महात्मा गान्धी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
महात्मा गान्धी
The face of Gandhi in old age--smiling, wearing glasses, and with a white sash over his right shoulder
जननम् 2 October 1869(1869-10-02)
पोर्बन्दर्, कतियावार् एजेन्सि, ब्रिटिश्-शासित-भारतम्[१]
(अधुना गुजरातराज्यम्, भारतम्)
मरणम् 30 January 1948(1948-01-30) (aged 78)
देहली, भारतम्
मरणस्य कारणम् Assassination by shooting
मरणस्थानम्/समाधिः cremated at राज् घाट्, देहली.
28°38′29″N 77°14′54″E / 28.6415°N 77.2483°E / 28.6415; 77.2483
राष्ट्रियता भारतीयः
इतरनामानि महात्मा गान्धी, बापू जी, जान्धी जी
शैक्षिकयोग्यता Samaldas College, Bhavnagar,
Inner Temple, London
प्रख्यातिः Prominent figure of Indian independence movement
Propounding the philosophy of Satyagraha and अहिंसा
Advocating non-violence
Pacifism
धर्मः हिन्दूधर्मः
पतिः/पत्नी कस्तूरि बा
अपत्यानि हरिलाल्
मुनिलाल्
रामदासः
देवदासः
child who died in infancy
मातपितरौ पुत्लीबायी गान्धी (माता)
करमचन्द् गान्धी (पिता)
हस्ताक्षरम्

महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धिः इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

जन्म[सम्पादयतु]

गान्धिवंशीया बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्टः स प्रत्याह इतः पूर्वमेव मम दक्षिणो हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥ मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्दगान्धिः कबागान्ध्यपराख्यः पञ्चमः । तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तातः कियन्तं कालं राजकोटसंस्थाने क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥ कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोरद्ययोर्द्वे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिमः ॥ मम पिता कुटुम्बवत्सलः सत्यप्रियः शूर उदारश्च । परन्तु क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबागान्धिः समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥ मम पितुर्द्रव्यसङ्ग्रहलोभो न कदाप्यासीत् । तदस्माकं पैतृकं रिक्थमल्पमल्पमागतम् ॥ अनुभवमेकं मुक्त्वा तस्य शिक्षाक्रमः कोऽपि नासीत् । अध्ययनमपि भूयसा गुजरातीपञ्चमश्रेणीपर्यन्तमेव तस्य प्रवृत्तम् । चरित्रभूगोलपरिज्ञानं तस्य न कञ्चित् । तथाप्यस्य व्यावहारिकज्ञानसम्पन्नत्वादतिसूक्ष्मप्रश्नानां निर्णये परःशतानां जनानां शासनेऽपि प्रगल्भोऽभवत् । तेन लब्धं धार्मिकशिक्षणमत्यल्पम् । तथाप्यसंख्यातैर्हिन्दुजनैर्देवस्थानगमनपुराणपुण्यकथाश्रवणादिभिर्यावती धार्मियज्ञानसम्पत्तिरधिगन्तुं शक्या तावती तेनापि सम्पादिता । स्वस्य मरणात् कतिपयवत्सरेभ्यः पूर्वमस्मदीयकुटुम्बमित्रेण केनचिदब्राह्मणविदुषा बोधितो मे पिता गीतापारायणं कर्तुमारभत । अपि च प्रत्यहं पूजासमये कतिपयश्र्लोकानुच्चैः पठति स्म ॥ मम मातुर्विषये कदाप्यविस्मणीयतया यन्मे मनसि निरूढस्थितं तत्खलु सा पतिव्रता स्त्रीति । सेयं धर्मभीरुः । प्रतिदिनमापूजापाठावसानं भोजनचिन्तामपि न कलयति स्म । हवेल्याख्यवैष्णवदेवालयगमनं तस्याः प्रात्याहिककर्तव्येष्वेकतममासीत् । स्मारं स्मारमपि तस्याश्चातुर्मास्यव्रताचरणलोपः कदाचित्कोऽपि मम स्मृतिपथं नायाति । अत्यन्तकृच्छव्रतान्यपि सा सर्वात्मना समापयते स्म । आरब्धव्रतं व्याधिवशान्न कदापि पर्यत्यजत् । एकदा चान्द्रायणव्रतमाचरन्त्या रोगपीडीतयाप्यपरित्यज्य व्रतं यथावत्समापितं मम स्मृतिमुपैति । द्वित्रदिनानि यावदुपवासो नाम तस्या ईषत्करः । चातुर्मास्ये प्रतिदिनमेकमुक्तं तयाभ्यस्तमासीत् । इयताप्यपरितृप्य चातुर्मास्ये क्वचिदेकाहिकमुपवासं कुर्वती व्रतं समापयत् । अपरस्मिंश्चातुर्मास्ये सूर्यनारायणदर्शनं विना नाहारं स्वीकरिष्य इति व्रतमग्रहीत् । तदास्माभिर्बालकैर्बहिः स्थित्वा गगनैकद्रष्टिभिः सूर्यदर्शनं मात्रे निवेदयितुमवसरः प्रतीक्ष्यते स्म । वर्षाकालयमध्ये सूर्यदर्शनमतीवविरलमिति सर्वेषामपि विदितमेव । बहुषु दिवसेषु सहसा प्रत्यक्षीभवति सूर्ये यथा वयं 'अम्ब अम्ब सूर्यो दृश्यते’ इति ससम्भ्रममवोचाम यथा चन यावदम्बा स्वयं द्रष्टुं बहिरुपधावति तावत्सूर्यस्तिरोहितोऽभूत् यथा चानेन तस्यास्तस्मिन्दिने भोजनाभावः प्राप्तस्तथा सर्वं स्मरमि । ईदृक् सम्भवेष्वस्माताम्लानमुखी 'न कापि चिन्ता । ममाद्य भोजनं देवता न रोचते’ इति वदन्ती स्वकार्यमनुष्ठातुं प्रतिनिवर्तते स्म ॥ सा व्यवहारकुशला । राजास्थानसम्बन्धिनामखिलवृत्तान्तानामप्यभिज्ञाभवत् । अस्या बुद्धिकौशलमवरोधजनस्य सुविदितमासीत् । अहमनेकशो बाल्ये वयसि जनन्या सह राजमन्दिरं गत्वा तत्र मदम्बाठाकूरप्रभुजनन्योः संवृत्तं कथालापं श्रुतवानित्यद्यापि स्मरामि ॥ अनयोर्मातापित्रोर्गर्भादहं संवत् १८३५ भाद्रपदबहुलद्वादश्यां (तथा च श्रीशालिवाहनशकस्य द्विनवत्युत्तरसप्तशताधिकैकसहस्त्रतमे शुक्लनाम्नि संवत्सरे भाद्रपदकृष्णद्वादशीतिथौ) अधुना पोरबन्दरेतिप्रसिद्धे सुदामापुर्यां जन्माग्रहीषम् ॥ पोरबन्दरे मया बाल्यमतिवाहितम् । कामप्येकां प्रति मया गम्यते स्मेति ज्ञप्तिरस्ति । गणितकोष्टकानां घट्टीकरणं मम क्लेशावहं संवृत्तम् । अपि च सहपाठिभिः सहास्मदुपाध्यायनिन्दामशिक्षिषि । इदमुक्त्वा नान्यत् किञ्चिदपि स्मरामि । एतेन तदानीं मे बुद्ध्‌या मन्दया भवितव्यं ज्ञापकशक्त्या चापक्वया भाव्यमिति तर्कये ॥

बाल्यम्[सम्पादयतु]

