पुरुषोत्तमदासः टण्डन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पुरुषोत्तमदासः टण्डन्
जननम् क्रि.श. १८८२तमवर्षस्य आगस्ट्मासस्य प्रथमदिनम् ।
अलहाबादः उत्तरप्रदेशराज्यम्, भारतम्
मरणम् क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनम् ।
अलहाबादः
राष्ट्रियता भारतीयः
शैक्षिकयोग्यता सेण्ट्रल् महाविद्यालयः अलहाबादः, मूर् सेण्ट्रल् महाविद्यालयः,
वृत्तिः स्वातन्त्र्ययोद्धा
संस्था गौरीविद्यासंस्था ।
धर्मः हिन्दुधर्मः
मातपितरौ शरणा प्यारी (माता)
सालिग्रामः(पिता)

भारतस्य स्वातन्त्र्यसङ्ग्रामस्य योद्धा हिन्दिभाषाप्रियः,पुरूषोत्तमदासः टण्डन् (जीवितकालः - क्रि.श. १८८२तमवर्षस्य आगस्ट्मासस्य प्रथमदिनतः क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनपर्यन्तम् ।) इति नामकस्य जन्म भारतदेशस्य उत्तरप्रदेशराज्यस्य अलहाबादमण्डले अभवत् । अस्य पिता सालिग्रामः माता शरणप्यारी इति । एषः भारतीयराष्ट्रियान्दोलनस्य अग्रपङ्क्तेः नेता समर्पितराजनैतिकः, हिन्दीभाषायाः अनन्यसेवकः, कर्मठपत्रकर्ता, तेजस्वी वक्ता, समाजनिवर्तकः च आसीत् । हिन्दीभाषा राष्टभाषा भवतु इति आग्रहं कृतवत्सु अयम् अन्यतमः । क्रि.श. १९५०तमे वर्षे भारतीयराष्ट्रिय-काङ्ग्रेस्-पक्षस्य अध्यक्षः अभवत् । भारतस्य राजनैतिके सामाजिके जीवने नूतनं चेतनं, नवं तरङ्गं, नवक्रान्तिं च आनीतवान् कर्मयोगी इति राजनीतिवलये कथयन्ति स्म । सामान्यजनानां मनसि एषः राजर्षिः इति प्रसिद्धः आसीत् । केचन वदन्ति स्वातन्त्र्यप्राप्तिः एव अस्य आद्यं लक्ष्यम् आसीत् इति । हिन्दीभाषा भारते स्वातन्त्र्यप्रापणस्य साधनम् अस्ति । स्वातन्त्र्यप्राप्तेः पश्चात् भारतस्य रक्षणस्य भाषा अस्ति इति उक्तवान् । पुरुषोत्तमदासस्य राजनीतिप्रवेशस्य कारणं तस्य अनुपमं हिन्दीभाषाप्रेम । क्रि.श. १९५१तमवर्षस्य फेब्रवरिमासस्य सप्तदशे दिने मुजफ्फरनगरस्य सुहृद्सङ्घस्य सप्तदशे वार्षिकोत्सस्य अवसरे पुरुषोत्तमदासः स्वस्य भाषणे हिन्दीभाषायाः विषयम् उक्तवान् ।

प्रारम्भिकजीवनम्[सम्पादयतु]

