राजेन्द्र प्रसाद

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(राजेन्द्रप्रसादः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
डा. बाबू राजेन्द्रप्रसादः
भारतस्य प्रथमराष्ट्रपतिः
कार्यालये
२६ जनवरी १९५० – १३ मै १९६२
प्रधानमन्त्री जवाहरलाल नेह्रू
उपराष्ट्रपतिः सर्वपल्ली राधाकृष्णन्
पूर्वगमः नास्ति (प्रथमः इत्यर्थः)
पादानुध्यातः सर्वपल्ली राधाकृष्णन्
व्यक्तिगत विचाराः
जननम् 3 December 1884(1884-12-03)
जिरादै, सिवन्, बिहार, बेङ्गल् प्रेसिडेन्सी, भारतम्
(वर्तमाने बिहार, भारतम्)
मरणम् 28 February 1963(1963-02-28) (aged 78) पाटना, बिहार, भारतम्
राष्ट्रीयता भारतीय
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी राजवैष्णवी देवी
मुख्यशिक्षणम् कोलकाताविश्वविद्यालयः
धर्मः हिन्दुधर्मः

डाक्टर् बाबू राजेन्द्रप्रसादः(जीवितकालः - क्रि.श. १८८४तमवर्षस्य डिसेम्बर्मासस्य तृतीयदिनतः क्रि.श. १९६३तमवर्षस्य फेब्रवरीमासस्य २८तमदिनपर्यन्तम् ) भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतीयस्वतन्त्रतायाः अन्दोलने प्रमुखनेतृषु अन्यतमः । अपि च भारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् । भारतीयसंविधानस्य निर्माणे अपि अस्य प्रधानं योगदानम् अस्ति यस्य परिणामेन क्रि.श. १९५०तमवर्षस्य जनवरिमासस्य २६तमे दिने भारतं गणतन्त्रम् अभवत् । राष्ट्रपतिपदम् अतिरिच्य एषः भारतस्य केन्द्रीयमन्त्रिणः पदे अपि कञ्चिक्तालं व्यराजत । समग्रे देशे अत्यन्तं लोकप्रियः भूत्वा जनैः राजेन्द्रबाबू अथवा देशरत्न इति आहूयते स्म ।

पूर्वजाः[सम्पादयतु]

भारतदेशस्य बिहारराज्ये महादेवसहायस्य पुत्ररूपेण राजेन्द्रपसादस्य जन्म अभवत् । किन्तु अस्य पूर्वजाः उत्तरप्रदेशराज्यस्य अमोडाप्रदेशस्य निवासिनः । अस्य कुटुम्बिनः कायस्थाः आसन् । अस्य पिता संस्‍कृतभाषायां पारसीभाषायां च प्रवीणः आसीत्‌ । राजेन्द्रस्य पितामहः विद्यावान् आसीत् । अतः देशान्तरगतेन तेन हटुवा संस्थाने दिवानस्य कार्यं प्राप्तम् । त्रिंशत् वर्षाणि तस्मिन् संस्थाने कार्यं कृतवान् । तदा स्वयं किञ्चिद्भूभागं क्रीतवान् । अस्य पिता महादेव सहायः कृषिकर्म करोति स्म । राजेन्द्रस्य पितृव्यः जयदेव सहायः अपि क्षेत्रकर्मणि सहायः भवति स्म । जयदेवस्य किमपि सन्तानं नासीत् । अतः एषः अपि राजेन्द्रं स्वपुत्रः इव पश्यति स्म । पितुः पितृव्यस्य पितामहस्य च प्रेम्णा राजेन्द्रः सुखेन पालितः । पितामह्याः मातुः च प्रीतिरपि निरतिशया आसीत् । माता प्रभाते अनेन सह शीघ्रं शयनादुत्थाय प्रभागतीतानि भजनं कीर्तनं रामयणमहाभरतादीनां कथाः च श्रावयति स्म ।

प्रारम्भिकं जीवनम्[सम्पादयतु]

