आर् वेङ्कटरामन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(रामस्वामी वेङ्कटरामन् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रामस्वामी वेङ्कटरामन्
Ramaswamy Venkataraman
भारतस्य अष्टमः राष्ट्रपतिः
कार्यालये
२५/७/१९८७ – २५/७/१९९२
प्रधानमन्त्री राजीव गान्धी
विश्वनाथ प्रताप सिंह
चन्द्रशेखर सिंह
पी वी नरसिंह राव
उपराष्ट्रपतिः डॉ.शङ्कर दयाल शर्मा
पूर्वगमः श्रीज्ञानी जैल सिंह
पादानुध्यातः डॉ.शङ्कर दयाल शर्मा
उपराष्ट्रपतिः
कार्यालये
२०/८/१९८२ – २७/७/१९८७
राष्ट्रपतिः श्रीज्ञानी जैल सिंह
पूर्वगमः मुहम्मद हिदायतुल्लाह
पादानुध्यातः डॉ.शङ्कर दयाल शर्मा
गृहमन्त्री
कार्यालये
२२/६/१९८२ – २/९/१९८२
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः श्रीज्ञानी जैल सिंह
पादानुध्यातः प्रकाश चन्द्र शेठी
रक्षामन्त्री
कार्यालये
१५/१/१९८२ – २/९/१९८४
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः इन्दिरा गान्धी
पादानुध्यातः शङ्कर राव चव्हाण
वित्तमन्त्री
कार्यालये
१४/१/१९८० – १५/१/१९८२
प्रधानमन्त्री इन्दिरा गान्धी
पूर्वगमः हेमवती नन्दन बहुगुणा
पादानुध्यातः प्रणब मुखर्जी
व्यक्तिगत विचाराः
जननम् ४/१२/१९१०
पट्टुक्कोट्टै, मद्रास, ब्रिटिशशासितं भारतम्
(अधुना तमिळनाडु, भारतम्)
मरणम् २७/१/२००९ (९८ वयसि)
नवदेहली, भारतम्
राजनैतिकपक्षः कोङ्ग्रेस
पतिः/पत्नी जानकी वेङ्कटरामन्
मुख्यशिक्षणम् लॉयला कॉलेज् मद्रास
डॉ. अम्बेडकर लॉ कॉलेज् - मद्रास
वृत्तिः वाक्कीलः
धर्मः हिन्दुधर्मः
हस्ताक्षरम्

श्रीरामस्वामी वेङ्कटरामन् (तमिळ्: ரா. வெங்கட்ராமன், आङ्ग्ल: R. Venkataraman) भारतगणराज्यस्य अष्टमः राष्ट्रपतिः । भारतीयराजनीतिक्षेत्रस्य अस्थिरतायामेव श्रीरामस्वामी वेङ्कटरामन् इत्यस्य राष्ट्रपतिकालः व्यपगतः । एतावत् पर्यन्तं सः एकमात्रः राष्ट्रपतिः अस्ति, यः भारतीयगणराज्यस्य चतुर्भिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । सः कुशलः लेखकः अपि आसीत् । तेन अनेकानि प्रख्यातपुस्तकानि लिखितानि । सः स्वतन्त्रसेनानित्वेन ताम्रपत्रम् अपि प्रापत् । भारतीयराजनीतिक्षेत्रस्य अस्थिरतायाः काले राष्ट्रपतिपदं व्यभूषयत् इति सः प्रख्यातः ।

जन्म, शिक्षणञ्च[सम्पादयतु]

१९१० तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४) दिनाङ्के तमिलनाडुराज्यस्य तञ्जावूरुमण्डलस्य पट्टुक्कोट्टै-ग्रामे श्रीवेङ्कटस्य जन्म अभवत् । तस्य पितुः नाम रामस्वामी अय्यर् आसीत् । सः तञ्जावूरु-नगरे वाक्कीलः आसीत् । तस्य परिवारः समृद्धः आसीत् । अतः श्रीवेङ्कटस्य शिक्षणे विशेषकष्टानि नासन् । तञ्जावूरु-नगरस्य प्रसिद्धविद्यालयात् स्वस्य प्राथमिकशिक्षणं समाप्य सः मद्रासविश्वविद्यालये स्नातकस्य अध्ययनं प्रारभत । पितुः इच्छानुसारं सः मद्रास लॉ महाविद्यालयात् एल्. एल्. बी. अपठत् । ततः १९३५ तमे वर्षे मद्रास उच्चन्यायालये वाक्कीलत्वेन कार्यं प्रारभत । १९५१ तमे वर्षे सः उच्चतमन्यायालये वाक्कीलत्वेन कार्यं कर्तुं योग्यः अभवत् ।