यदामे पिता राजास्थानिकन्यायसभासदस्यत्वमिच्छू राजकोटं प्रति प्रस्थितस्तदा मया सप्तवर्षदेशीयेन भाव्यम् । तत्राहं प्राथमिकशालां प्रवेशितोऽभवम् । तदात्वे पाठयितृणामुपाध्यायानां नामानि सम्यगहं स्मरामि । यथा पोरबन्दरपुरे तथैवात्रापि मम पाठलेखनादिषु न कोऽपि विशेषो द्रष्टः । नचाहमितरापेक्षया बुद्धिमत्तर इति गणनीयोऽभवम् । एनां शालामतिक्रम्य नगराबाह्यवर्तिन्यां पाठशालायां दिनकतिपयान्यावदध्यगीषि । तदनु द्वादशेवर्षे हाईस्कूलाख्यमुच्चविद्यालयमहं प्रविष्टः । अस्मिन्नल्पीयसि कालेऽस्मदुपाध्यायान् वा सहपाठिनो वा नाहमनॄतं कदाप्यचकथम् । अतीव लज्जालुतया परगोष्ठीं पर्यहार्यम् । मदीयपुस्तकपाठा एव मे सहायाः । घण्टावादनसमये पाठशालोपस्थानं शालाविरामे च गृहाभिमुखीभवनं-एवं हि मेऽभ्यासः । अन्यैः सह कथालापनिस्सहेन गृहं प्रति त्वरित गतिना गम्यते स्म मा कोऽपि द्रष्ट्वा मां परिहसीदिति ॥ उच्चविद्यालये मम प्रथमवर्षपरीक्षायां यत् संवृत्तं सा घटनाद्य कथनीया भवति । तदानीन्तनविद्याभ्यासपरिक्षको जैईल्सनामा समागतः । अस्मत्परीक्षणार्थं पञ्चशबसानस्माभिरलेखयत् । तेषामेकतमः 'केटल' इति पदमासीत् । तस्य लेखनेऽहं स्खलितमकार्षम् । अस्मदुपाध्यायः स्वपारदरक्षाग्रेण मत्पादमभिस्पर्श्य स्खालित्यसूचनाय महान्तं यत्नमकरोत् । तथापि तत्संविदं नाहमग्रहीषम् । मत्पार्श्वस्थितबालयकस्य फलकं निरूप्य तल्लिखितानुकारेण स्खलितं मदीयं समीकर्तव्यमित्यस्मदुपाध्यायस्याशयोऽभवत् । तदेतन्मनसो मे नास्फुरत् । अन्योन्यलिखितानुकरणस्य निवारणमेवोपाध्यायानां कर्तव्यमिति मया हि गृहीतम् । मदेकवर्जमन्ये सर्वेऽपि शब्दान्निर्दोषेण व्यलेखिषुः । अहमेक एव मूर्खः । ततः परमुपाध्यायो मम मुग्धतां दर्शयितुं प्रायतिष्ट । तेन तस्यैव वृथाश्रमो जातो न पुनर्मया लिखितानुकरणमशिक्षि ॥ अथाप्येतेनोपाध्यायं प्रति मे गौरवं नाहीयत। ज्येष्ठगतानां हि दोषाणां यदुद्भावनं तन्मे स्वभावदूरमासीत् । यद्यपि तदुपाध्यायस्येतरे दोषा मया क्रमेणोपलब्धास्तथापि तन्निष्ठभक्तिभावो मे नान्यथा पर्यवर्तत । ज्येष्ठानामाज्ञानुवर्तनमेवास्मत्कर्तव्यं न पुनस्तेषां चारित्रपरिशोधनमित्यर्थो मम ह्यदयंगतोऽभूत् ॥ एतस्मिन्नेव समये संवृत्तं घटनाद्वयमपि मे मनसि लग्नं भवति । शालापुस्तकानि मुक्त्वा पुस्तकानन्तरपठनं मम नेष्टमासीत् । उपाध्यायादाक्षेपवचनं वा मया तत्प्रतारणं वा न मे रोचते स्म । अतो मया दैनन्दिनीयपाठाः शिक्षणीया एवापतिताः । तथाप्येवं शिक्षमाणस्य मानसं सर्वदा पाठैकव्यग्रमासीदिति वक्तुं न शक्यते । एवं मयि पाठ्यपुस्तकेऽपि निरवधाने सति पुस्तकानन्तरं न हि पठ्यते स्मेति किमु वक्तव्यम् । किन्तु मम पित्रा क्रितस्थापितस्य श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि कथमपि मे द्रष्टिरपतत् । तमेनं तत्परतयाहमपाठिषम् । तत्कालमेव ग्रामाद्ग्रामं पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविनः केचिदस्मद्ग्राममुपागमन् । तत्प्रदर्शितपुत्तलिकासु यात्रामुद्दिश्य स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिरेका व्यलोकि । एतत्पुस्तकं पुत्तलिकाचेति द्वयं मिलित्वा श्रवणकथां मे मनसः कदाप्यप्रमार्जनीयामकरोत् । श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम् । श्रवणस्य मरणेन सन्तप्यमानयोस्यत्पित्रोर्विलापोऽद्यापि मे मनसि शोश्रूयत इव । मदर्थे पित्रा वितीर्णया रागमालिकया तमहमालापयम् । स रागो मे ह्रदयं व्यलीनयदिव ॥ नाटकान्तरसम्बन्धिन्यपरा तत्सदृशी घटनैका संवृत्ता । एतत्कालमेव कयापि नाटकमण्डल्या प्रयुक्तं नाटकमवलिकयितुं पितुरनुज्ञामध्यगच्छम् । तन्नाटकं हरिश्चन्द्रचरितात्मकमासीत् । तदेतल्लोचनासेचनकं मम मानसमकर्षत् । किन्त्वनुज्ञां कतिकृत्वः प्राप्य गन्तुं शक्येत । तथाप्येतन्निमित्तं व्यसनं नैव माममुञ्चत् । निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्त स्यात् । हरिश्चन्द्रेणेव सर्वैरपि कस्मात्सत्यवद्भिर्न भवितव्यम् । इत्येष प्रश्नो दिवानिशं मे मनसि पुस्फोर्यते स्म । सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभवः । इत्येष आदर्श एक एव मे मनस्याविरभूत् । हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिर्मयासीत् । सर्वस्यास्य स्मरणमनेकशो मे नेत्रोभ्यामश्रूणि निरसारयत् । कथाहरिश्चन्द्रः कश्चिद्वस्तुतो न जीवन् स्थित इत्यधुना मम लौकिकज्ञानमाख्याति । किन्तु हरिश्चन्द्रश्रवणावुभावपि मम ह्रदये नित्यसंनिहितौ स्तः । अद्यापि तन्नाटकपाठेन पूर्ववन्मे ह्रदयं विलीयत इत्यहं जाने ॥

बाल्यविवाहः[सम्पादयतु]