राजेन्द्र बाबू बिहारराज्यस्य सीवनमण्डलस्य जीरादेयी इति ग्रामे क्रि.श. १८८४तमे वर्षे डिसेम्बर मासस्य तृतीये दिने अजायत । अस्य पिता श्री महादेव सहायः संस्कृतभाषा पारसीभाषायः पण्डितः आसीत् । अस्य माता श्रीमती कमलेश्वरी देवी काचित् धर्मपरायणा महिला आसीत् । पञ्चवर्षीयः राजेन्द्रः मौलवी सहाब इत्यनेन फारसीभाषया शिक्षायाः आरम्भं कृतवान् । पश्चात् प्राथमिकशिक्षाप्राप्तये मण्डलस्य सर्वकारीयविद्यालयं प्रविष्टवान् । तत्कालीनस्य सम्प्रदायानुगुणं राजेन्द्रस्य विवाहः बाल्ये एव अभवत् । यदा एषः १३वर्षीयः आसीत् तदा राजवंशीदेवी इत्यनया सह विवाहः अभवत् । विवाहसस्य पश्चात् पटनानगरस्य टि.के.घोष अकादमी इति शिक्षासंस्थायां विद्याभ्यासम् अनुवर्तितवान् । अस्य वैवाहिकं जीवनम् अतीव सुखमयम् आसीत् । अस्य अध्ययने अथवा अन्यकार्ये विवाहः बाधकः नाभवत् । शीघ्रमेव मण्डलस्य शालां त्यक्त्वा स्वस्य अष्टदशे वयसि कोलकाताविश्वविद्यालयस्य प्रवेशपरीक्षाम् अलिखत् । प्रथमश्रेण्या तां परीक्षां समुत्तीर्य क्रि.श. १९०२तमे वर्षे कोलकोतायाः प्रसिद्धे प्रेसिडेन्सी महाविद्यालये प्रवेशं प्राप्तवान् । राजेन्द्रः स्वप्रतिभया गोपालकृष्ण गोखले विहारविभूतिः डा. अनुग्रह नारायण सिन्हा इत्यादीन् पण्डितान् आकृष्टवान् । क्रि.श. १९१५तमवर्षे सस्वर्णपदकं विधिपरास्नतकपदवीं (एल्.एल्.बि.) उत्तीर्णवान् । पश्चात् आधुनिकन्यायक्षेत्रे (ला) शोधपत्रं प्रस्तुत्य डाक्टरेट् उपाधिमपि प्राप्तवान् ।

भारतीयभाषाप्रेम[सम्पादयतु]

यद्यपि राजेन्द्रस्य अध्ययनं फारसीभाष्या उर्दूभाषया च आरब्धं तथापि स्नातकपरीक्षां हिन्दी भाषया लिखितवान् । एषः हिन्दी, उर्दू, फारसी, आङ्ग्लं, बङ्गाली भाषाणां साहित्येन परिचितः आसीत् । अपि च एताभिः भाषाभिः सुललितं प्रभावकारि व्याख्यानं करोति स्म । अस्य गुजरती भाषायाः अपि व्यावहारिकं ज्ञानम् आसीत् । एम्.एल्.परीक्षानिमित्तं हैन्दवशासनविषये संस्कृतग्रन्थान्अपि पठितवान् । हिन्दीभाषायाः विषये अस्य प्रेम अगाधम् आसीत् । भारमित्र, भारदोदय, कमला इत्याद्यसु तत्कालीनप्रसिद्धासु दिनपत्रिकासु अस्य लेखाः प्रकाशिताः भवन्ति स्म ।


स्वातन्त्र्यान्दोलने भूमिका[सम्पादयतु]

भारतस्य स्वातन्त्र्यसङ्ग्रामे अस्य प्रवेशः न्यायवादिनः रूपेण वृत्तिभूमिप्रवेशेन सह एव अभवत् । चम्पारणसत्याग्रहे महात्मा गान्धिः कस्यचित् सत्यान्वेषणस्य समूहस्य प्रेषणावसरे स्वस्य स्वयंसेवकगणे अन्तर्भवितुं सूचितवान् । राजेन्द्रः महात्मा गान्धेः त्यगेन निष्ठया च बहुधा प्रभावितः अभवत् । क्रि.श. १९२१तमे वर्षे एषः कोलकताविश्वविद्यालयस्य सिनेटर् पदस्य त्यागम् अकरोत् । गान्धिमहोदयः यदा विदेशीय संस्थानां बहिष्कृतवान् तदा राजेन्द्रः स्वपुत्रं मेधाविनं मृत्युञ्जयप्रसादं कोलकोताविश्वविद्यायतः निष्कास्य बिहारविद्यापीठे प्रवेशितवान् ।


भारतरत्नम्[सम्पादयतु]

क्रि.श.१९६२तमे वर्षे भारतसर्वकारः राजेन्द्रप्रदं भारतरत्नम् इति सर्वश्रेष्ठेन उपाधिना सममानयत् । एतत् तु अस्मै भारतस्य कृतज्ञता यः आन्तरङ्गिकध्वनिं श्रुत्वा अर्धशताब्धं यावत् मातृभूमेः सेवामकरोत् ।

चरमयात्रा[सम्पादयतु]

राजेन्द्रप्रसादः स्वस्य जीवनस्य अन्तिमदिनानि यापयितुं पाटनासमीपस्थं सदाकत इति आश्रमं चितवान् । तत्र क्रि.श. १९६३तमवर्षस्य फेब्रवरिमासस्य २८तमे दिने देहत्यागं कृतवान् ।

बाह्याः सूत्राः[सम्पादयतु]

Commons logo
वीकिमीडियाकोषे अनेन सम्बद्धमाध्यमाः सन्ति ।

""

"http://sa.wikipedia.org/w/index.php?title=राजेन्द्र_प्रसाद&oldid=275102" इत्यस्माद् पुनः प्राप्तिः