विवाहः, परिवारश्च[सम्पादयतु]

१९३८ तमे वर्षे श्रीवेङ्कटस्य विवाहः जानकी देवी नामिकया कन्यया सह अभवत् । तयोः दाम्पत्यजीवनं सुखकरमासीत् । तयोः एकः पुत्रः, तिस्रः पुत्र्यः आसन् । तस्य पुत्रः यदा सप्तदशवर्षीयः आसीत्, तदा सः मृतः । तस्य पुत्रीणां नामानि क्रमेण पद्मा, लक्ष्मी, विजया इति ।

वाक्कीलत्वेन श्रीवेङ्कटः[सम्पादयतु]

यदा श्रीवेङ्कटः वाक्कीलत्वेन कार्यं प्रारभत, तदा आभारते स्वतन्त्रतान्दोलनस्य वातावरणमासीत् । अहिंसा-हिंसामार्गाभ्यां आङ्ग्लानां विरोधः भवति स्म । अहिंसकाः सभा-आन्दोलन-सत्याग्रहादिभिः आङ्ग्लानां विरोधं कुर्वन्तः राष्ट्रस्वतन्त्रतायै कार्यं कुर्वन्तः आसन् । क्रान्तिकारिणः आङ्गाधिकारिणः मारयित्वा, अन्यरीत्या बलप्रयोगेन वा राष्ट्रस्वतन्त्रतायै कार्यं कुर्वन्तः आसन् ।

आरक्षकाणां दमनेन त्रस्तः मद्रास-प्रसिडेन्सि इत्यस्य एकः युवकः एकस्य आङ्ग्लाधिकारिणः हत्याम् अकरोत् । हत्यायाः अभियोगस्य निर्णयः मृत्युदण्डः इति न्यायालयेन उद्घोषितम् । मद्रास-प्रसिडेन्सि इत्यस्य प्रख्यातः वाक्कीलः सी. राजगोपालाचारी तस्य युवकस्य मृत्युदण्डम् आजीवनकारागारे परिवर्तयितुं बहुप्रयत्नम् अकरोत् । परन्तु सः तथा कर्तुंम् असफलः अभवत् । ततः सः अभियोगः श्रीवेङ्कटस्य पार्श्वे गतः । श्रीवेङ्कटेन बहुसंशोधनानन्तरं न्यायालयेन कृतस्य अभियोगस्य निर्णयः अयोग्यः इति सिद्धं कृतम् । आङ्ग्लैः कृता मृत्युदण्डस्य घोषणा एकेन वाक्कीलेन आजीवनकारावासे परिवर्तिता इति प्रसिद्धिः चतसृषु दिग्षु प्रसरिता । श्रीवेङ्कटस्य कुशलतया प्रभाविताः सन्तः कोङ्ग्रेस-पक्षस्य नेतारः श्रीवेङ्कटं "राजनीतिक्षेत्राय योगदानं यच्छतु" इति परामर्शम् अयच्छन् । परन्तु "राजनीतिक्षेत्रे मम रुचिः नास्ति" इति उक्त्वा सः तेषां परामर्शं निराकरोत् ।

स्वतन्त्रतान्दोलने श्रीवेङ्कटः[सम्पादयतु]

