिवर्तयेत् तर्हि कस्तस्य वर्णः स्यात् । समाजे घटकानां स्थितनिर्धारणे यदि अनिश्चितता स्यात् तर्हि अनवस्थाप्रसङ्गः समुदभवेत् । अतः जन्मना एव वर्णः निश्चेतव्यः स्यात् । चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः इति वचने वर्णानां सृष्टेः प्राक् लोकानां गुणान् नाम सत्त्वरजस्तमाआदिप्रवृत्तीः तथा कर्माणि नाम कार्यक्षमताः सम्यग् अभ्यस्य एव विभाजनं कृतम् । तत्रोक्तम्-

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ गीता १८-४१ ॥

वर्णानां विभाजननन्तरं जन्मना एव वर्णाः निश्चिताः अभवन् इति तु स्पष्टमेव ।

अपरं च पितुः स्वाभाविकः अभिलाषः यत् मे पुत्रः ममैव व्यवसायम् अनुसरतु । चतुर्णामपि वर्णानां विषये एतादृशं चिन्तनं चरितार्थं भवति ।आ बाल्यात् तस्यैव व्यवसायस्य समन्ततः वायुमण्डलं, नित्यं कार्यं प्रत्यक्षं दृष्टवा अनुकरणसौलभ्यम्, आनुवंशिकगुणवत्ता, प्रशिक्षणस्य सुविधा, मूलधनम्, उपकरणादीनां स्वयंसिध्दता, स्पर्धा-मत्सरादि-समस्यानाम् अभावः इत्यादि कारणैः पिता एवं पुत्रः उभौ अपि निश्चिन्तताम् अनुभवतः । अनेन समाजः अपि सुचारुरुपेण सुखपूर्वकं च जीवनयापनं कर्तुं शक्नोति । ‘सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्’ इत्यस्मिन् वचने ‘कर्म’ शब्दस्य ‘सहजम्’ इति विशेषणं ‘जन्मना वर्णः’ इति तत्त्वमेव समर्थयति ।

व्यवस्थायाः सफलतायै मार्गदर्शनम्[सम्पादयतु]

कापि व्यवस्था तदा ईप्सितं फलं दद्यात् यदा तस्याः क्रियान्वयनं सर्वैः प्रामाणिकतया एवं सर्वात्मना अनुष्ठितं स्यात् । भगवता श्रीकृष्णेन अस्मिन् सन्दर्भे उक्तम्-

स्वे स्वे कर्मण्यभिरतः संसिध्दिं लभते नरः ।
स्वकर्मनिरतः सिध्दिं यथा विन्दति तच्छृणु ॥१८-४५॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिध्दिं विन्दति मानवः ॥ १८-४३॥

येन परमात्मना जगदिदं विसृष्टं तेनैव समाजकल्याणकामनया इयं व्यवस्थापि विनिर्मिता । यदि स्वस्य नियतं कर्म एकनिष्ठभावेन परिश्रमपूर्वकं च क्रियेत् तर्हि सा परमात्मनः एव पूजा इति मत्वा स स्वस्य जीवनं कृतार्थं कुर्यात् ।

अद्यतनेऽपि समये अयम् आदर्शः राष्ट्रस्य उन्नत्यै महान् उपकारकः स्यात् । अद्य भ्रष्टाचारबहुले एवं शैथिल्यपूर्णे वायुमण्डले न कोपि-अत्युच्च- स्थाने उपविष्टान् अधिकारिणः आरभ्य निम्नतमसेवकपर्यन्तं कोऽपि –स्वस्य नियतं कर्म प्रामाणिकतया एवं सपरिश्रमं नैव करोति । तत्र कर्मचारिणां संख्यायाः तु वृध्दिः भवति, परंतु कार्यनिष्पत्तिप्रमाणं प्रत्यहं क्षयमेति । वस्तुतः कस्याः अपि योजनायाः व्यवस्थायाः वा सफलतायाः कुञ्चिका भवति कर्मचारिणाम् अव्यभिचारिनिष्ठया कर्तव्यपालनम् । एष प्राचीनः आदर्शः अद्यापि फलदायि स्यात् ।

