इन्दौर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

मध्यप्रदेशे किञ्चनमण्डलम् अस्ति इन्दौरमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति इन्दौर । इन्दौरनगरं पूर्वं होळ्करवंशीयानां राजधानी आसीत् । क्रिस्ताब्दे १७३३ तमे वर्षे राजवाडा इति एतस्य नामनिर्देशः आसीत् । बहु-अट्टात्मकानि भवनानि, राजवंशीयानाम् अध्ययनकेन्द्राणि अद्यापि सन्ति । होळकरवंशीयानां राजगृहमिव अत्र वस्तुसङ्ग्रहालयः समाधयः इत्यादयः दर्शनीयानि स्थानानि सन्ति ।

अन्तर्विषयाः

फडके आर्ट् स्टुडियो [सम्पादयतु]

इन्दौरनगरस्य लोकयाननिस्थानतः २-३ कि.मी दूरे पर्वतप्रदेशे एषा कलाचित्रीकरणशाला अस्ति । अत्र अमृतशिलानिर्मिताः, प्लास्टर् आफ् प्यारीस्द्वारा निर्मिताः सिक्थनिर्मिताः शतशः वस्तुविशेषाः सन्ति । एतस्य सङ्ग्रहं पद्मश्रीप्रशस्तिभाजः श्री आर्.के.फडकेमहोदयः कृतवान् । एषः भारते एव प्रसिद्धः चित्रकारः । तेन निर्मितानि देवताचित्राणि, रुपिताः विग्रहाः सङ्ग्रहालये सन्ति । बालगङ्गाधरतिलकः सरदार् वल्लभभायी पटेलः श्रीमती सरोजिनी नायडु इत्यादयः प्रतिमाः अतीव सुन्दर्यः सन्ति । वस्तूनां दर्शनेन जनाः अत्यन्त सन्तुष्टाः भवन्ति ।

विमानमार्गः [सम्पादयतु]

इन्दौरविमाननिस्थानमस्ति । देहलीमुम्बयीभोपालनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः [सम्पादयतु]

उज्जयिनीतः धूमशकटयानसम्पर्कः अस्ति

वाहनमार्गः [सम्पादयतु]

भोपालझान्सी इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । ‘सर्वाटे’ लोकयाननिस्थानतः प्रवासव्यवस्थाः सन्ति ।

"http://sa.wikipedia.org/w/index.php?title=इन्दौर&oldid=233560" इत्यस्माद् उद्धृतम्