१९४२ तमे वर्षे महात्मनाभारत छोडो’-आन्दोलनस्य घोषणा कृता । महात्मनः प्रभावेन श्रीवेङ्कटेन वाक्कीलस्य कार्यं त्यक्त्वा स्वतन्त्रतान्दोलनाय स्वस्य सम्पूर्णः समयः समर्पितः । विभिन्नेषु आङ्ग्लविरोधिसम्मेलनेषु सः आङ्ग्लविरोधीनि कार्याणि अकरोत् । श्रीवेङ्कटस्य विरोधेन त्रस्तः आङ्ग्लसर्वाकारः तं वर्षद्यं यावत् कारागारं प्रैषयत् । कारागारे सः स्वतन्त्रतभारताय बहुचिन्तनम् अकरोत् । १९४४ तमे वर्षे सः कारागारात् मुक्तः अभवत् । कारागारे चिन्तिताः विचाराः कथम् अनुसरणीयाः इति तस्य मनसः प्रप्रथमः प्रश्नः आसीत् । राजनीतिः एव देशस्वतन्त्रतायै मार्गः इति विचिन्त्य सः राजनीतिप्रवेशस्य निर्णयम् अकरोत् । १९४४ तमे वर्षे सः तमिलनाडु-कोङ्ग्रेससमित्याः श्रमशाखायाः सदस्यः अभवत् । श्रमविभागे कार्यरतः श्रीवेङ्कटः श्रमिकाणां समस्यानां सुचारुरीत्या समाधानं कुर्वन् श्रमजीविषु प्रसिद्धिं प्रापत् ।

आज़ाद हिन्द फौज इत्यस्य साहाय्यम्[सम्पादयतु]

१९४६ तमे वर्षे भारते ब्रिटिश्-शासनस्य समाप्तेः निश्चयः जातः आसीत् । भारतस्वतन्त्रतायै नेताजी सुभाष चन्द्र बोस इत्यनेन यस्य आजाद हिन्द फौज इत्यस्य रचना कृता आसीत्, तस्य दलस्य पराजयः अभवत् । तस्य दलस्य सैनिकाः राजद्रोहिणः इति सिङ्गापुर-देशस्य सर्वकारेण आक्षेपः कृतः आसीत् । परन्तु निष्पक्षन्यायस्य चेष्टायां ते भारतात् वाक्कीलान् आह्वयन् । भारतस्य जनानां रक्षणं भवतु इति विचिन्त्य भारतसर्वकारेण एकस्य वाक्कीलगणस्य रचना कृता । तस्मिन् वाक्कीलगणे श्रीवेङ्कटः अपि आसीत् । सिङ्गापुर-देशेऽपि सः स्वस्य तर्कैः भारतीयजनानां साहाय्यम् अकरोत् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् इति घोषणा अभवत् । सिङ्गापुर-देशात् सफलो भूत्वा आगतः श्रीवेङ्कटः जनेषु योग्यवाक्कीलत्वेन प्रसिद्धः आसीत् । अतः १९४७ तमे वर्षे मद्रास-वाक्कील-सङ्घस्य अध्यक्षत्वेन चितः सः ।

राजनीतिक्षेत्रे योगदानम्[सम्पादयतु]

भारतस्य श्रमिकाणां जागृत्यै तेन 'लेबर् लॉ'-नामिकायाः प्रसिद्धमासिकपत्रिकायाः प्रारम्भः कृतः । १९५२ तमस्य वर्षस्य निर्वाचने श्रीवेङ्कटः लोकसभायाः सदस्यः अभवत् । लोकसभासदस्यत्वेन तस्य कार्याणि उल्लेखनीयानि सन्ति । यथा –

१) वस्त्रनिर्माणयन्त्रागाराणां राष्ट्रीकरणस्य नियमे सः यानि परिवर्तनानि अकरोत्, तानि श्रमिकेभ्यः, यन्त्रागारश्रेष्ठिभ्यश्च बहुश्रेयस्कराणि असिद्धयन् ।

२) ग्राम-नगरयोः नागरिकेभ्यः सम्पत्तिसम्बद्धाः नियमाः विसमाः आसन् । स्वतर्कैः श्रीवेङ्कटः नेहरू इत्येनं नियमानां विसमतायाः निराकरणम् अबोधयत् । ततः सर्वसम्मत्या सम्पत्तिसम्बद्धः अध्यादेशः लोकसभायां सिद्धः अभवत् ।