एतदध्यायलेखनसन्दर्भो मा सम्भवत्विति बहुतरमाशंसमानस्याप्येतद्वृत्तान्तं कथयिष्यतो मे विदितमेवेदं यदेतत्सदृशास्तिक्तगुलिका इतोऽपि भूयस्यो मया निगरीतव्याः सन्तीति । यद्यहं परमार्थेन सत्योपासकोऽस्मि तदा मे नान्या गतिः । मम त्रयोदशे वयसि संवृत्तविवाहवृत्तान्तवर्णनरूपं मनस्सन्तापकरं कर्तव्यमिदानीं प्राप्तम् । मत्पोष्यवर्गस्थितानेतद्वयस्कान्बालकान्विलोक्य मद्विवाहः स्मर्यते यदि तदाहमात्मन एव न केवलं दयनीयो भविष्यामि परन्तु परिह्रतबाल्यविवाहान्बालकान्प्रति यूयमेव भाग्यशालिन इति विवक्षा मे जायते । एवमतिबाल्ये वयसि विवाहकरणं नाम नीत्यनुरोधीति किमपि प्रमाणं नोपलभे ॥ अत्र विषये पाठक मान्यथा विदाड्कुर्वन्तु । मम यत्संवृत्तं स विवाह एव न पुनर्भाविनं विवाहं प्रति संमतिमात्रम् । काठियावाडदेशे विवाहः संमतिरिति द्वौ पृथक् संस्कारौ स्तः । संमतिर्नाम बालकबालिकयोर्मातापितृभिभाविनं विवाहं प्रति परस्परं वाग्दानम् । संमतिरियं नोल्लड्घनीयेति निर्बन्धः कोऽपि न हि । न च मृते बालके बालिकाया वैधव्यप्राप्तिः । बालिकाबालकौ न खलु तत्रे भागिनौ भवतः । बहुशस्तद्विचारोऽपि तयोरविदितो भवेत् । एष संमतिसंस्कारो मम त्रिवारं समपद्यतेति प्रतिभाति । अपि तु कदा सम्पन्न इति न जाने । मदर्थनिश्चिते द्वे बालिके कमशोऽम्रियेतामिति कथितोऽस्मि । तृतीया संमतिर्मम सप्तमे वयसि संवृत्तेति क्वचित्स्मरामि । न तावत्स्मर्यते तदिदं केनापि मे निवेदितमिति । इह लेखिष्यमाणो वृत्तान्तो मद्विवाहविषयः स तु स्पष्टतरं स्मर्यते ॥ उक्तपूर्वं खल्विमे वयं त्रयो भ्रातर इति । तत्र प्रथमः पूर्वमेवोढः । मदपेक्षाया द्वित्रवर्षज्येष्ठस्य द्वितीयभ्रातुरेकवत्सरज्येष्ठस्य मे कस्यचिद्दायादस्य मम च त्रयाणामेकदा विवाहः करणीय इति वृद्धैर्निरणायि । एवंविधप्रवृत्तेरस्मत्सुखदुःखचिन्ता वास्मदिष्टानिष्टभावना वा न हेतुरासीत् । एतेन स्वानुकूल्यं मितव्ययश्च सिध्यत इत्यभिप्रायेणैव तथा संविहितम् ॥ हिन्दुजनेषु विवाहो नाम न खलु साधारणो विषयः । विवाहेन वधूवरयोर्माता पितरोऽनेकशो निर्धना भविष्यन्ति । अस्य कृते निजस्वं नाशयन्ति । कालं वृथा क्षिपन्ति । एतदावश्यकानां वस्त्राभरणवस्तूनां सञ्जीकरणाय भोजनोपचारव्ययपट्टिकालेखनाय च मासशः कालोऽपेक्ष्यते । विविधभक्ष्याद्युपकल्पने वरपक्षीयाणां वधूपक्षीयाणां च स्पर्धा जरीजृम्भ्यते । ध्वनिमाधुर्यं तावदस्तु वा न वा स्त्रियः पुनराकण्ठशोषं गायन्ति । एतेन व्याधिसम्भवेऽपि न हि चिन्ता । प्रातिवेशिकजनानान्तु विश्रान्तिरेव नास्ति । तेऽपि तत्कलकलमुच्छिष्टकच्चरं च तूष्णीं सहन्ते । यतस्तैरपि करिष्यमाणविवाहप्रसड्गेष्वेवंविधैव प्रवृत्तिराश्रयणीया भविष्यतीति तेषां विदितम् ॥ सर्वस्यास्य क्लेशस्यैकदैव परिहारोऽस्त्वित्यस्मज्ज्येष्ठा व्यचिन्तयन् । समष्टया व्ययोऽल्पः । उत्कावस्तु महान् । त्रिः पृथग्व्ययस्थाने सकृदेव व्ययसम्भवः । ततो मुक्तहस्तेन धनं विकरीतुं श्क्यते । मम पिता ज्येष्ठपितृव्यश्च वाधक प्राप्तौ । अस्मद्विवाहा एव ताभ्यां निर्वर्तनीयेषु चरमाः। चरमाड्कः कुतो विभवोत्तरं न प्रयोक्तव्य इति तेषां मनसि विद्येत । सर्वमेतेदभिसमालोच्य विवाहत्रयमेकदा निर्वर्तनीयमिति निश्चितमभूत् । पूर्वोक्तरीत्या वैवाहिकसंविधानं कियद्भिरपि मासैः समाप्तिमगात् ॥ प्रचलद्वैवाहिककार्यविशेषैरेव विवाहो भावीत्यस्माभिरवगतम् । विवाह इत्येतेन धारणार्थे प्रशस्तवस्त्रलाभः । वाद्यतम्मटघोषः । वधूवरप्रदर्शनोत्सवः । महाभोजनसन्तर्पणन् । मया सह कीडितुमेककन्याप्राप्तिश्च । इत्येतावन्मुक्त्वा नान्यो विचारो मम मनस्यस्फुरत् । विषयसुखापेक्षा त्वनन्तरमागता । मुक्त्वा कतिचिदवश्यवर्णनीयान्विषयानेतदधिकृत्य नान्यत्किमपि लिलेखिषामि । ते च विषया अग्रे निरूपयिष्यन्ते । तेऽप्येतद्वृत्तान्तलेखने यन्मम मुख्योद्देश्यं तस्य भूयसा नोपकारका भवेयुः ॥ साग्रजं मां राजकोटात्पोरबन्दरपुरमनैषुः । सन्ति केचिच्चरमद्रश्यात्पूर्वभावितो हरिद्राचूर्णेन सर्वाड्गलेपाविका विनोदावहा विषयाः । ते पुनः सर्वे वर्णयितुं न शक्यन्ते ॥ अस्मत्पिता प्रधानसचिव इति यद्यपि सत्यं तथापि किमयं न परोपजीवी । ठाकोरप्रभोर्विश्वासपात्रतया तस्य परतन्त्रता समाधिकैवेति वक्तव्यम् । अतिप्रत्यासन्नेऽपि विवाहदिवसे ठाकोरप्रभुरस्यमत्पितरं नैवाऽमुचत् । ततो मुक्तस्यास्य दिनद्वयात्पूर्वमेव यथा प्रयाणं समाप्येत तथा मार्गयानानि पृथगस्थाप्यन्त । परन्तु किमनेन । अन्या ह्मेवासीदीश्वरेच्छा । सुदामापुरं राजकोटाद्विंशत्युत्तरैकशतपाषाणदूरे वर्तते । शकटेन पञ्चर्भिर्दिनैर्निर्वर्त्यं प्रयाणम् । तदेतत्प्रयाणमस्मत्पिता त्रिभिरेव दिनैः समापयत् । किन्तु तृतीयदिवसे यानं पर्यस्तपतितमभूत् । एतेन तस्य बहुनि क्षतान्यजायन्त । असौ सर्वाड्गबद्धपट्टकः सदनमागतः । एतेन तस्य चास्माकं चोत्साहो यद्यप्यर्थे न ह्रासमगच्छत् पितृक्षतनिमित्तं मे दुःखं वैवाहिकविनोदसंरम्भमध्ये सर्वं विस्मॄतमभूत् ॥ अहं मातापित्रोरतीव भक्तिमानासम् । किन्तु मे भोगासक्तिरासीत्ततोऽपि नाल्पीयसी । मातापित्रौ शुश्रूषमाणेन जनेन परित्यक्तनिजसुखसन्तोषेण भक्तिव्यमिति नाहमद्याप्यवेदम् । भोगासक्तस्य मे दण्डरूपेणेव संवृता काचिद्घटना मम मानसमद्यापि कृन्ततीव । एतद्वृत्तान्तस्तु पुरस्तान्निरूपयिष्यते । श्रीनिष्कुलानन्दो गायति यथा- भोगतृष्णामनिर्धूय भोग्यमात्रं विमुञ्चतः । त्यागोऽयं सर्वथा न स्याच्चिरस्थायीति निश्चयः ॥ इति ॥ अभव्यः शोचनियोऽयं वृत्तान्तो गीतिमेनां स्वयं पठतो वा गीयमानामितरैः शृपवतो वा मम ह्रदयकुहरं प्रविश्य तत्स्मारणेन मामवनतमुखं करोति ॥ व्रणपीडितोऽपि मे पिता वेदनां बहिरप्रकटयन् विवाहं साड्गं निरवाहयत् । विवाहे स्मर्यमाणे तत्तद्विधिकर्माणि यत्र स्थलेष्वनुष्ठीयन्ते स्मेत्यद्यापि मे मनश्चक्षुषः पुरस्ताच्चित्रयितुं शक्रोमि । निष्पन्नबाल्यविवाहहेतोः कदाचित्पितरं निष्ठुरखण्डनस्य विषयीकरिष्यामीति न हि स्वप्नेऽपि मया व्यचिन्ति । तदानीं सम्भवन्तोऽर्थाः सर्वेऽपि सुसड्गता लोकसिद्धाः सुखदायकश्चेति प्रत्यभासन्त । किं च ममाप्यासीत्परिणयनकुतूहलम् । अस्मत्पित्रानुष्ठितस्य सर्वस्यापि निर्दोषत्वेन मया गृहीतत्वात्सर्वमिदानीं स्पष्टमेव स्मर्यते । यथावाभ्यां विवाहवेदिकायामुपविषिटं यथावाभ्यां सप्तपदी रचिता यथा नवोढाभ्यामावाभ्यां कंसाराख्यमधुर गोधूमभक्ष्यविशेषोऽन्योन्ययोर्मुखे विन्यासि यथा चावाभ्यां सहावस्थानमारब्धं तथा सर्वमेतदिदनीमपि मे मनसि चित्रयितुं शक्नोमि । अहो सा प्रथमा रात्रिर्यस्यामत्यन्तमुग्धापत्ययोरायति परिज्ञानशून्ययोर्द्वयोरावयोः सहसा संसारसागरे निपातः समजनि । प्रथमरात्रौ यथा वर्तितव्यमिति प्रजावत्या सम्यगुपदिष्टोऽभवम् । मम भार्या तु केनोपदिष्टेति न जाने । मया सा न तत् पृष्टा । न चाद्य मे तस्य जिज्ञासा । आदावन्योन्यमुखदर्शनेऽप्यधीरा बभूवेति पाठकैर्निस्संशयं विज्ञायेत । लज्जा हि प्रबला स्थिता । कथमहं तया सम्भाषेय । किं वा सम्भाषितव्यम् । अस्मत्प्रजावत्या यदुपदिष्टं तेन नातिदूरमाकृष्टोऽभवम् । किन्त्वेवविधप्रसड्गेषु परोपदेशो नावश्यकः । प्राग्जन्मवासना प्राबल्यादैहिकशिक्षणसापेक्षता नास्त्येव । शनैः शनैन्योन्यसंस्तवो जातः । परस्परमालपितुं प्रावर्तावहि । उभावपि समानवयसावभूव । तथापि पत्यधिकारवहने न मया कृतो विलम्बः । वृत्तान्तोऽयमुत्तराध्याये वर्णयिष्यते ॥

चौर्यं । तस्य प्रायश्चित्तम्[सम्पादयतु]

