श्रीनगरम्
| श्रीनगरम् | |||||||||
| — राजधानी — | |||||||||
|
|
|||||||||
|
|
|||||||||
| निर्देशाङ्काः | |||||||||
| देशः | भारतम् | ||||||||
| राज्यम् | जम्मूकाश्मीरराज्यम् | ||||||||
| मण्डलानि | श्रीनगरम् | ||||||||
| Settled | 3rd century BC | ||||||||
| Mayor | Salman Sagar (NC) | ||||||||
| जनसङ्ख्या |
८,९४,९४०[१] (2001[update]) • ८,५२३ /km2 ( /sq mi) |
||||||||
| लिङ्गानुपातः | 1.17 ♂/♀ | ||||||||
| साक्षरता | 59.18% | ||||||||
| व्यावहारिकभाषा(ः) | काश्मीरी, उर्दु[२] | ||||||||
|---|---|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||||
| विस्तीर्णम् |
२३८ square kilometres ( sq mi) • १,५८५ metres ( ft) |
||||||||
| वायुमण्डलम् • तलस्पर्षी |
Cfa (कॊप्पेन्) • ७१० mm ( in) |
||||||||
|
सङ्केताः
|
|||||||||
| जालस्थानम् | www.srinagar.nic.in | ||||||||
श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्ति । इदम् एकं सुरम्यं नगरम् अस्ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम् । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते । श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।
अन्तर्विषयाः |
विमानमार्गः [सम्पादयतु]
चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।
धूमशकटयानसम्पर्कः [सम्पादयतु]
देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।
वाहनमार्गः [सम्पादयतु]
पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।
आधाराः [सम्पादयतु]
- ↑ १.० १.१ Population in the age group 0-6 and literates by sex—urban agglomeration/town. Census of India 2001. Government of India (27 May 2002). दिनांकः 2007-04-14.
- ↑ Kashmiri: A language of India. Ethnologue. दिनांकः 2008-05-14.