३) १९५३ तः १९६१ पर्यन्तं संयुक्तराष्ट्रमहासभायां भारतस्य प्रतिनिधित्वम् अपि श्रीवेङ्कटः अकरोत् । १९५७-६७ तमिळनाडुराज्यस्य उद्योग-श्रम-सहकारिता-विद्युत्-परिवहन-व्यवसाय-मन्त्रालयस्य दायित्वम् अवहत् श्रीवेङ्कटः । ततः १९८२ पर्यन्तं सः राज्यस्य, केन्द्रस्य च विभिन्नेषु सांविधानिकपदेषु कार्यम् अकरोत् । राजनैतिकक्षेत्रे तस्य प्रसंशा विपक्षेणापि मुहुर्मुहुः कृता ।

उपराष्ट्रपतित्वेन श्रीवेङ्कटः[सम्पादयतु]

१९८४ तमे वर्षे उपराष्ट्रपतेः हिदायतुल्लाह इत्यस्य कार्यकाले समाप्ते जाते सति तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी उपराष्ट्रपतिप्रत्याशित्वेन श्रीवेङ्कटस्य नाम उपास्थापयत् । १९८४ तमस्य वर्षस्य 'अगस्त'-मासस्य द्वाविंशति(२२)तमे दिनाङ्के श्रीवेङ्कटः उपराष्ट्रपतिनिर्वाचने अजयत । तस्य मासस्य एकत्रिंशत्तमे दिनाङ्के श्रीवेङ्कटः उपराष्ट्रपतित्वेन दायित्वं स्व्यकरोत् । १९८६ तमे वर्षे श्रीवेङ्कटः फ्रांस-देशस्य यात्रायै गतः आसीत् । फ्रांस-देशे भारतस्य प्रधिनिधित्वं कुर्वन् फ्रांस-देशस्य राष्ट्रपतेः उपस्थितौ भारतस्य गौवरवर्धकम् एकं भाषणं कृतम् आसीत् तेन । सः अवदत्, “सृष्टेः प्रारम्भादेव ज्ञानपिपासुः मनुष्यः ज्ञात-अज्ञात-क्षेत्रयोः अन्वेषणं कुर्वन् अस्ति । अविरतज्ञानपिपासायाः कारणेनैव विश्वस्मिन् विकसिताः सर्वाः सभ्यताः समृद्धाः सन्ति । अस्माकं देशस्य प्राचीनपरम्परा आधुनिकज्ञानेन सह एकरूपतां साधयति इत्येव नवीनभारतस्य वैशिष्ट्यम् अस्ति” इति । उपराष्ट्रपतित्वेन तस्य प्रख्यातं भाषणम् आसीत् तत् ।

श्रीवेङ्कटस्य उपराष्ट्रपतित्वेन यदा मासद्वयं जातमासीत्, तदैव इन्दिरा गान्धी इत्यस्याः निर्ममहत्या अभवत् । इन्दिरा गान्धी यस्मिन् दिने सा मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव श्रीज्ञानी राजीव गान्धी इत्यनेन प्रधानमिन्त्रिशपथम् अकारयत् । ततः राष्ट्रपतित्वेन श्रीज्ञानी जैल सिंह इत्यस्य कार्यकाले समाप्ते सति तत्कालीनः प्रधानमन्त्री राजीव गान्धी श्रीवेङ्कटस्य नाम राष्ट्रपतिप्रत्याशित्वेन उपास्थापयत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य षड्विंशतितमे दिनाङ्के राष्ट्रपतिनिर्वाचने भारतगणराज्यस्य अष्टमराष्ट्रपतित्वेन श्रीवेङ्कटः चितः । पञ्चविंशतितमे दिनाङ्के मध्याह्नकाले राष्ट्रपतिपदगौरवं रक्षितुं सर्वोच्चन्यायालस्य मुख्यन्यायाधीशः श्री आर. एस. पाठक श्रीवेङ्कटेन शपथम् अकारयत् ।

राष्ट्रपतित्वेन श्रीवेङ्कटः[सम्पादयतु]