मांसाशनकालिकानाम् तत्पूर्वकालिकानां च मम केषांचिद्दुरभ्यासानामुपवर्णनमवशिष्ट भवति । ते च मद्विवाहप्राक्क लिका वा विवाहोत्तरकालीनकतिपयदिनान्तर्भाविनो वा भवन्ति ॥ मम च मम बन्धोरेकस्य च कदाचिद्धूमवर्ति सेवनोपेक्षा जाता । अस्मिन्निकटे पणस्तु नासीत् । तत् सेवने किमपि प्रयोजनमस्तीति नावामजीगणाव । न च वा तत्परिमलोऽस्मदीयं मनः समाकर्षति स्म । किन्तु मुखाद्धूममोक्षे कोऽप्यानन्दविशेषोऽनुभूयत इत्यमंस्वहि । अस्मत्कनिष्ठपितृव्यः पूर्वमेव तदभ्यासी । तत्प्रभृतिभिर्जनैः सेव्यमानं धूमपानमवलोकमानयोरावयोरपि तत्सिसेविषा समजनि । किंत्वस्मदीयकञ्चुककोशे पणाभावात्पितृव्येन सेवितमुक्तानि वर्तिशकलानि गुप्तमेवोच्चित्य ग्रहितुं प्रावर्तावहि ॥ किन्त्वेतानि शकलानि सर्वदा न लभ्यन्ते स्म । न हि तेभ्यः प्रकामं धूमोऽपि निरसरत् । तस्माद्गृहभृत्यस्य कञ्चुककोशान्मुषितलब्धाभिः पञ्चषकाकिणीभिर्धूमवर्तीः कीत्वा सम्पादयितुमारप्स्वहि । परं त्वेता वर्तयः कुत्र निगूहितव्याः । ज्येष्ठसमक्षं तु तत्सेवनमशक्यमेव । एवं चोर्यमाणद्रव्येण कथंचित्कतिपथदिवसान्निरवाहयाव । एतन्मध्ये कस्यचिद्वृक्षविशेषस्य रिक्तकनालानि धूमवर्तिपानोपयोज्यानि भवन्तीत्यश्रौष्व । ततस्तान्येवानीय सेवितुमुपाक्तमावहि । किन्त्वेतदावयोर्न परितोषमजनयत् । अस्मत्पारतन्त्र्यमावां तुदति स्म । ज्येष्ठानुज्ञां विना न किञ्चिदनुष्ठातव्यमिति निर्बनधो दुस्सहोऽभवत् । पर्यन्ते परमजुगुप्सया स्वात्महत्यां विधातुं निश्चयमकार्ष्व । किन्तु कथमिदं साधयितव्यम् । विषं कुतः सम्पादनीयम् । धातुरबीजभक्षणं प्राणहरमिति पूर्वमावाभ्यां श्रुतमासीत् । वनं गत्वा तद्वीजमानैष्व । सायं प्रतीक्ष्य केदारेश्वरदेवालयं गत्वा देवाग्रस्थितदीपे घृतं दत्वा निष्पन्नदेवतादर्शनौ किंचिद्विविक्तस्थानमगाव । परं तु विषप्राशनाय न धैर्यमागतम् । सद्यः प्राणानामनपगमे का गतिः । आत्महत्यया वा तावत्को हि लाभः । पराधीनतापि कस्मान्न सोढव्या । अथापि त्रिचतुरबीजानि गिलितानि । ततोऽप्यधिकमक्षणाय न धैर्यमलप्स्वहि । उभावपि मरणपराङ्मुखावभूव । श्रीरामदेवालयं गत्वा देवदर्शनं प्राप्य शान्तचित्ताभ्यामात्महत्याप्रसड्गो विस्मर्तव्य इति निरणायि ॥ आत्महत्यासड्कल्पस्तावत्सुकरः । परं तत्साधनं दुष्करमित्यनुभवाद्विदितमभूत् । तदाप्रभृत्यात्महत्यासड्कल्पघोषणेन यः कोऽपि मां भीषयति चेत्तदहं नैवाद्रिये ॥ एवंविधप्रयत्नस्य फलितांशस्तु धूमवर्तिशकलसेवनाभ्यासस्य भृत्यकञ्चुकाद्द्रव्यमोषणप्रसड्गस्य चात्यन्तिकः परित्यागः ॥ प्राप्तवयसो मम धूमपानेच्छा न कदापि जाता । अपि चाभ्यसोऽयमनागरिकश्च मलीमसश्चानर्थप्रदश्चेति सदा प्रत्येमि । लोके सर्वत्राप्यस्मिन्नभ्यासे कुतो हि जनानां तत्तादृश्यासक्तिरित्यद्यापि मया नावगतम् । धूमवर्तिसेविभिर्जनैः सम्बाधायां धूमशकट्यां प्रयाणं मे दुष्करम् । तद्धूमेन मम श्वासः प्रतिबद्धो भवति ॥ इतो दिनकतिपयात्परं यच्चौर्यमकारि तत्खलु पूर्वतनमप्यत्यशेत । काकिणीचौर्यकालेऽहं द्वादशत्रयोदशवर्षदेशीयोऽभवम् । ततोऽपि न्यूनवया वा । द्वितियचौर्यकालेऽहं पञ्चदशाब्दवयस्कः । मांसाहारिण पूर्वोक्तमदग्रजस्य हस्तगतसुवर्णकटकात् खण्डमेकमहमचोरयम् । अयमग्रजः कस्मैचिज्जनाय पञ्चविंशतिरूप्यकानधारयत् । सौवर्णं घनकटकं तदीयहस्तगतमासीत् । ततः शकलमेकमुत्पाट्य स्वीकरणं नाम नाभूद्दुष्कारो व्यापारः ॥ अथ कृतं तदुत्पाटनम् ऋणं च निर्यातितम् । परं त्वेतदकृत्याचरणं मम दुस्सहं जातम् । इतः परं नैव चौर्यं करिष्य इति निश्चयमकरवम् । अपि च पितुरग्रे स्वापराधमड्गीकरिष्यामीति मतिमकरवम् । किन्तु तत्समक्षं वक्तुमधीरोऽभवम् । न तावत्स मां ताडयिष्यतीति भयादपि तु तस्य दुःखप्रदो माभूवमिति । अस्मन्मध्ये कमपि तेन ताडितं न हि स्मरामि । पर्यन्ते च यद्भवतु सर्वथा तं विदितार्थं करिष्यामीति निर्धारितवान् । अन्यथा तु स्वदिषस्यानड्गीकारे नान्तःशुद्धिर्भवितेति मया व्यचिन्ति ॥

मदपराधवृत्तान्तमखिलमेकस्मिन् पत्रे विलिख्य तत्तस्मै प्रदाय क्षमाभ्यर्थनीयेत्यवधार्य तथा च लिखितपत्रखण्डं तस्य हस्ते न्यधाम् । तत्र न केवलं स्वापराधाभ्युपगतिरुपन्यस्ता परं स्वस्मिन्दण्डपातनमपि प्रार्थितमभूत् । अपि चास्य कॄते भवता विषादो न कर्तव्य इत्यभ्यर्थ्य न पुनरेवमपरात्स्यामीति प्रतिज्ञाक्षरमप्यलेखि ॥ जनकाय पत्रिकां ददानस्य मम शरीरं कम्पते स्म । तत्कालमसौ भगन्दरव्याधिना सन्तप्यमानः शयनपतितोऽभवत् । तदानीं तु फलकमेकध्यशेत । पत्रं समर्प्य तदग्रेऽहमुपाविशम् ॥ स च पत्रमवाचयत् । नयनाभ्यां मुक्ताफलसन्निभा अश्रुबिन्दवो निःसृत्य पत्रमार्द्रीकुर्वेन्ति स्म । कंचित्कालं पर्याकुलीभूय चक्षुषी न्यमीलयत् । तदनु पत्रमुत्पाट्य प्राक्षिपत् । अथोत्त्थाय पठितुमुपविष्टः क्षणात्पुनः शयनमभजत । अहमप्यरुदम् । पितुः सड्कटं तु प्रत्यक्षमालक्ष्यते स्म । यद्यहं चित्रकरोऽभविष्यं तदा तत्कालीनदृश्यमचित्रयिष्यम् । तञ्चित्रमद्यापि मे मनश्चक्षुषः स्पष्टतरं भासतो ॥ तेऽमी मुक्ताबिन्दवो मम ह्रदयकालुष्यं निरसारयन् । तत्प्रेमबाणो मम पापानि निरभिनत् । स च प्रेमा स्वानुभवैकवेद्यः । तथा हि प्रेमबाणाविषयीभवन्नर स्तस्य तीक्ष्णगतिविन्न चापरः ॥ इत्याहुः ॥ अयमेव ममाहिंसावस्तुपाठः संवृत्तः । तस्मिंन्किलावसरे पितुः प्रेमैकमन्तरा न किंचिदपरं भासते स्म । अद्य हि सैष शुद्धाहिंसाप्रयोग इत्यवगच्छामि । सेयमहिंसा विश्वव्यापिनी कस्य वा शीलं न परिवर्तयेत् । अपरिमेयः खलु तस्याः प्रभावः ॥ ईदृक्षशान्तिमयी महनीया क्षमा मम पितुर्निसर्गसिद्धा नाभवत् । मया हि चिन्तितं यदसौ सललाटघातं क्रोधेन मां शप्स्यतीति । परन्त्वयमगाधशान्तिरसपरिप्लुतोऽभवत् । इदं हि विशुद्धान्तःकरणेन मया स्वापरधाड्गीकरणस्य फलमिति तर्कयामि । इदं हि मन्ये कृतापराधस्य शुद्धतमं प्रायश्चित्तं यत् क्षमितुरग्रे स्वापराधातां प्रकटमड्गीकृत्य पुनस्तदकरणे प्रतिज्ञानं नाम । जानेऽहमेवंविधया मम प्रवृत्त्या पिता निःशड्कः समजनीती । मद्विषयिणी च तत्प्रीतिरमेवा पर्यवर्धतेति ॥

दक्षिणाफ़्रिकाप्रस्थानसज्जीकरणम्[सम्पादयतु]