पुरुषोत्तमदासस्य जन्म क्रि.श. १८८२तमवर्षस्य अगस्ट्मासस्य प्रथमदिनाङ्के उत्तरप्रदेशराज्यस्य अलहाबादनगरे अभवत् । अस्य प्राथमिकी शिक्षा स्थानीये सिटि आङ्ग्लो वर्नाक्युलर् विद्यालये अभवत् । एषः क्रि.श. १८९४तमवर्षे विद्यालये माध्यमिकशिक्षायाः परीक्षां समुत्तीर्णवान् । क्रि.श. १८९७तमे वर्षे प्रौढशालायाः परीक्षायाः उत्तीर्णतायाः पश्चात् तत्कालीनरीत्यनुसारम् अस्य विवाहः मुरादाबादनिवासिनः नरोत्तमदासखन्ना इत्यस्य पुत्र्या चन्द्रमुख्या सह अभवत् । क्रि.श. १८९९तमे वर्षे काङ्ग्रेस् सङ्घटनस्य स्वयंसेवकः अभवत् । तस्मिन् एव वर्षे इण्टर्मीडियट् परीक्षाम् उत्तीर्य क्रि.श. १९००तमे वर्षे पुत्र्याः पिता अभवत् । अत्रान्तरे भारतस्वातन्त्र्यसङ्ग्रामभूमौ निमग्नवान् । अग्रिमाध्ययनानर्थं एषः अलहाबादविश्वविद्यालयस्य म्योर् सेण्ट्र्ल् कालेज् प्रविष्टवान् । किन्तु स्वस्य क्रान्तिकारिककार्यकलापेन क्रि.श. १९०१तमे वर्षे महाविद्यालयतः निष्कासितः । क्रि.श. १९०३तमे वर्षे अस्य पिता दिवङ्गतः । एतादृशं सर्वं कष्टकण्ठकम् अतिक्रम्य क्रि.श. १९०४तमे वर्षे स्नातकपदवीम् आप्नोत् । क्रि.श. १९०५तमे वर्षे अस्य राजनैतिकजीवनम् आरब्धम् । क्रि.श. १९०५तमे वर्षे आरब्धे वङ्गभङ्गान्दोलनेन प्रभावितः स्वदेशिव्रतधारणम् अकरोत् । विदेशीयवस्तूनां बहिष्कारस्य रूपेण शर्कराभक्षणं त्यक्तवान् । गोपालकृष्ण गोखलेवर्यस्य अङ्गरक्षकरूपेण काङ्ग्रेस् अधिवेशने भागमवहत् । पुरुषोत्तमदासः क्रि.श. १९०६तमे वर्षे भारतीयकाङ्गेस् सङ्घटनस्य प्रतिनिधित्वेन चितः । अत्रारन्तरे लेखान् अपि रचयितुम् अरब्धवान् । लेखाः तत्कालीनपत्रिकासु अपि प्रकाशिताः । अस्मिन् समये अस्य प्रसिद्धं रचनं बन्दरसभामहाकाव्यम् इति | हिन्दीप्रभानामिकायां हिन्दीभाषापत्रिकायां तत् प्रकाशितम् । कार्यबाहुल्ये अपि स्वस्य अध्ययनं परिरक्षितवान् । क्रि.श. १९०६तमे वर्षे एल्.एल्.बी. पदवीमपि प्राप्य न्यायवादिवृत्तिम् आश्रितवान् । अग्रेपि अध्ययनं समुन्नीय स्नातकोत्तरपदवीं प्राप्य अलहाबादस्य उच्चन्यायालये तत्कालीनप्रसिद्धस्य बहादूरसप्रू वर्यस्य सहायकरूपेण न्यायवादिवृत्तिम् अनुवर्तितवान् ।

कार्यक्षेत्रम्[सम्पादयतु]

पुरुषोत्तमदासः टण्डन् अत्यन्तं मेधावी बहुमुखप्रतिभासम्पन्नः धनवान् च आसीत् । अस्य कार्यक्षेत्रं मुख्यतः त्रिषु भागेषु विभक्तम् असीत् । भारतस्य स्वातन्त्र्यसङ्ग्रामः, साहित्यम्, समाजः च इति विभागेषु कार्यं कृतवान् । स्वातन्त्र्यसङ्ग्रामे टण्डन् वर्यः कस्यचित् योधस्य भूमिकां कृतवान् । स्वस्य छात्रजीवने क्रि.श. १८९९तमे वर्षे काङ्ग्रेस्पक्षस्य सदस्यः सन् अलहाबादस्य भारतीयकाङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन चितः । क्रि.श.१८९९तमे वर्षे जलियन्वालाबागहत्याकाण्डस्य अध्ययनं कर्तुं नियोजितस्य काङ्गेस्पक्षस्य समितौ सदस्यः अभवत् । क्रि.श. १९२०तमे वर्षे सञ्चालिते असहकारान्दोलने गान्धिमहोदयस्य आह्वानम् अङ्गीकृत्य सफलां न्यायवादिनः वृत्तिं त्यक्त्वा सङ्ग्रामभूमौ कूर्दितवान् । क्रि.श. १९३०तमे वर्षे करतिरस्कारान्दोलने भागम् वहन् बस्ती इति स्थाने आरक्षकैः बद्धः कारावारवासम् अनुभूतवान् । क्रि.श. १९३१तमे वर्षे लण्डन्नगरे आयोजिते वर्तुलोत्पीठिकासम्मेलने महात्मनः गान्धेः निर्गमनात् पूर्वं येषां स्वातन्त्रयोधानां बन्धनं कृतवन्तः तेषु एतेन सह जवाहरलालनेहरुः अपि आसीत् । क्रि.श. १९३४तमे वर्षे एषः बिहारस्य प्रादेशिककृषकसभायाः अध्यक्षपदे नियुक्तः अभवत् । बिहारस्य कृषकान्दोलनस्य विषये कारुण्यवान् पुरुषोत्तमः तेषां विकासार्थम् अनेककार्याणि कृतवान् । टण्डन् वर्यः निरन्तरं स्वातन्त्र्यसङ्ग्रामे निरतः आसीत् । अतः ब्रिटिश् आरक्षकाः एतं क्रि.श. १९४०तमे वर्षे एतम् एकवर्षं यावत् गृहबन्धने स्थापितवन्तः । क्रि.श. १९४२तमवर्षस्य आगस्ट्मासे अलहाबादनगरे पुनः आरक्षकैः बद्धः क्रि.श.१९४४तमे वर्षे विमुक्तः । एषा टण्डन् वर्यस्य पञ्चमी तथा अन्तिमा कारावारयात्रा अभवत् । क्रि.श. १९३७तमवर्षस्य जुलै ३१तः क्रि.श. १९५०तमवर्षस्य अगस्ट्मासस्य दशमदिनपर्यन्तम् उत्तरप्रदेशस्य विधानसभायाः प्रवक्तृरूपेण नियोजितः । क्रि.श. १९४६तमवर्षे भारतस्य संविधानरचनसभायाः सदस्यत्वेन चितः ।

