अमृतसर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अमृतसर
—  महानगरम्  —
रात्रौ स्वर्णमन्दिरस्य अपूर्वम् दृश्यम्
Punjab
अमृतसर
Coordinates: 31°38′N 74°52′E / 31.64°N 74.86°E / 31.64; 74.86Coordinates: 31°38′N 74°52′E / 31.64°N 74.86°E / 31.64; 74.86
देशः भारतम्
राज्यम् पञ्जाबराज्यम्
मण्डलम् अमृतसरमण्डलम्
सर्वकारः
 • Akal Takht
जनसङ्ख्या (2011)
 • महानगरम् ११,३२,७६१
 • महानगरम् ११,८३,७०५
भाषाः
 • Official पञ्जाबी
IST (UTC+5:30)
PIN 143-001
Telephone code 91 183 XXX XXXX
वाहनपञ्जीकरणम् PB02
जालस्थानम् www.amritsarcorp.com

अमृतसर पञ्जाबराज्ये विद्यमानं प्रमुखं नगरम् अस्‍ति । अत्र सिक्खधर्मस्य हरिमन्दिरं स्थापितम् अस्‍ति । विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । पाकिस्तानदेशस्य सीमायाः समीपे २८ कि.मीटर् दूरे अस्ति । भारतदेशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं रामदासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं, सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजितसिङ्गमहोदयः कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते । देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य ‘गुरुग्रन्थसाहेबस्य’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे गुरुनानकस्य उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।

अमृतसरस्य इतरप्रेक्षणीयस्थानानि[सम्पादयतु]

जलियान्वालाबाग्[सम्पादयतु]

अमृतसरस्य स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् नामकम् उद्यानमस्ति । क्रिस्ताब्दे १९१९ तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अहिंसात्मकान्दोलने निरतानाम् उपरि जनरल् डायर् घोरं गोलिकावर्षणं कारितवान् ४७१ जनाः तद्दिने मृताः अभवन् । आङ्गलाधिकारिणाम् एतत् भीकरं कृत्यम् अधुनापि जनाः न विस्मृतवन्तः सन्ति। इतिहासानुसारम् अस्य उद्यानस्य प्रवेशाय एकम् एव द्वारम् अस्ति । मध्याह्ने ’४.३० वादनसमये अत्र सभा आयोजयिष्यते’ इति पूर्वमेव सूचितमासीत् । किन्तु सभायाः आरम्भानन्तरं डायरमहोदयः सैनिकैः साकमागत्य जनानामुपरि १०० मीटर् दूरतः गोलिकवर्षणस्य आदेशं कृतवान् ।पूर्वं सभायाः निषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टाना विरुद्धम् आङ्ग्लसर्वकारस्य पाशवीयकृत्यम् एतत् अविस्मरणीयम् अस्ति । इदानीमपि अत्रत्यां वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यतः अत्र वाप्यां अनेकेषां जनानां शरीराणि आसन् । इदानीम् अस्मिन् उद्याने मृतानां संस्मरणार्थ ’अमरज्योतिः’ स्थापिता अस्ति ।

अत्र देवालयस्य समीपे सुन्दरम् उद्यानं , रामगुरियास्तम्भाः, वस्तुसङ्ग्रहालयः च दर्शनीयानि सन्ति । अमृतसरनगरे एव अन्यत् दुर्गीयानानामकं स्वर्णमन्दिरमित्यस्ति । सिक्खधर्मीयानां मन्दिरसह्रशमेव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् क्रिस्ताब्दे १६ शतके निर्मितमस्ति ।

विमानमार्गः[सम्पादयतु]

देहली-श्रीनगरमार्गः

धूमशकटमार्गः[सम्पादयतु]

देहलीतः अमृतसर ४४७ कि.मी । अमृतसरनगरं प्रति इदानीं लाहोरतः अपि सम्पर्कः अस्ति ।

वाहनमार्गः[सम्पादयतु]

चण्डीगढलाहोरलुधियानादेहली- इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।

वसतिः[सम्पादयतु]

वासार्थं गोल्डन् टेम्पल् वसतिगृहाणि निश्शुल्कतया सन्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तरानापवित्रसरोवरः (२३ कि.मी), डेरबाबानानकस्थानं ३२ कि.मी दूरे सन्ति ।


जालगवाक्ष:[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अमृतसर&oldid=241313" इत्यस्माद् पुनः प्राप्तिः