मया तदाधिकार्युपसर्पणं सर्वथा दोष एव । परन्तु तदीयाग्रहक्रोधगर्वानपेक्ष्य मदीयोऽपराध स्तावदत्यल्प आसीत् । न खल्वयं बहिर्निष्कालनमार्हित् । पञ्चनिमिषाधिकः कालस्तदीयो मया न क्षपितः । तथापि मद्वचनोपन्यास एव तस्य दुस्सहोऽभवत् । गम्यतामिति सभ्यरीत्या वक्तव्यमुचितमासीत् । किन्तु तस्याधिकारदर्पोऽत्यारूढ स्थितः । क्षमायास्तस्मिन्नामापि न श्रूयते स्मेति पश्चादवगतोऽस्मि । स्वपार्श्चमुपागतानां यदवहेलनं तत्किल तस्य साधारणो विषयः । अणुमात्रविपर्यणाप्यसौ रोषेण ज्वलति स्म ॥ प्रायेण मम कार्याणां भूयिष्ठोंऽशस्तदीयन्यायसभायामेव परीक्षणीयोऽभवत् । न्यायतस्तस्याधिकारिणः समाधामकरणं ममाशक्यमासीत् । तस्य प्रसादनाय नीचैः प्रह्वताश्रयणं न मेऽभिमतमासीत् । किं बहुना । व्यवहारेण त्वामभियोक्ष्य इति प्रथममेनं भीषयित्वा पश्चात्तष्णीमासिका न मे समञ्जसा प्रत्यभासीत् ॥ अत्रान्तरे तत्रत्यराजकीयप्रपञ्चस्य कार्यगतिविशेषाणामनुभवो मया बहुशः समपादि । काठियावाडदेशस्य प्रायेणाल्पाल्पराज्यभूयिष्ठतया स्वभावादेव तत्र राजनीतिकुशलैर्भूयोभिर्भवितव्यम् । संस्थानानां मध्ये परस्परं कूटनीतिप्रचारः सेवकजनानामप्यधिकारप्रेप्सयान्योन्य द्रोहचिन्तनमित्येतत्तदानीं सुप्रचरितमासीत् । राजानश्च मधुरवाचां कर्णेजपानां वचनमाकर्ण्य पराधीनप्रवृत्तयोऽभवन् । मुख्याधिकारिणः प्रागलभ्यतः स्वामिनप्यशेत । यतः स एव निजस्वामिनश्चक्षुः । स एव तस्य श्रोत्रम् । स एव तस्य मुखम् । तस्येच्छैव सर्वनियामिका । तस्य द्रव्यादायः स्वामिनो द्रव्यायतेरप्यधिकतरः । नन्वत्र कचिदतिशयोक्तिः स्यात् परन्तु तस्य वेतनादप्यधिक आसीत्तदीयव्यय इत्यत्र न कोऽपि सन्देहः । वातावरणमिदं विषयमलक्ष्य । एतदीयसम्स्पर्शं कथं वा परिहरेयमित्येषैव मे सार्वदिकी चिन्ताभवत् ॥ एतेनाहं परं खेदभवापम् । इदं ममाग्रजोऽलक्षयत् । यत्र काप्युद्योगलाभे तदड्गीकरणेन मयादितः प्रपञ्चाद्विमुक्तिः स्यादित्युभावचिन्तयाव । किन्तूपप्रदानं विना प्रधानसाचिव्यं वा न्यायाधीशपदं वा कथं लभ्येत । मुख्याधिकारिणा सह कलहप्रसड्गान्मम व्यवहारेषु हानिरुदपद्यत ॥ तदानीं पोरबन्दरसंस्थानमाड्ग्लसाम्राज्येन नियमितस्याधिकारिणाः शासने स्थितम् । तत्रत्यराणाप्रभोरधिकारवृद्वये मया प्रयत्नः करणीय आपतितः । मेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिकः करो गृह्यते स्म । अस्मिन्विषयेऽपि मया (अडमिनिस्ट्रेटर इत्येतदाख्यः) शास्तिकर्ता द्रष्टव्योऽभवत् । सोऽधिकारी देशीयोप्याड्गलाधिकारीणं दर्पतोऽतिशयान इवालक्ष्यत । स च स्वकार्ये विचक्षणः परन्तु तदीयकार्यकौशलात् कृषिकाणां न कोऽपि लाभः समजनि । राणाप्रभोरधिकारस्य कचिद्वृद्धिप्रापणे मम प्रयत्नः सफलोऽभवत् । किन्तु कर्षकसार्थस्य भारो न लघूकृतः । तदीयकष्टविचारो यथावदधिकारिणा न पर्यशोधीति मन्ये ॥ एवं च प्रसक्तविषये श्रमानुरूपं फलं मया न लब्धम् । मदीयकार्यिणां च न्यायलाभो नासिध्यत् । तदर्थे न्यायसम्पादनाय यक्तिमपि साधनं मयि नासीत् । बहुकृत्य 'पोलिटिकलएजेण्ट' इत्येतदाख्यराजकीयप्रतिनिधेर्वा 'गवर्नर' इत्येतदाख्यराजप्रतिनिधेर्वा सन्निधाने प्रार्थनापत्रं समर्पणीय मासीत् । एवं कृतेऽपि 'वयमत्र प्रस्तावे न हि प्रवेक्ष्यावः’ इति तेनाधिकारिणा विलिख्य प्रार्थनापत्रं निरकासयिष्यत । एवंविधार्थनिर्णयः कमपि शासननियमं प्रमाणीकृत्य यदि कियते तदा स साधुरेव स्यात् । परन्त्वत्र तस्याधिकारेणः स्वेच्छैव नियमिकाभवत् । ततो विनष्टक्षान्तिरहं संवृत्तः ॥ अत्रान्तरे पोरबन्दरवर्ती वणिक्‌सार्थ एको मदग्रजस्य पत्रमेवं व्यलिखत् “ वयं दक्षिणाफ़्रिकादेशे वाणिज्यकर्तारः । अस्मदीयो व्यापारः परमूर्जितो भवति । तत्रास्माकमेको महाव्यवहारः प्रवर्तते । चत्वारिंशत्सहस्त्रसुवर्णमुद्रासाध्यकोऽयं व्यवहारस्तत्रत्य न्यायसभायां प्रवेशितोऽस्माभि ः । स च बहुभिर्दिनैः प्रचलति । परमघटका न्यायवादिनो ब्यारिस्टजनाश्च तदर्थेऽस्माभिः स्थापिता भवन्ति । भवदीयमनुजं यदि भवन्तः प्रेषयेयुस्तदा नस्तेन बहू पकृतं स्यात् । सोऽप्यानुकूल्यमाप्स्यति । स खल्यस्मदपेक्षया व्यवहारसम्बद्धान्विषयानस्मदीयन्यायवादिभ्यः स्पष्टतरं व्याख्यायात् । किं चास्य नवीनदेशदर्शनं च सेत्स्यति नूतनपरिचयश्च सम्पत्यत इति ॥ अस्य कृते मदग्रजो मया साकममन्त्रयत । प्रस्तुतोऽर्थो न हि मया स्पष्टमबोधि । व्यवहारमधिकृत्य न्यायवादिषु विषयनिरूपणमात्रं मया कर्तव्यमुताहो न्यायसभापि मयोपस्थातव्येत्यहं नाज्ञासिषम् । तथापि गमनोत्साहो मामग्रहीत् ॥ 'दादा’ अबदुल्ला-वाणिज्यशालाव्यस्थापकानामेकतमं शेठ-अबदुल-करीम-झवेरीमहाशयं मदग्रजो मां पर्यचाययत् । स च श्रेष्ठी मह्यामित्थं न्यवेदयद्यथा- भवद्भिस्तावदतिश्रमो न वोढव्यो भवति । सन्ति नः सुह्रदो महान्त ऎरोप्यजनाः । तै सहापि परिचयो वः सम्पत्स्यते । अस्मद्विपणिकार्येऽपि साहाय्यं कर्तुं भगतामवकाशो भविष्यति । अस्मदीयलेख्यपत्राणां भूयिष्ठो भाग आड्ग्लभाषामयो वर्तते । तत्सम्बद्धकार्येष्वस्माकं भवद्भिरुप कर्तुं शक्यते । युष्मन्निवासास्मदीयहर्म्यान्तर एव वसतिः परिकल्प्यते । तस्माद्वसतिनिमित्तव्ययभारो युष्यदुपरि न पतिष्यतीति ॥ अथाहमपृच्छम् - ‘ कियन्ति दिनानि मया वः सेवा कर्तव्या । कियद्वेतनं मे प्रदीयत इति ।’ "समयस्तावदेकवत्सरं नातिवर्तेत । युष्मदीयगतागतस्य प्रथमश्रेणीभाटिका प्रदीयते । किञ्च भोजनोपहारव्ययेन सह पञ्चोत्तरशतं सुवर्णमुद्राश्च प्रदीयन्ते” । तदेतदुद्दिष्टं मदीयगमनं न खलु न्यायवादिकार्यार्थमिति वक्तुं शक्येत । तद्धि केवलं तदीयविपण्यां भृत्यत्वस्वीकारार्थमेवेति स्पष्टम् । परं तु यथा कथा वा हिन्दुस्थानाद्बहिर्गन्तुमिच्छा मां नुदति स्म । गमनान्न केवलं नवीनदेशदर्शनं नवनवानुभवश्च सिध्यतः परन्तु भदग्रजस्य कुटुम्बव्यपार्थे पञ्चोत्तरशतं सुवर्णमुद्राः प्रेषयितुं शक्यं भविष्यति । तस्मात्किञ्चिदप्यविब्रुवंस्तदुक्तवेतनेन तदीयकार्यमनुष्ठातुं प्रतिपद्य दक्षिणाफ्रिकादेशं प्रति प्रस्थातुं सज्जोऽभवम् ॥

स्वदेशयात्रा[सम्पादयतु]

प्रायः षण्णवत्युत्तराष्टशताधिकैकसहस्त्रतमस्य कैस्तशताब्दस्य मध्यभागे 'पोंगोला’ नाम-कनौकायानेन स्वदेशं प्रति प्रयाणमड़्‌गीकृतवान् । एषा तरणिः कलकत्तानगरगामिन्यासीत् ॥ अस्यां नौकायां केचिदेव पान्था अविद्यन्त । तेषामांग्लाधिकारिणौ द्वावास्ताम् । ममैताभ्यामधिकपरिचयो जातः । अनयोरेकेन सह चहुरंगक्रीडया प्रत्यहमेकहोराकालमत्यवाहयम् । नौकायां वैद्यमहाशयो मे द्राविडभाषास्वयंबोधिनीमदात् । तत्पुस्तकेन तालिमभाषां शिक्षितुमुपाकमे । मुसलमानजनैर्निकटसम्बन्धाधिगमायोर्दूभाषाशिक्षणं तथा च मद्रासप्रदेशवर्तिनां भारतीयानां स्नेहसंपादनाय तामिलभाषाशिक्षणं चावश्यकमिति नातालदेशे मदनुभवाद्विदितमासीत् ॥ उर्दूभाषां मया सह शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधितः सन्नौकाबाह्यशालामध्युषितेषु पथिकेषूर्दूमहापण्डितमेकमन्विष्याग्रहीषम् । आवयोरध्ययनव्यासड्गः सम्यगेव प्राचलत् । अधिकारी मदपेक्षया प्रकृष्टतरमेधाशक्तिमानभूत् । सकृदवलोकनादसौ नैकमप्युर्दूशब्दं व्यस्मरत् । मम तावदक्षरपाठ एवानेकशः क्लिष्टतरोऽलक्ष्यत । तदपेक्षया भूयः प्रयस्यन्नपि नाहं तत्समान कोटिमारोदुमशकम् ॥ द्राविडभाषाभ्यासो मे प्रचलित स्म । अभ्यासेऽस्मिन्न किमपि साहाय्यं मयालभ्यत । किन्तु मन्निकटस्थिता 'तामिलस्वयंबोधिनी’ समीचीनं पुस्तकमासीत् । अतः साहाय्यान्तरं नात्यन्तमावश्यकमासीत् ॥ अथेदानीं पाठकाः पोंगोलाख्यनौकाप्रवहणस्य मुख्याधिकारिणः परिचय कारयितव्याः । आवयोर्मैत्री परस्परं समवर्धत । आसीदयं प्लीमथभ्रातृसंप्रदायानुवर्ती । अस्मदीयकथालापविषयस्तु न तावज्जलयानविद्याज्ञानं यावदाध्यात्मिको विचारः । स किल नीतिधर्मश्रद्धयोर्भेदं प्रत्यपादयत् । तदीयद्रष्टया कैस्तवेदोपदेशो लेशतोऽपि क्लिष्टवाड़्‌म्यो नाभूत् । तस्य सौन्दर्यं नाम तद्गता सरलता आबालस्त्रीपुरुषमखिलजनैरापि कैस्ते तन्महाबलिदाने च यदि विश्वासः कियते नूनं तर्हि तत्पापानां परिहारो भविष्यतीति कथयति स्म । तमेनमनुचिन्तयतो मम प्रिटोरियाभ्रातरः स्मरणमागताः। नीतिनियमोपेताः सर्वेऽपि धर्मास्तस्य नीरसा अभूवन् ॥ अस्याः सर्वस्या अपि धर्मचर्चाया मदीयशाकाहारित्वमेव हेतुरासीत् । कुतो मांसं भवता न भक्षणीयम्। गोमांसमक्षणे को दोषः । यथा सस्यवृक्षादयः फलमूलादयश्च मनुष्योपभोगायैत्र देवेन निर्मितास्यथापि ननु हिनाजातयः सर्वेऽपि प्राणिनो मनुष्यजातेरुपभोगायैव सृष्टोः । एवंविधा प्रश्नमाला आध्यात्मिकवार्ताप्रवेशमपरिहार्यमकरोत् ॥ आवयोरभिय्रायसांगत्यं नैवासिध्यत् । धर्मनीत्योर्नास्ति पारमार्थिको भेद इत्यभिप्रायो मयि दाढर्चमापद्यत । किन्तु मुख्याधिकारी तद्विरुद्धं निजाभिप्रायमेव निःसंशयेन संगतममन्यत ॥ गतेषु चतुर्विंशतिदिनेषु प्रमोदावहमिदं समुद्रयानं समाप्तिमगमत् । हुगलीनदीसौन्दर्यावलोकनेनान्दमनुभवन् कलकत्तानगरे नौकायानादवतीर्य तस्मिन्नेव दिने धूमशकट्या मोहमयीनगरं प्रायासिषम् ॥