राष्ट्रपतित्वेन प्रप्रथमभाषणं कुर्वन् श्रीवेङ्कटः अवदत्, “पञ्चत्रिंशत्वर्षं पुरा भारतस्य सर्वप्रथमः राष्ट्रपतिः श्रीराजेन्द्र प्रसाद यदा अस्मिन् सभाखण्डे राष्ट्रपतित्वेन शपथम् अकरोत्, तदा मम कल्पना अपि नासीत् यत्, अहमपि राष्ट्रपतित्वेन सम्मानं प्राप्स्यामि इति । अद्य देशजनाः यं सम्मानं मह्यम् अयच्छन्, तस्मै अनुगृहीतोऽस्म्यहम् । अहम् एतत्पदं न केवलं गौरव-प्रतिष्ठयोः प्रतीकत्वेन पश्यामि अपि तु मम कृते साहसपूर्णदायित्वेन एतत् कार्यं अस्ति” इति ।

अस्थिरराजनैतिकस्थित्याः कारणेन राष्ट्रपतित्वेन श्रीवेङ्कटस्य कार्यकालः साहसपूर्णनिर्णयैः परिपूर्णः आसीत् । एतावत् पर्यन्तं सः एकमात्रः राष्ट्रपतिः अस्ति, यः भारतगणराज्यस्य चतुर्भिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । राजीव गान्धी इत्यस्य कार्यकाले श्रीवेङ्कटः राष्ट्रपतित्वेन शपथम् अकरोत् । १९८९ तमस्य वर्षस्य 'दिसम्बर'-मासस्य द्वितीये दिनाङ्के श्रीवेङ्कटः वी पी सिंह इत्यनेन प्रधानमन्त्रिशपथम् अकारयत् । परन्तु एकवर्षाभ्यान्तरे एव संसदसभ्यैः चन्द्रशेखर इत्ययं प्रधानमन्त्रित्वेन चितः । अतः १९९० तमस्य वर्षस्य 'नवम्बर'-मासस्य दशमे दिनाङ्के तेन प्रधानमन्त्रिशपथम् अकारयत् श्रीवेङ्कटः । प्रधानमन्त्रित्वेन चन्द्रशेखरस्य चत्वारः मासाः व्यतीताः आसन् । तदैव कोङ्ग्रेस-आई-पक्षः चन्द्रशेखरस्य असमर्थनम् औद्घोयत् । चन्द्रशेखरस्य प्रधानमन्त्रित्वेन पदत्यागानन्तरं निर्वाचनस्य घोषणा अभवत् । निर्वाचनप्रचारार्थं गतस्य पूर्वप्रधानमन्त्रिणः राजीव गान्धी इत्यस्य नृशंसहत्या अभवत् । राजीव गान्धी इत्यस्य हत्यानन्तरं निर्वाचने कोङ्ग्रेस-पक्षस्य विजये सति नरसिंह राव् प्रधानमन्त्री अभवत् । १९९१ तमस्य वर्षस्य 'जून'-मासस्य विंशतितमे दिनाङ्के श्रीवेङ्कटः नरसिंह राव् इत्यनेन प्रधानमन्त्रिशपथम् अकारयत् । १९९२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के श्रीवेङ्कटस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । राष्ट्रपतित्वेन कार्यकालस्य समाप्तेः घण्टाद्यसमनन्तरम् एव राष्ट्रपतिभवनम् अत्यजत् श्रीवेङ्कटः । राष्ट्रपतिभवनात् मद्रास-महानगरम् अगच्छत् सः ।

मृत्युः[सम्पादयतु]

२००९ तमस्य वर्षस्य 'जनवरी'-मासस्य द्वादशे दिनाङ्के मूत्रसम्बद्धविकारस्य उपचारार्थं श्रीवेङ्कटः देहली-महानगरस्य 'आर्मी रिसर्च् एण्ड् रेफरल्'-रुग्णालयम् अगच्छत् । २००९ तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तविंशतितमे दिनाङ्के मध्याह्नकाले अष्टनवति(९८)तमे वयसि श्रीवेङ्कटः शरीरम् अत्यजत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

राष्ट्रपतिः

आजाद हिन्द फौज

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

सन्दर्भः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आर्_वेङ्कटरामन्&oldid=278229" इत्यस्माद् पुनः प्राप्तिः