साहित्यसेवा[सम्पादयतु]

पुरुषोत्तमदासस्य व्यक्तित्वस्य कर्तृत्वस्य च आकलनावसरे प्रायः अस्य साहित्यकारस्य रूपं न परिगणितम् । वस्तुतः एषः कश्चित् उच्चस्तरीयः लेखकः । अस्य रचनानि तत्कालीनेतिहासस्य शोधं कुर्वन्ति स्म । साहित्यक्षेत्रे टण्डन्वर्यः निबन्धकारः, कविः, पत्रकर्ता इति अभिज्ञातः भवति । अस्य लेखाः हिन्दीभाषायाः, धर्मस्य संस्कृतेः चेति विविधविषयैः सम्बद्धाः भवन्ति स्म । भाषासाहित्ययोः सम्बद्धलेखेषु कविता, दर्शनं, साहित्यं, हिन्दीसाहित्य का कानन, हिन्दीराष्ट्रभाषा क्यों, मातृभाषा की महत्ता, भाषा का सवाल्, गौरवशाली हिन्दी, हिन्दी की शक्ति, कवि और दार्शनिक, इत्यादयः प्रमुखाः । धर्मसंस्कृतसम्बद्धनिबन्धेषु भारतीय संस्कृति और कुम्भमेला, भारतीय संस्कृति संदेश तथा अन्य निबन्धेषु लोककल्याणकारी राज्य, धन और उसका उपयोग, स्वामी विवेकानन्द और सरदार, वल्लभ भाई पटेल इत्याद्याः प्रमुखाः कृतयः । काव्यरचनेषु बन्दर सभा महाकाव्य, कुटीर का पुष्प, स्वतन्त्रता इत्याद्याः ऐतिहासिकरीत्या मुख्याः कृतयः । एतासु कृतिषु राष्ट्रियता तथ देशभक्तिः च जागरिता अस्ति । भारतीयसंस्कृतेः परमप्रियः चेदपि राजर्षिः टण्डन्वर्यः मौढ्यस्य अन्धविश्वासस्य विरोधी आसीत् । एषः भारतीयसमाजे व्याप्तस्य दुष्टपद्धतीनां कुप्रथानां विषये कटुवचनानि वदति स्म । अस्य आत्मबलम् अद्भुतम् आसीत् येन एषः कठिणातिकठिणकार्याणि अपि अनायासेन समापयति स्म । क्रि.श. १९४८तमवर्षस्य एप्रिल्मासस्य १५तमेदिने सन्ध्याकाले सरयूनद्याः तटे वैदिकमन्त्रोच्चारणपूर्वकं महान् देवरहा बबा स्वामी अस्मै राजर्षिः इति उपाधिम् अयच्छत् । केचन अयम् उपधिः अनुचितः इति अवदन् । किन्तु ज्योतिर्मठस्य श्री शङ्कराचर्यः महास्वामी अयं शास्त्रसम्मतः इति अवदत् । अस्य पुष्टये काश्याः पण्डितसभा क्रि.श. १९४८तमे वर्षे अखिअभारतीयसांस्कृतिकसम्मेलनम् उपाधिवितरणावसरे टण्डनस्य नाम्ना सह राजर्षिः इति पदम् अविच्छिन्नं भवतु इति उदघोषयत् ।