वर्णद्वेषः[सम्पादयतु]

न्यायाधिदेवतामविषमतुलाधरीं निष्पक्षपातिनीमन्धामपि कुशलां वृद्ववनितां सांप्रदायिका - श्चित्रयन्ति । न खलु मनुष्याणां मुखदर्शनेन परन्तु पारमार्थिकयोग्यतानुगुण्येन न्यायनिर्णयो देव इति बोधयितुमेव दैवेन सा द्रष्टिविधुरा न्यधायि । नातालदेशस्य न्यायवादिसभा यथा तत्प्रत्यन्यायस्थानमेतत्तत्प्रतिकूलमाचरेत्तथा कारयितुं प्रवृत्ता ॥ तस्मिन्न्यायस्थाने मया न्यायवादित्वेन प्रवेशो लिप्सितः मन्निकटे मोहमयीनगरस्योच्च न्यायस्थानेन प्रदत्तं प्रमाणपत्रं स्थितम् । तत्र न्यायवादित्वेन प्रवेशावसरे विदेशलब्धं प्रमाण पत्रमर्पणीयमासीत् । नातालदेशे न्यायसभां प्रविविक्षुणा प्रार्थनापत्रेण सह चारित्रप्रशंसापत्रद्वय मवश्यमेव प्रेषयितव्यमासीत् । तदेतदैरोप्यजनप्रदत्तं चेत् प्रशस्यतरमित्यालोच्य शेठअबदुल्ला महाशयद्वारा कृतपरिचयाभ्यामैरोप्यजनाभ्यां प्रमाणपत्रं समपादयम् । प्रार्थनापत्रं च केनापि न्यायवादिना मदर्थे समुपस्थापनीयमासीत् । प्रायशः प्रार्थनापत्राण्येवंविधानि राजकीयमहान्यायवादिनैव (अटर्नी जनरल) विनार्थग्रहणं समर्प्यन्ते स्म । एस्कूंबमहाशयस्तदानीं तत्पदामध्यास्त । स किल दादा- अबदुल्ला-कंपनीपक्षेऽपि न्यायवाद्यभूत् । स एष मया द्रष्टः। सोऽपि मम प्रार्थना पत्रिकां समर्पयिष्यामीति हर्षुलः प्रतिज्ञातवान् ॥ अतान्तरे न्यायवादित्येन मम प्रवेशं प्रत्यवतिष्ठमानन्यायदिसभायाः सकाशात्सूचना पत्रमेकमागतम् । प्रत्यवस्थानहेतुश्च मम प्रार्थनापत्रेण सहाड्ग्लविदेशीयलब्धं प्रमाणपत्रं न प्राहायीति । किन्तु प्रधानहेतुरन्योऽभूत् पुरा खलु न्यायवादिप्रवेशनियामकशासनस्य निर्माणाकाले कृष्णवर्णा वा हरिद्रवर्णा वा मनुष्या न्यायवादित्वाड्गीकाराय प्रार्थनापत्राण्येवं समर्पयेरन्निति केनापि स्वप्नेपि न चिन्तितम् । नातालदेशो हि श्चेवजनानां साहसेनैवाभिवृद्धि भागतः । अतस्तत्रत्यन्यायसभाषु प्राधान्यमैरोप्याणामेव रक्षणीयम् । कृष्णवर्णेषु प्रवेशितेषु शनैः शनैराड्ग्लेयानां प्राधान्यमल्पीभूय स्वात्मरक्षापि तेषां दुष्कार स्यात् ॥ एतदर्थं न्यायवादिसभया कश्चित्प्रख्यातन्यायवादी नियुक्तः । स च दादा-अबदुल्ला-कम्पनीजनैः कार्यवान् । तस्मादयमबदुल्लाशेठमहाशयद्वारा मामाकार्य प्रस्तुतार्थमधिकृत्य मया सह निर्व्याजस्पष्टमभाषत । तस्मै मदीयपूर्वचरित्रजिज्ञासवे सर्वं न्यवेदयम् । अथ सोऽब्रवीत् - भवत्प्रतिकूलतया वक्तव्यं किमपि नास्ति । अत्रैव लब्धजन्मनां धूर्तानामेकतमैर्भवद्भिर्भवितव्यमिति मे शड्का । किं च भवता प्रार्थनापत्रस्य मूलप्रमाणपत्रराहित्यात् स संशयो बलवत्तरोऽभूत । अन्यदीयप्रमाणपत्रयोजका जना न किलात्र द्रश्यन्ते । ऎरोप्यजनसकाशादानी तप्रशंसापत्रद्वयहमकिंचित्करं मन्ये । भवद्विषयमेतौ किं वा विधाताम् । तयोर्भवत्परिचयोऽपि कीद्रयो व स्यादिति ॥ अहमवोचम् - अत्र सर्वेऽपि मम नूतना एव। अबदुल्लाशेठमहाशयस्य परिचयोऽपि मे प्रथमं जात इति । तेन पुनः कथितम् - उक्तपूर्वं हि भवद्भिः यदबल्लाशेठमहाशयो भवन्तश्चैकस्थलादागता इति । तत्र भवत्पितरि प्रधानसचिवे सति नूनमबदुल्लाशेठमहाशयेन युष्मत्कुटुम्बपरिचयवतैव भाव्यम् । तत्सकाशाद्भवद्भिः प्रशंसापत्रमानीयते यदि न मे किंचित्प्रतिबंधकं तिष्ठेत् । अथाहमपि भवत्प्रवेशं प्रतिरोद्धुं न शक्नुयामिति न्यायवादिसभां प्रति सप्रमोदं लिखेयमिति ॥ अहमेतदाकर्ण्य क्रोधमूर्च्छितोऽभवम् । परन्तु मया निगृहीतः स कोपः । अथाहमात्मन्येवाचिन्तयम् । अबदुल्लाशेठमहाशयादेव यद्यपि प्रशंसापत्रमानेष्यत तथाप्यांग्लमहापुरुषात्पत्रमेतदा नेतव्यमित्यवदिष्यन् । मदीयन्यायवादित्वांगीकारस्य मदीयजन्मचरित्रयोश्च कः संबन्धः । दारिद्र्याद्वा दुश्चरित्राद्वा लब्धजन्मा भवत्वयं जनः । तदेतत्कथमप्रतिकूलतया प्रयुज्यत इति । किन्तु सर्वमेतन्निगीर्य प्रत्यवोचम् - यद्यप्येनमर्य्थविस्तरं न्यायवादिसभा जिज्ञासितुमधिकारिणीति नाहमड्गीकरोमि तथापि भवदपेक्षानुसारेण प्रशंसापत्रमेकं अबदुल्लाशेठमहाशयादानेतुं सज्जोऽस्मि स्थित इति ॥ अथाबदुल्लाशेठप्रदत्तं प्रमाणपत्रं तस्मै न्यायवादिने प्रादायि । तेन चाड्गीकृतम् । परंत्वे तन्न्यायवादिसभायै नारोचत । तत्सदस्या मम प्रवेशयोग्यतां प्रति प्रत्यवातिष्ठन्त । प्राड्विवाकश्च श्रीएस्कूंबमहाशयस्य प्रत्युत्तरमशुश्रूषुरेव प्रार्थनापत्रं निरकासयत् ॥ ततः प्रधानप्राड्विवाकेनेत्थमभ्यधायि । प्रार्थयिता मूलप्रमाणपत्रं नोपस्थापितवानिति फल्गुरयं वादः । यद्यनेन प्रेषितं प्रमाणपत्रं मृषात्मकं स्यात् तदासौ व्यवहारेणाभियुक्तः सन्निर्णीतस्वापराधश्चेत् न्यायदिवर्गान्निष्कासनमर्हति । धर्मतः परीक्ष्यमाणे कृष्णो जनः श्वेतो जन इति भेदो न ग्राह्यः । न्यायवादित्वेन श्रीगांधेः प्रवेशं निरोद्धुं न्यायसभा नाधिकारिणी । तस्य प्रार्थना पत्रमड्गीकियतेऽस्माभिः । गांधिमहाशय क्रियतामद्यप्रमाणवचनव्याहार इति ॥ ततोऽहमुत्थाय 'रजिस्ट्रार' इति व्यपदिश्यमानं न्यायाधिकरणकार्यदर्शिनमुपसृत्य प्रमाणवचनोच्चारमकार्षम् । अवसितेऽस्मिन्कर्मणि न्यायाधीशो मामाहूय प्राह-भवतः शिरो-वेष्टनमिदानीमपनीयताम् । न्यायदिमिर्धार्यवेषसंबन्धिनो नियमा भवताप्यनुवर्तनीया इति ॥ अथ मया निरूपिता तादात्विकी मदीयपरिस्थितिः । डरबननगरस्य न्यायसभायां यदेव शिरोवेष्टनं नापनेष्यामीति बद्धाग्रहोऽभवं तदेवात्राहमपनीतवान् । नैवापनेष्य इत्यभिनिवेशबंधस्यात्रापि न किल कारणानि नाविद्यन्त । किंत्वेतदपेक्षया महत्तरायोधनमुमुद्यमाय मामकी शक्ती रक्षितव्याभवत् । शिरोवेष्टनधारणाभिनिवेशमात्रे न खलु युद्धाभियोगकुशलता व्ययीकर्तव्या । तत्कौशलप्रयोगाय प्रशस्यतारः समयः प्रतीक्षणीयः ॥ एवंविधा मदनुमतिः (मदीयनिर्बलता वा) अबदुल्लाशेठप्रभृतिमित्राणामनभिमताभवत् । न्यायवादिना मया शिरोवेष्टनधारणाधिकारो न परित्याञ्य इति तेऽमन्यन्त । अहमेतान्बोधयितुं प्रवृत्तः देशानुरूपरिधानमावश्यकमिति तेभ्यो न्यवेदयम् । पुनरप्येतानवोचम्-हिन्दु-प्रत्यवस्थातव्यम् । किन्तु नातालसद्रशविदेशवर्तिनीन्यायसभाकृत्यकारिणो मम न्यायसभासंप्रदायविरूद्धमाचरणं न खल्वनुमोदनीयमित्यादिसयुक्तिकवादैः मदीयमित्राण्यहं समादधि । किन्तु विषयस्तावदेकोऽपि संदर्भभेदात् मिन्नद्रष्टयावेक्षणीय इति यत्तत्त्वं तदत्र प्रसंगेऽप्युपयोक्तव्य मित्युपदेशो मदीयस्तेषां ह्रढयंगमोऽभूदिति वक्तुं न शक्यते । अन्याभिप्राये सहिष्णुतामूलं यत्सुखं तन्मदीयजीवने सत्यानुवर्तिनो मम सम्यग्यिदितमभूत् । तदेवत्तत्त्व सत्याग्रहस्य जीवितमित्यनुभवसिद्धमासीत् । ईद्रशक्षमावृत्तिवशादनेकशो मम प्राणापायः सृह्रदसंतापश्च समजनि । परन्तु सत्यं वज्रकठोरं कमलवत्कोमलं च भवति ॥ एवं न्यायवादिसभया प्रत्यवस्थितोऽहं भूयः ख्यातिमगमम् । बहूनि वृत्तपत्राणि न्यायवादिसभयानुष्ठितमकृत्यमसूयानिमित्तकमिति च प्राहुः । किं च व्याख्यानटीकादिभिरीद्रशैर्मम कार्यं भूयः सुकरमासीत् ॥