इदमपि संभवति यत् स्वस्य नियतकर्मणि कापि त्रुटिः न्यूनं वा भवेत् । परन्तु तदा एतच्चिन्तनीयं यद् अस्मिन् जगति सर्वथा निर्दोषं किमपि नैव विद्यते । यथा अग्निना साकं धूमस्य अस्तित्वम् अपरिहार्यम्, तथा केनापि कर्मणा सार्धं स्वल्पस्यापि दोषस्य उपस्थितिः अनिवार्या । अतः तं स्वल्पदोषं दुर्लक्ष्य अविचलितेन मनसा स्वकर्तव्यं निर्वर्तनीयम् । तत्रोक्तं-

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८॥

भगवतः मार्गदर्शनं स्पष्टं भवति –

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३-३५॥

अत्र स्वधर्मशब्दस्य अर्थः स्वस्य नियतं कर्म । उपरिवर्णितायां वर्णव्यवस्थायाम् उत्तरोत्तरवर्णाधिष्ठिता नियमनव्यवस्था गोचरीभवति । सर्वप्रथमं समाजस्य सुखसमृध्दिः शिल्पोन्नतिसापेक्षा इति निश्चित्य श्रमसाध्यानां विविधानां शिल्पानाम् उन्नतिभारः शूद्राणामुपरि न्यस्तः । किन्तु शिल्पोन्नतिस्तु अर्थाश्रितविनिमयव्यवहारसापेक्षा । शिल्पद्वारा उत्पादनकार्येऽपि धनस्य् आवश्यकता अस्ति । अयं समस्तः अर्थव्यवहारः वैश्यायत्तः कृतः । एवं पर्यायेण शूद्राणां नियन्त्रणम् वैश्याधीनं कृतम् । धनस्य तु चोरादिभ्यः रक्षणम् आवश्यकं भवति । तथा धनवन्तः ऐश्वर्यमदेन प्रमत्ताः मा भूवन् इत्यतः तेषां नियमनस्य भारः क्षरियेषु निक्षिप्तः । एवं क्षत्रियाः शासनप्रमुखाः राजानः बभूवुः ।

अथ सर्वेषु मदेषु शासनमदः प्रबलतमः । यदि राजानः मदोन्मत्ताः स्युः तर्हि प्रजाः नैव सुखान्विताः भवेयुः । अतः तेषां नियमनस्य भारः सर्वथा अभिनवे धर्माख्ये तत्वे एवं पर्यायेण धर्मोपदेशकेषु ब्राह्मणेषु न्यस्तः । निर्धनाः कृशकायाः ब्राह्मणाः नियन्त्रणमेतत् स्वतपः प्रभावात् अकुर्वन् । अथ ब्राह्मणस्य नियन्त्रणं कस्याधीनम् इति चेत् तत्रोच्यते यद् तेषां नियन्त्रणस्य न कापि आवश्यकता समभवत् । ते स्वकर्तव्येन एव नियन्त्रिताः अभवन् । मदोत्पादकायाः धनशक्तेः निर्धनानां तेषां पक्षे प्रश्नः एव न समुद्भवति शासनसत्ता अपि क्षत्रियाधीना आसीत् । एवं निष्काञ्चनाः निः सङ्गाः ब्राह्मणाः स्वचारित्र्यबलेन समाजस्य मूर्ध्नि रराजिरे । अथ चातुर्वर्ण्यम् अधिकृत्य इदानींतने समये बहवः आक्षेपाः निश्चितमेव स्युः । तेषां परामर्शम् द्वितीये खण्डे अनुष्ठास्यामः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=वर्णाश्रमव्यवस्था&oldid=270336" इत्यस्माद् पुनः प्राप्तिः