हिन्दीभाषाप्रोत्साहनम्[सम्पादयतु]

राजर्षिः बाल्यकालादेव हिन्दीभाषायाः अनुरागी आसीत् । एषः अनुरागः प्रवर्धितः पण्डितबालकृष्णवर्येण मदनमोहनमालवीयेन् च । क्रि.श. १९१०तमवर्षे अक्टोबरमसस्य दशमे दिने काशीनगरे हिन्दीसाहित्यसम्मेलनस्य प्रथमाधिवेशनं मालवीयस्य आध्यक्ष्ये सम्पन्नम् । राजर्षिः टण्डन् सम्मेलनस्य मन्त्रित्वेन नियुक्तः आसीत्। अग्रे साहित्यसम्मेलनस्य माध्यमेन हिन्दीभाषायाः अत्यधिकां सेवामकरोत् । राजर्षिः टाण्डन् हिन्दीभाषायाः प्रसारप्रचारार्थं हिन्दीविद्यापीठं प्रयागे प्रतिष्ठापयत् । हिन्दीभाषायाः शिक्षाप्रसारः आङ्ग्लभाषाप्रभावस्य न्यूनीकरणं च अस्य पीठस्य स्थापनायाः उद्देशः आसीत् । एतत् सङ्घटानम् अनेकाः हिन्दीभाषापरीक्षाः सञ्चालयति स्म । अनेन दक्षिणभारते अपि हिन्दीभाषायाः प्रसारः अभवत् । संस्थायाः एतेषां कार्याणां प्रभावः महिलाविश्वविद्यालयस्य महिलाविद्यायस्य उपरि अभवत् । अनेकेषु महाविद्यालयेषु विश्वविद्यालयेषु च हिन्दीभाषा पाठ्यक्रमे प्रवेशिता । क्रि.श. १९४९तमे वर्षे यदा संविधानसभासम्बद्धप्रश्नः आगतः तदा काचित् विचित्रा स्थितिः उत्पन्ना । महात्मा गान्धिः तु हिन्दुस्तानीसमर्थकः एव आसीत् । पण्डितनेहरुः तथा डा.राजेन्द्रप्रसादः अन्यनेतारः च हिन्दुस्तानीपक्षे एव आसन् । किन्तु राजर्षिः पुरुषोत्तमः न पराजितः अवनतः च |परिणामतः विजयः अपि अनेन एव प्राप्तः । क्रि.श. १९४९तमवर्षस्य डिसेम्बर् मासस्य ११-१४पर्यन्तं हिन्दी तथा हिन्दुस्तानि विषये काङ्ग्रेस् सभायां घर्मचर्चा प्रचलिता । पश्चात् मतदानप्रक्रिया अभवत् । हिन्दीभाषाहिते ६२मतानि हिन्दुस्तानीहिते ३२मतानि आगतानि । पश्चात् काङ्गेस् पक्षस्य सभायां हिन्दी राष्ट्रभाषा देवनागरी राजलिपिः इति समघोषयन् । वन्देमातरं गीतं राष्ट्रगीतं कर्तुं राजर्षिः टण्डन् स्वसहयोगिभिः सह अभियानं चालितवान् । अस्य अनुमोदनपूर्वकं कोटिशः जनानां हस्ताक्षराणि स्वीकृतवान् । समर्थनपत्राणि अपि एकत्र कृतवान् ।

विवादः[सम्पादयतु]

भारतवर्षे स्वातन्त्र्यपूर्वादपि साम्प्रदायिकसमस्याः विकटरूपेण सन्त्येव । राजर्षिः भारतीयसंस्कृतेः परमभक्तः पोषकः च । अतः केचन नेतारः राजर्षेः टण्डनवर्यस्य उपरि साम्प्रदायिकः इति आक्षेपम् अकुर्वन् । भारते संस्कृतिद्वयस्य रक्षणं विश्वासघातककार्यं भवति इति राजर्षेः भावः आसीत् किन्तु अन्यमतविरोधी इति तु न । वास्तवेन टाण्डनवर्यस्य व्यक्तित्वं मानववादि आसीत् । अस्य गृहे यः बालकः अस्य सहायतां करोति स्म सः अन्यमतीयः एव आसीत् । किन्तु जनाः तम् अन्यमतविरोधी साम्प्रदायिकः इति भावयन्ति स्म ।

उल्लेखाः[सम्पादयतु]


बाह्यानुबन्धाः[सम्पादयतु]