‘खादी ’ जन्म[सम्पादयतु]

पंचदशोत्तरैकोनविंशतिसहस्त्रतमे वर्षे दक्षिणाफ्रिकादेशतोऽहं पश्चाद्वृत्तः । तदा मया वस्तुतः 'चरखो’ न द्रष्टः । साबरमत्यां सत्याग्रहाश्रमनिर्माणकाले कतिपयान् वायदंडान् वयं प्रावेशयाम । तत्प्रवेशनादनंतरमेव प्रातिकूल्यमुत्थितम् । सर्वे वयमुदारवृत्तिग्राहिणोऽथवा कार्यपराः । नैकोऽप्यस्माकं शिल्पी बभूव । वायदंडेषु कार्यकरणात्पूर्वमस्माकमेको वयनकुशलो वयनं शिक्षयितुमावश्यक आसीत् । पर्यंते पालनपुरग्रामादेको लब्धः । किंतु तस्य सर्वं शिल्पिज्ञानमस्माकं न ददौ । परंतु मगनलालगांधिमहाशयः शीघ्रमेव निराशो न संवृत्तः । शिल्पयंत्रकार्ये स्वभावतः समर्थोऽचिराच्छिल्पविद्यामग्रहीत् । अपि चैकैकशः कतिपयनूतनवायकाः शिक्षिता आश्रमे । स्वहस्तनिर्मितवस्त्रेणात्मानं वासयितुं शक्यं यथा स्यात्तथा भवितुमस्माकमुद्देश आसीत् । अतो वयं तत्क्षणमेव यंत्रनिर्मितवस्त्राणि परित्यज्याश्रमस्य सर्वे जना स्वदेशीयसूत्रैर्निर्मितानि वस्त्राण्येव धारयितुं निश्चिता बभूवुः । एतदभ्यासस्वीकारो महान्तमनुभवमानिनाय । वायकानां जीवितनियमान साक्षात्संपर्केणावगन्तुं शक्तानकरोत् । अपि चोत्पन्नस्य प्रमाणं सूत्रसंपादनमार्गे स्थितानंतरायान् वंचना-ग्रस्ताः भवितुं मार्गोऽपि च पर्यन्ते सर्वदा वर्धमानं ऋणित्वं एतत्सर्वं ज्ञातुं शक्तांश्चकार । यादवस्माकमावश्यकं तावत्सर्वं लब्धुं न समर्था अभूम । अतोऽवशिष्टः पक्षो हस्तवेम्नस्तंतुवायाद्वस्त्रं संभरणीयम् । परंतुः सज्जस्थितवस्त्रं भारतीययंत्रसूत्रनिर्मितवस्त्रविक्रयिभ्यो वा तंतुवायेभ्यो वा लब्धुं न सुकरम् । तंतुवायैर्निर्मितं वस्त्रं सर्वं समीचीनं विदेशीयसूदेव । यतो भारतीययंत्राणी तर्कुद्वारेण तंतून्न चक्रुः । अद्यापि यंत्राणामुत्पादनमत्यल्पं स्वदेशीयसूत्राणां तंतुवायान् पर्यन्ते महता प्रयत्नेन लब्धुमशक्नुम । नियमस्तु तैरुत्पादितं सर्वमस्मद्धारणवस्त्राणामिति यंत्रनिर्मितसूत्राणां वस्त्रस्वीकारेण सुह्रदां च मध्ये प्रसारणेन भारीतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूताः । एतद्यंत्रैः सह संपर्कमजनयत् । तेन तेषां कार्यसंविधानं कार्यप्रत्यूहांश्च ज्ञातुमवकाशो लब्धः । यंत्राणामुद्देशे निर्मितसूत्रेण तंतुवायानधिकं कर्तुमासीत् । हस्तमेवतंतुवायैस्तेषां सहकारः यथेप्सितो नासीत् । किंत्वपरिहार्योऽनित्यश्च । अस्मत्स्वकीयसूत्रस्य तांतवकरणे वयमातुराः स्थिताः । यावद्वयमेतत् कर्तुमवस्थितास्तावद्यंत्राणामालंबनं स्थास्यतीति स्पष्टम् । भारतीययंत्राणां प्रतिनिधीभूय देशसेवां कर्तुं समर्था भवेमेति नान्वभूम ॥ सप्तदशोत्तरैकोनविंशे वर्षे भरूचपत्तने संवृत्तशिक्षणपरिषदध्यक्षो भवितुं सुह्रदस्तत्र मामनैषुः । तत्रैवाहं तां महासाहसिनीं गंगाबाईमहाशयामदर्शम् । सा विधवा । तथापि तस्याः साहसं निरवधिकमासीत् । सामान्यगणनया सा यद्यपि तावच्छिक्षिता नासीत्तथापि धैर्ये ज्ञाने च सास्मत्-सुशिक्षितस्त्रीजनमतीवातिकांता । सा न केवलमस्पृश्यताकलंकं परित्यकवती परं निर्भयेनास्पृश्यैर्मिलित्वा तत्सेवामकरोत् । तस्याः स्वीयं विषयमासीत् । यदस्या आवश्यकं तदत्यल्पम् । सा सिघटितशरीरा सहचरं विना सर्वत्र संचारं करोति स्म। अश्वारोहणं नाम तस्याः सामान्यम् गोधरानगरे संवृत्तपरिषदि मम तया सह गाढः परिचयोऽभूत् । 'चरखा’ संबंधे मम दुःखमस्य न्यवेदयम् । अहं राटं परिशोधयितुं निरंतरं प्रयतिष्य इत्युक्त्वा सा मम भारमल्पीचकार ॥

बाल्ये सत्यप्रियतायाः पाठः[सम्पादयतु]

बालकः गान्धिः (क्रि.श.१८७६तमवर्षस्य चित्रम्)

बाल्ये एकदा मोहनदासगान्धिः 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदासगान्धिः बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा प्रामाणिकः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदासगान्धिः कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

दक्षिण-आफ्रिकादेशे गान्धिः[सम्पादयतु]

दक्षिण-आफ्रिकादेशे गान्धिः

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदासगान्धिः दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तम् आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं गान्धिः तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिः भारतदेशं प्रत्यागतवान् ।

स्वातन्त्र्यान्दोलनस्य नेतृत्वम्[सम्पादयतु]

लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धिः (क्रि.श.१९३०, एप्रिल् ५ दिनाङ्कः)

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धिः काङ्ग्रेससंस्थायाम् प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् । महात्मागान्धिः भारतपाकिस्तानविभागे विरोधम् प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिशान्तिप्रार्थनां कुर्वन्ति । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मागान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैकेकार्यक्रमाः प्रचलन्ति ।

गान्धिदर्शनम्[सम्पादयतु]

महात्मनोगान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अतएवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।

गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नय्य ईश्वरत्वम् आपद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरुपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत ।

गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । "यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरुपं चास्ति स नीतिरुपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव् दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्तोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकं आत्मरुपेण तिष्ठति ।

गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मवान् एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।

सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततं वर्धयेदिति । एतादृश आदर्शः स्वान्तः प्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वरञ्च कर्त्तव्यमस्ति ।

गान्धी महोदयः धर्मं ईश्वरप्राप्त्यै मार्गरुपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य् वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यं अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अतएव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।

नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशिस्व सद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।

यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । धर्म एव नैतिकताया रुपेण कर्मास्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरुपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्

मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य अयं दृष्टिकोणः वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य अयं दृष्टिकोणः वस्तुगतयथार्थमाश्रित्य अवर्तत् । गान्धिमतेन ईश्वरः तर्कात् पर आसीत् । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धीमहोदयः बोधरुपेण विश्वासरुपेण अनुभूतिरुपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।

गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरुपेण अवर्तत् । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र् पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयः ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमदभगवदगीतायाःः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरि स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।

गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः[सम्पादयतु]

(१) ईश्वरः अस्ति । स च सत्यरुपं वर्तते ।
(२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
(३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
(४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
(५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
(६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
(७) पञ्च महामन्त्रा अनुष्ठेयाः ।
(८) एकादश महाव्रतानि अनिवार्यरुपेण आत्मोन्नत्यै पालनीयानि ।
(९) ईश्वरः सर्वत्र व्यापकोऽस्ति । स सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
(१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रुपान्तरणं प्राथमिकमस्ति ।
(११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
(१२) कर्मण्यताया विकल्पो नास्ति । अतः नि स्वार्थकर्त्तव्यबोधेन कर्त्तव्यतां आचरमाणः जीवनप्रयोजनं लभते ।
(१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
(१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।

श्रीमदभगवदगीतोक्त सिद्धान्तानां पुनः प्रतिष्ठापना[सम्पादयतु]

महात्मा गान्धी गीतायाः स्वश्रद्धाम् अभिव्यक्तवान् । तन्मतानुसारेणा श्रीमदभगवदगीता आध्यात्मिक कर्मवादिपक्षयोः समीकृता कृतिरस्ति । श्रीमदभगवदगीतायाः सन्देशोऽयमस्ति यत् चरित्रनिर्माणं भवेत् दृष्टिकोणं व्यापकतां नयेत्, मानवश्च कर्त्तव्यवादी स्यात् । गीतायाः स्वोन्नयनस्य सृजनात्मका आयामा विद्यन्ते । अतः तत्र कर्मण्यताया उपदेश एव बलीयानस्ति । गीतोक्ता अनासक्तिः केवलं संकल्पेन संभवा नास्ति यथा हि महात्मा गान्धी प्रतिपादितवान् यत् वेदपाठी मनीषी जातुचित् सर्वज्ञो भवेत् किन्तु अनासक्तभावस्तस्मिन् वर्तते, एवेति वक्तुं न शक्यते, यतो हि अनेके तादृशा मनीषोणोऽपि जीवनस्य अपेक्षितानि मूल्यानि न अर्जितुं क्षमन्ते ।

गीतायाः अनासक्तभावः त्यागस्य आदर्शम् उपस्थापयति । यथार्थतः त्यागस्य प्रमाणमिदमेवास्ति यत् फलोपलब्ध्योराकाक्षा केनापि प्रकारेण न स्यादिति । कर्म तु अनिवार्य् स्वाभाविकम् आवश्यकं चास्ति तथापि दायित्वमिदमेवास्ति यत् कर्मणः परिणतेरुपरान्तमपि फलोपलब्धिभ्यां व्यक्तिरनासक्तो भवेत् । गान्धिमते अनासक्तं कर्म एव धर्मस्ते । धर्मश्च एकमात्रं भौतिकं जगत् अनुशास्ति । गीतायाः प्रतिपाद्यं सत्ये अहिंसायां च प्रतिष्ठितं प्रतीयते । तथा हि अनासक्तिः जीवनाधारश्चेत् हिंसासत्ययोः निरर्थकता स्वत एव सिद्धा स्यात् । यद्यपि गीतायाः मूलभूतम् उद्देश्यं अहिंसायाः स्थापना नासीत्, तथापि अनासक्तिरेव अहिंसायाः पोषिका अभवत् । एवं प्रकारान्तरेण अहिंसायाः प्रतिपादनं तत्र विद्यते ।

महात्मा गान्धी लिखति यत् अहिंसायाः स्थापना तु गीतायाः रचनाकालात् बहुवर्ष् यावत् पूर्वमेव संजाता आसीत् , किन्तु अहिंसा जीवनस्य शाश्वतमूल्यरुपेण प्रतिष्ठिताऽपि व्यवहारे सदाचाररुपेण गृहीता नासीत् । अस्मदेव कारणात् महाभारतयुद्धो बभूव । महाभारतकाले हिंसायाः प्रवृत्तिमवरोद्धं अहिंसायाः उपदेशाय गीतायाः परोक्षप्रतिपादनपद्धतिः भगवता श्रीकृष्णेन गृहीताः । श्रीकृष्णेन हिंसाया विरोधं दर्शयितुमेव संन्यासस्य् गरिमा तत्र प्रतिपादितः । संन्यासश्च तत्र कर्मण्यतायाः पर्यायरुपेणैव गृहीतः , न् तु कर्मपरित्यागरुपेणेति गान्धिमहोदयः स्वीकृतवान् गान्धिदर्शनस्येदं दृष्टिकोणमपि गीतायाःमवलम्बितमस्ति यत् अनासक्ति-त्याग-धर्मादीनामनुपालनम् अहिंसाया अनिवार्यताया अभावे कदापि नैव सम्भवति ।

गीतायाः विषये गान्धिनोऽवधारणा आसीत् यत् गीता एको धार्मिकः सन्देशोऽस्ति । युगयुगान्तरस्य असीमितताया अनुरुपं गीतायाः सत्त्वमपि शाश्वतं सनातनं चास्ति । इमं सन्देशं ते एव गृहीतुं क्षमन्ते, ये अबाधरुपेण आस्तिका वर्तन्ते । गीतायाः दृष्टिकोणविषये गान्धिमहोदयेनोक्तम् यत् श्रीमदभगवद्गीता गूढदर्शनस्याभिव्यक्तेः परे भूता अवर्तत । सा समाजाय सम्भावित-अप्रत्याशित –यथार्थ-प्रक्रियासु बोधयते । गीतायाः सन्देशः तत्त्वविदः स्थापना अस्ति, यस्य परिणामस्वरुपं गुणानामन्तः क्रियायाः भानं सम्भवति । मुक्तिबोधश्च स्थाप्यते । गान्धिमतेन गीतोक्तः कर्मपुनर्जन्मसिद्धान्तः सामयिकीनां प्रचलितानां सुपरिणाम आसीत् । वस्तुतस्तु मानवस्य जीवनं विकासात्मकस्य सत्त्वस्य पर्यायभूतमस्ति । गुणवत्तैव तत्प्रयोजनस्य प्रामाणिकताऽस्ति । कर्म मानवस्य चरित्रानुकृतिरस्ति । संस्कारस्य अथवा कर्मण इदमेव प्रामाण्यं वर्तते यत् भौतिके जगति कर्त्तृत्वमाप्य मानवः यत्किंचित् करोति तत्र किं च असम्यक् वर्तते । व्यक्तिः नवसृजन-विचार –प्रतिक्रियादिषु सर्वदा संलग्नो भवति । तस्य सृष्टेर्मूलं यथार्थतस्तदीया जीवन्तताऽस्ति । कर्ममार्गेणापि ईश्वरो लब्धुं शक्यः, अतएव महात्मना गान्धिना संकेतितं यत् व्यक्तिगतस्तरेऽपि परमेश्वर एवैकमात्रं परमसत्यमस्ति ।

ज्ञानयोगिनः कर्मयोगिनो वा सर्वतः अस्यैव सत्यस्य साधकाः सन्ति । कर्मप्रेरितः संघर्ष एव गीतायाः व्याप्तमस्ति । गान्धिनः दृष्टिकोणे योगः आत्मनियंत्रणस्य साधनरुपेण गीतायाः चर्चितः । योगस्य परिणामस्वरुपमेव मानवानां बौद्धिक- वैचारिक-भावनासु इच्छासु वा नियन्त्रणं अनिवार्यमस्ति । स्वधर्मस्य मूलमपि इदमेव यथार्थं बोधयति । गान्धिमतेन निष्कामकर्मणः प्रतिफलं आत्मशुद्धिमात्रमस्ति । आत्मशुद्धया आत्मज्ञातव्यतया चैव विवेकस्य मुक्तेर्वा प्राप्तिः संभाव्यते । मानवीयदायित्वानां पूर्त्त्यैव दैवीयानुभूतिर्जायते । कर्त्तव्यतैव मुक्तिबोधोऽस्ति । अनासक्तियोगस्योपलब्धिः सत्याहिंसयोरभावेऽसम्भावाऽस्ति । एवं गान्धिना श्रीमदभगवदगीतायाः नूतनाव्याख्या कृता । तद्विचारेण गीता मात्रं परभौतिक उदघोष एव नासीत्, अपितु जीवनदर्शनस्य यथार्थं मार्गदर्शनम् आसीत् ।

सम्बद्धजनाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. Gandhi, Rajmohan (2006), pg 1-3.
  2. "महात्मा उपाधिप्राप्तिः". Retrieved 8 फ़ेब्रुवरि 2014. 
"http://sa.wikipedia.org/w/index.php?title=महात्मा_गान्धी&oldid=274787" इत्यस्माद् पुनः प्राप्तिः